33033: प्रथने वावशब्दे¶
Padacheda: प्रथने | S | 7 | 1 |
वौ | S | 7 | 1 |
अशब्दे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ when the preposition वि is in composition with it when the sense is that of extension and when such spreading does not refer to words.
Vasu English Translation¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ when the preposition वि is in composition with it when the sense is that of extension and when such spreading does not refer to words. The word प्रथनं means ‘extent, circuit, range’. As पटस्य विस्तारः ‘the extension of the garment’.
Why do we say ‘when meaning extent’? Observe, तृणविस्तरः ‘a collection of grass’. Why do we say ‘not referring to words’? Observe विस्तरो वचसाम् ‘prolixity of words’.
Kashika¶
स्तृञ् आच्छादने अस्माद् धातोर्विशब्द उपपदे घञ् प्रत्ययो भवति प्रथने गम्यमाने, तच्चेत् प्रथनं शब्दविषयं न भवति। प्रथनं विस्तीर्णता। पटस्य विस्तारः। प्रथन इति किम्? तृणविस्तरः। अशब्द इति किम्? विस्तरो वचसाम्॥
Siddhanta Kaumudi¶
विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥
Padamanjari¶
विस्तारःउ तिर्यगायतिः ॥
Nyaas¶
तृणविस्तरः इति। तृणाच्छादनमित्यर्थः॥
Prakriyasarvasvam¶
विपूर्वस्तृधातोः शब्दादन्यत्र प्रथने वाच्ये घञ् । पटस्य विस्तारः । शब्दस्य तु विस्तरः । गुणविस्तरादयश्चिन्त्या इति वामनः ॥
Sutra Prayogas¶
सविस्तरं (रघुवंशम्): प्रथने वाचशब्दे इति घञो निषेधात्।
विस्तरे (किरातार्जुनीयम्): प्रथने वावशब्दे इति घञ्प्रतिषेधात्।
सुविस्तरतरा (शिशुपालवधम्): प्रथने वामशब्दे इति घञः प्रतिषेधः।
विस्तारम् (भट्टिकाव्यम्): प्रथने वावशब्दे इति घन् ।