33056: एरच्¶
Padacheda: एः | S | 5 | 1 |
अच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अच् comes after a root ending in इ or ई (when mere action is denoted or when the sense is that of an appellative, the word being related to the verb from which its name is deduced, but not as an agent).
Vasu English Translation¶
The affix अच् comes after a root ending in इ or ई (when mere action is denoted or when the sense is that of an appellative, the word being related to the verb from which its name is deduced, but not as an agent). The words within brackets are to be supplied from sutras 18 and 19: and these words are to be supplied in every subsequent sutra as far as sutra 113 of this chapter. This debars घञ्. The च in अच् is qualitative, in sutras like (6.2.144).
Thus, चयः ‘collecting’; अयः ‘going’; जयः ‘victory’; क्षयः ‘wasting’.
Vart:- In this connection the words भय &c. should also be enumerated. As भी + अच् = भयम् ‘fear’; वर्षम् ‘rain’. These being neuter words, otherwise would have taken the affix क्त &c. but for this Vartika.
Vart:- The words जव and सव are formed by this affix, and occur in the Vedas. As ऊर्वोरस्तु मे जयः, पञ्चोदनसवः । These roots जु and सु would have otherwise taken the affix अप्. The form would have been the same, but there would be difference of accent. See Rig. I.112.21, and Yaj. XI.2.
Bhashya¶
एरच् (1031) (551 इवर्णान्तादच्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.20) (4033 वार्तिकम्॥ 1 ॥) - अज्विधौ भयस्योपसंख्यानम् - (भाष्यम्) अज्विधौ भयस्योपख्यानं कर्तव्यम्। भयम्॥ (उपालम्भभाष्यम्) अत्यल्पमिदमुच्यते भयस्येति। भयादीनामिति वक्तव्यम्। इहापि यथा स्यात् -भयं,वर्षम्॥ (प्रश्रभाष्यम्) किं प्रयोजनम्?। (4034 वार्तिकशेषः॥ 2 ॥) - नपुंसके क्तादिनिवृत्त्यर्थम् - (भाष्यम्) नपुंसकलिङ्गे भावे क्तादयो मा भूवन्निति॥ (4035 वार्तिकम्॥ 3 ॥) - कल्प्यादिभ्यः प्रतिषेधः - (भाष्यम्) कल्प्यादिभ्यः प्रतिषेधो वक्तव्यः। कल्पः अर्थः मन्त्र इति॥ (4036 वार्तिकम्॥ 4 ॥) - जवसवौ छन्दसि - (भाष्यम्) जवसवौ छन्दसि वक्तव्यौ ऊर्वोरस्तु मे जवः। अयं मे पञ्ञ्चौदनः सवः॥ एरच् ॥ 56 ॥
Kashika¶
भावे, अकर्तरि च कारक इति प्रकृतमनुवर्तते यावत् कृत्यल्युटो बहुलम् (३.३.११३) इति। इवर्णान्ताद् धातोर्भावे, अकर्तरि च कारके संज्ञायामच् प्रत्ययो भवति। घञोऽपवादः। चकारो विशेषणार्थः। अन्तः (६.२.१४३) थाथघञ्क्ताजबित्रकाणाम् (६.२.१४४) इति। चयः। अयः। जयः। क्षयः॥ अज्विधौ भयादीनामुपसंख्यानम्॥ नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्॥ जवसवौ छन्दसि वक्तव्यौ॥ ऊर्वोरस्तु मे जवः (पै०सं० २०.३६.७)। पञ्चौदनस् सवः (पै०सं० ८.१९.३)॥
Siddhanta Kaumudi¶
चयः । जयः ॥<!भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् !> (वार्तिकम्) ॥ भयम् । वर्षम् ॥
Laghu Siddhanta Kaumudi¶
इवर्णान्तादच् । चयः । जयः ॥
Tattvabodhini¶
एरच् - वर्षमिति ।वृषभो वर्षणा॑ दिति भाष्यप्रयोगात्तु ल्युडपि । वर्षणम् ।
Padamanjari¶
चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्,’कल्प्यादिभ्यः प्रतिषेधवचनम्’ इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥
Nyaas¶
चकारो विशेषणार्थः इति। विनापि तेन थाथादिसूत्रे (6.2.143) अप्रत्ययादित्यप्रत्ययस्यापि ग्रहणं स्यात्। अज्विधौ इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु कृत्यल्युटो बहुलम् (3.3.113) इत्येतदाश्रित्य कर्तव्यम्। अन्यस्तु पञ्चमी भयेन (2.1.37) वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम् (3.4.32) इति निपातनाद्भयादीनां सिद्धिमिच्छति, न चासौ युक्ता; किमिदं भयवर्षशब्दयोर्नपुंसकलिङ्गयोरुच्चारणम्? इत् पुंल्लिङ्गयोः? इति सन्देहात्। वक्तयौ`इति। व्याख्येयावित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `जवः, सवः इति। जु (3.2.150) इत्येस्मात् सौत्राद्धातोः, षुञ् अभिषवे (धातुपाठः-1247) इत्येस्माच्चोत्तरसूत्रेणापि प्राप्तेऽज्भवति। स्वरे विशेषः - अपि हि स्तामाद्युदात्तं पदं स्यात्, अजन्ते सत्यन्तोदात्तत्वं भवति॥
Prakriyasarvasvam¶
इवर्णान्तात् भावादिष्वजेव, न घञ् । गुणः । चयः । क्रयः । ण्यन्ताना- मिदन्तत्वादेरच् । णिलोपः । भक्षः । एरजण्यन्तानामिति मते घञ् । उपसर्ग- दीर्घो भेदः ॥
Vartika¶
भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् ।
Sutra Prayogas¶
स्वदेहार्पणनिष्क्रयेण (रघुवंशम्): एरच् इत्यच्प्रत्ययः।
जयशमौ (किरातार्जुनीयम्): एरच् इत्यच्।
प्रचयेषु (भट्टिकाव्यम्): एरच् इति अच्।
पणाऽयान् (भट्टिकाव्यम्): एरच् इति अच्।
शिलोच्चयांस्तुङ्गानुत्तेरुरतरान्नदान् (भट्टिकाव्यम्): एरच् इत्यच्।
सलिलोच्चयान् (भट्टिकाव्यम्): एरच् इति ऊर्ध्वं चीयत इत्यर्थे अच् प्रत्ययः।
प्रविलय (भट्टिकाव्यम्): एरच् इति निमिलीभ्यां खलचोः प्रतिषेधो वक्तव्यः।