33034: छन्दोनाम्नि च¶
Padacheda: छन्दोनाम्नि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ with the उपसर्ग वि when the word so formed is the name of a metre.
Vasu English Translation¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ with the उपसर्ग वि when the word so formed is the name of a metre. The word छन्द here means prosodial metre such as Gayatri & c; and not the Vedas; otherwise the word नाम would not have been used. Thus वि + स्तृ + घञ् = वि + स्तृ + घञ् (8.3.94) = विष्टारः ‘the name of a metre called Vishtara-Pankti’.
The whole word विष्टारपङ्क्ति is the name of a metre, and is not a word ending with the affix ghan; only a member of this word, i.e. the first part ends with ghan. The seventh case-affix in the word छन्दोनाम्नि has the force of location i.e. when the word so formed occurs in a portion of a name of a metre; it is not the full name, but it is in the name i.e. forms a portion of the name.
Kashika¶
वौ स्त्र इति वर्तते। विपूर्वात् स्तृणातेश्छन्दोनाम्नि घञ् प्रत्ययो भवति। वृत्तमत्र छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्राह्मणम्, नामग्रहणात्। विष्टारपङ्क्तिश्छन्दः। विष्टारबृहती छन्दः। विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न घञन्तं शब्दरूपम्, तत्र त्ववयवत्वेन वर्तते। छन्दोनाम्नीत्यधिकरणसप्तम्येषा॥
Siddhanta Kaumudi¶
स्त्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥
Tattvabodhini¶
छन्दोनाम्नि च - छन्दो । शब्दविषयत्वात्पूर्वेणाऽप्राप्ते वचनम् । केचित्तुप्रस्तारपङ्क्ति॑रित्यादिप्रयोगानुरधेनात्र वाविति नानुवर्तयन्ति ।
Padamanjari¶
अक्षराणामियताविशिष्टो विन्यासविशेषोःउवृतम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति ।’बहुलं च्छन्दसि’ इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह - नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः,’च्छन्दोनाम्नि च’ इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचितु’वौ’ इति नानुवर्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः ।’कर्मण्यग्न्याख्यायाम्’ इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह - विष्टारपङ्क्तिशब्दोऽत्र च्छन्दोनामेति । अवयवत्वेन वर्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचितु तद्वर्तत इति तच्छब्दः पठ।ल्ते, तत्र नानुषङ्गः । कथं तर्हि च्छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह - च्छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं च्छन्दोनाम, अवयवाश्चावयविनि वर्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपतिरिति भावः ॥
Nyaas¶
छन्दःशब्दोऽयमस्त्येव मन्त्रब्राआहृणे, अस्त्यन्यदक्षराणामित्ताविशिष्टवृत्ते यस्य गायत्र्यादयो विशेषाः। तदिह कतरस्तदर्थो गृह्रते? इत्याह - वृत्तम् इत्यादि। अत्रैवोपपत्तिमाह - नामग्रहणात् इति। यद्यत्र मन्त्रब्राआहृणमिष्टं स्यान्नामग्रहणं न कुर्यात्, छन्दसीत्येव ब्राऊयात्। एवमपि ह्रुच्यमाने मन्त्रब्राआहृणग्रहणं लभ्यत एव, यथा - बहुलं छन्दसि (7.4.78) इत्यादौ वाक्ये। तस्मन्नामग्रहणाव्वृत्तमिह च्छन्दो गृह्रते। विष्टारपङ्क्तिः इति। छन्दोनाम्नि च (8.3.94) इति षत्वम्। विष्टारशब्द एवात्र घञन्तश्छन्दोनामेति कस्यचिद्भ्रान्तिः स्यात्, तन्निराकरणायाह - विष्टारपङ्क्तिशब्दोऽत्र इत्यादि। तत्र = विष्टारपङ्क्तिशब्दे। `अवयवत्वेन वर्तते`इति। घञन्तं शब्दरूपमिति सम्बन्धनीयम। यदि घञन्तं शब्दरूपं न च्छन्दोनाम, किन्तु विष्टारपङ्क्तिशब्दः, तत्र घञन्तरूपमवयत्वेन वर्तते, एवं तर्हि `छन्दोतत्कथमुन्नीयते? अस्य हि छन्दोनाम्नि गम्यमान इत्येषोऽर्थः,प्रत्ययान्तं छन्दोनाम भवतीति यावत्। एवञ्चार्थ एवं सति नोपपद्यत इत्याह - `छन्दोनाम्नीत्यधिकणसप्तम्येषा`इति। एतेन च्छन्दोनाम्नि प्रत्ययान्तस्याधिकरणभूते प्रत्यययो भवतीत्ययमत्रार्थो वेदितव्यः,न च्छन्दोनाम्नि गम्यमान इत्येष इति दर्शयति॥
Prakriyasarvasvam¶
स्तृधातोश्छन्दोनाम्नि घञ् । आस्तारपङ्क्तिश्छन्दः ॥