33048: नौ वृ धान्ये

Padacheda: नौ | S | 7 | 1 |

वृ | S | | | 6

धान्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the verb वृ preceded by नि when the sense is that of grain.

Vasu English Translation

The affix घञ् comes after the verb वृ preceded by नि when the sense is that of grain. The वृ here means both वृङ् and वृञ्. This debars the affix अप्. As नीवाराः ‘rice growing wild or without cultivation’.

Why do we say ‘meaning grain’? Observe निवरा कन्या ‘a virgin girl’.

Kashika

वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। निशब्द उपपदे वृ इत्येतस्माद् धातोर्धान्यविशेषेऽभिधेये घञ् प्रत्ययो भवति। अपोऽपवादः। नीवारा नाम व्रीहयो भवन्ति। धान्य इति किम्? निवरा कन्या॥

Siddhanta Kaumudi

वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा गौरितिवत् ॥

Padamanjari

नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति ।’ग्रहवृदृनिश्चिगमश्च’ इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति वचनात् ? सत्यम्;’कृत्यल्युटो बहुलम्’ इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च’घञजबन्ताः पुंसि’ इति प्रायिकं द्रष्टव्यम् ॥

Nyaas

अपोऽपवादः`इति। `ग्रहवृदृ (3.3.58) इत्यादिना प्राप्तस्य। नीवारा नाम व्रीहयो भवन्ति इति। एतेन यद्यपि धान्यशब्देन सामान्यवाचिनायं व्युत्पाद्यते, तथापि प्रत्ययान्तं शब्दशक्तिस्वाभाव्याद्धान्यविशेष ए वर्तत इति दर्शयति। उपसर्गस्यघञि (6.3.121) इति दीर्घत्वम्।निवरा इति। निव्रियत इति निवरा। स्वभावेनाबन्तमपि स्त्रियां वर्तते। एवञ्च यद् घञबन्तो घाजन्तश्चेति लिङ्गाधिकारेऽबन्तस्य पुंल्लिङ्गताप्रतिपादनं तत् प्रायिकं वेदितव्यम्॥

Prakriyasarvasvam

निपूर्वस्य वृधातोर्धान्ये वाच्ये घञ् । नेर्दीर्घः । नीवारः ॥

Sutra Prayogas

  • नीवार-फल-मूलाऽशानृषीनप्यतिशेरते (भट्टिकाव्यम्): नौ वृ धान्ये इति घञ्।