33080: उद्घनोऽत्याधानम्

Padacheda: उद्घनः | S | 1 | 1 |

अत्याधानम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word उद्घन is irregularly formed in the sense of ‘bench’.

Vasu English Translation

The word उद्घन is irregularly formed in the sense of ‘bench’. This is formed from उत् + हन् irregularly. Thus उद्घनः ‘a carpenter’s bench’ (the wood on which placing other planks &c. the carpenter carves &c).

When not having this sense, we have उद्घातः ‘uneven’.

Kashika

उत्पूर्वस्य हन्तेः उद्घन इति निपात्यतेऽत्याधानं चेद् भवति। उद्घनः। यस्मिन् काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते। उद्घातोऽन्यः॥

Siddhanta Kaumudi

अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ॥

Padamanjari

अत्याधानमिति । अतिशब्द उपरिभावे वर्तते, आदधातिः स्थापने, अधिकरणे ल्युट् । उद्घन इत्यत्राप्यधिकरण एवाप् ॥

Nyaas

अत्याधानम् इति। अतिशब्द उपरिभावे वर्तते। आदधातिः स्थापने। य उपरि निधीयते स्थाप्यते तस्मिन् सः, तदस्याधानम्। अधिकरणे ल्युट्। उद्घनः इति। उद्धन्यतेऽस्मिन्नित्यधिकरणेऽप्॥

Prakriyasarvasvam

यस्मिन् काष्ठे निधाय वृक्षास्तक्ष्यन्ते, स उद्घनः ॥