33047: परौ यज्ञे¶
Padacheda: परौ | S | 7 | 1 |
यज्ञे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the root ग्रह् ‘to seize’ in composition with परि when it relates to sacrificial subjects.
Vasu English Translation¶
The affix घञ् comes after the root ग्रह् ‘to seize’ in composition with परि when it relates to sacrificial subjects. As उत्तरपरिग्राहः ‘the northern fencing of the sacrificial altar’; अधरपरिग्राहः ‘the southern fencing of the sacrificial altar’.
Why do we say ‘when relating to sacrifices’? Observe परिग्रहः देवदत्तस्य ‘the fencing of Devadatta’.
Kashika¶
परिशब्द उपपदे ग्रहेर्घञ् प्रत्ययो भवति, यज्ञविषयश्चेत् प्रत्ययान्ताभिधेयः स्यात्। उत्तरपरिग्राहः। यज्ञ इति किम्? परिग्रहो देवदत्तस्य॥
Siddhanta Kaumudi¶
उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥
Padamanjari¶
उतरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुतरः परिग्राह इत्यसमास एव पठ।ल्ते ॥
Prakriyasarvasvam¶
परिग्रहेर्यज्ञगतेऽर्थे वाच्ये घञ् । परिग्राहो वेद्याः ॥
Sutra Prayogas¶
वेदि-वत्स-परिग्राहा (भट्टिकाव्यम्): ग्रहेः परौ यज्ञे इति यज्ञविपये घञ्।