33057: ॠदोरप्¶
Padacheda: ॠदोः | S | 5 | 1 |
अप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After a root ending in long ॠ , short उ or long ऊ , there is the affix अप्।
Vasu English Translation¶
After a root ending in long ॠ , short उ or long ऊ , there is the affix अप्। This debars घञ्. The प् is indicatory for the sake of accent (3.1.3); as, कृ + अप् = करः ‘scattering’; गॄ–गरः ‘beverage, poison’; शॄ–शरः ‘arrow’; यु–यवः ‘barley’; लू–लवः ‘reaping’; पू–पवः ‘winnowing corn’.
The द् in ॠद् is merely for the sake of euphony: it is not त् changed into द; for then by the rule ‘that which follows त् is also called तपर’ short उ only would have been taken and not long ऊ (1.1.70).
Kashika¶
ॠकारान्तेभ्य उवर्णान्तेभ्यश्च अप् प्रत्ययो भवति। घञोऽपवादः। पित्करणं स्वरार्थम्। करः। गरः। शरः। उवर्णान्तेभ्यः — यवः। स्तवः। लवः। पवः। दकारो मुखसुखार्थः। मा भूत् तादपि परस्तपरः॥
Siddhanta Kaumudi¶
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥
Laghu Siddhanta Kaumudi¶
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। घञर्थे कविधानम्। प्रस्थः। विघ्नः॥
Tattvabodhini¶
ऋदोरप् - ऋदोरप् । ॠच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम् ।ॠदो॑रित्ययं न तकारः, किं तर्हि । दकारः ।निरभ्योः पूल्वः॑ इत्यपवादतया घञ्विधानाज्ज्ञापकाद्दीर्घान्तादप्युदाहरति — लवः । पव इति । घञचोरपवाद इति ।निश्चय॑ इत्यत्राऽचः प्राप्तिरन्यत्र घञ इति विवेकः । हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञुदाहृतः ।
Padamanjari¶
लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह - दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च’निरभ्योः पूल्वोः’ इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ॥
Nyaas¶
पित्करणं स्वरार्थम् इति। अनुदात्तौ सुप्पितौ (3.1.4) इत्यनुदात्तत्वं यथा स्यात्। ऋदोरप् इत्यत्र ऋकारस्तपरः स्यात्। एवं सति तादपि परस्तपरः इत्युकारोऽपि तस्य परः स्यात्। ततश्च तपरस्तत्कालस्य (1.1.70) इति परिभाषोपस्थानादिहैव स्यात् - यवः,स्तव इति; लवः,पव इत्यत्र तु न स्यात्। दकारे तु अण् सवर्णान् गृह्णाति - `भुवः गृह्णाति (व्या।पा।66?) इति दीर्घादपि भवति। तस्मादुकारोऽयं सवर्णं गृह्णाति। अत्र च लिङ्गम् - भुवः प्रभवः (1.4.31) इति निर्देशः।तपरे तु भवतेरप् न स्यात्, ततश्च प्रभवः`इति निर्देशो नोपपद्यते। तस्य तु दकारस्य मुखसुखार्थत्वादन्यत् प्रयोजनं न सम्भवतीत्येतत्सर्वमालोच्याह - `दकारो मुखसुखार्थः इति॥
Prakriyasarvasvam¶
ऋदन्तादुवर्णान्ताच्च भावादिष्वबेव । स्तु स्तरः । ‘भृ मरणे’ । भरः । स्तवः । लवः ॥
Sutra Prayogas¶
सूर्यप्रभवो (रघुवंशम्): ॠदोरप् इति अप्-प्रत्ययः।
सविस्तरं (रघुवंशम्): ॠदोरप् इत्यप्प्रत्ययः।
प्रभवः (किरातार्जुनीयम्): ऋदोरप् इति अप्-प्रत्ययः।
विस्तरे (किरातार्जुनीयम्): ऋदोरप् इत्यप्।
विष्टरे (किरातार्जुनीयम्): ऋदोरप् इति अप्-प्रत्ययः।
सुविस्तरतरा (शिशुपालवधम्): ॠदोरप् इति अप्-प्रत्ययः।
महाहवे (शिशुपालवधम्): ऋदोरप् इति जुहोतेरप्प्रत्यये गुणावादेशौ ।
अभिभवेन (भट्टिकाव्यम्): ऋदोरप् इति अप् ।
भरं (भट्टिकाव्यम्): ऋदोरप् इति अप्।
संभवाम् (भट्टिकाव्यम्): ऋदोरप् इत्यप्।
अजिनाऽऽस्तराम् (भट्टिकाव्यम्): ऋदोरप् इति आस्तीर्यत इति आस्तरः, अजिनमास्तर उत्तरासङ्गो यस्यास्तामजिनास्तराम्।
लवं (भट्टिकाव्यम्): ऋदोरप् इति अप्प्रत्ययान्तः।
पुष्पाऽऽस्तरांस्ते (भट्टिकाव्यम्): ऋदोरप् इति आस्तीर्यन्त इत्यत्र अप्-प्रत्ययः।