33079: अगारैकदेशे प्रघणः प्रघाणश्च

Padacheda: अगारैकदेशे | S | 7 | 1 |

प्रघणः | S | 1 | 1 |

प्रघाणः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words प्रघणः and प्रघाण are irregularly formed meaning ‘a portion of a dwelling house’.

Vasu English Translation

The words प्रघणः and प्रघाण are irregularly formed meaning ‘a portion of a dwelling house’. Thus प्रघणः or प्रघाणः ‘a porch before the door of a house, a portico’. This is formed from हन् with प्र, irregularly.

Why do we say ‘when meaning a portion of a house’? Observe प्रघातः ।

Kashika

प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये। प्रघणः। प्रघाणः। द्वारप्रकोष्ठो बाह्य उच्यते। अगारैकदेश इति किम्? प्रघातोऽन्यः॥

Siddhanta Kaumudi

द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥

Tattvabodhini

अगारैकदेशे प्रघणः प्रघाणश्च - अगारैक ।प्रघाणप्रघणाऽलिन्दा बहिद्र्वारप्रकोष्ठके॑ इत्यमरः ।

Padamanjari

द्वारप्रकोष्ठो बाह्य उच्यत इति । द्वार प्रदेशे द्वौ प्रकोष्ठावलिन्दौ - आभ्यन्तरः, बाह्यश्च । तत्र बाह्यए प्रकोष्ठे निपातनम्, नागारैकदेशमात्रे । ऐतच्च निपातनाल्लभ्यते । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति अप् कर्मणि, पक्षे वृद्धिश्च ॥

Prakriyasarvasvam

बहिरलिन्दोऽयम् ॥