33035: उदि ग्रहः¶
Padacheda: उदि | S | 7 | 1 |
ग्रहः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the verb ग्रह् ‘to seize’ when the preposition उत् is in composition.
Vasu English Translation¶
The affix घञ् comes after the verb ग्रह् ‘to seize’ when the preposition उत् is in composition. This debars the affix अप्. As उद्ग्राहः ‘lifting up’.
Vart:- In the Vedas this affix is applied even when the word ग्रह is preceded by नि; and the ह is changed into भ; the sense of the two words being ‘to lift up’ and ‘throw down’ respectively of the sacrificial ladle; as, उद्ग्राभं च निग्राभं च ब्रह्मदेवा अवीवृधन् ।
Kashika¶
उदि उपपदे ग्रहेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। उद्ग्राहः॥ छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः॥ हकारस्य भकारः। उ॒द्ग्रा॒भं च॑ निग्रा॒भं॑ च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् (मा०सं० १७.६४)॥
Siddhanta Kaumudi¶
उद्ग्राहः ॥
Tattvabodhini¶
उदि ग्रहः - उदि ग्रहः । भावादौ घञ् स्यात् ।ग्रहवृदृ॑ इति प्राप्तस्याऽपोऽपवादः ।
Padamanjari¶
अपवाद इति ।’ग्रहवृदृनिश्चिगमश्च’ इति प्राप्तस्य । च्छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; ठुद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतिऽ इति वचनात् ।’हृग्रहोर्भश्च्छन्दसि’ इति भत्वम् ॥
Nyaas¶
अपोऽपवादः इति। ग्रहवृदृनिश्चिगमश्च (3.3.58) इति प्राप्तस्य।{छन्दसि विपूर्वादपीष्यतेरुआउगुद्यमननिपातनयोः`इत्येव वार्त्तिकपाठो मुद्रितो दृश्यते।} छन्दसि तु`इत्यादि। यज्ञपात्रविशेषो येनाहुतिर्दीयते तत्रुआउगुच्यते, तस्योद्यमनम् = ऊध्र्वलनयनम्, निपातनम् = धस्तान्नयनम्ेतयोरर्थयोग्र्रहेश्छन्दसि विषये घञिष्यते। स च **कृत्यल्युटो बहुलम्** (3.3.113) इति लभ्यत इति वेदितव्यम्। `निग्राभम् इति। ह्मग्रहोर्भश्छन्दस्युपसंख्यानाद्धकारस्य भकारः॥
Prakriyasarvasvam¶
उद्ग्राहः ॥