33032: प्रे स्त्रोऽयज्ञे¶
Padacheda: प्रे | S | 7 | 1 |
स्त्रः | S | 5 | 1 |
अयज्ञे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ when preceded by the preposition प्र ; provided that the word so formed does not refer to sacrifice.
Vasu English Translation¶
The affix घञ् comes after the verb स्तॄ ‘to cover’ when preceded by the preposition प्र ; provided that the word so formed does not refer to sacrifice. As, शङ्खप्रस्तारः ‘a bed of conch’; मणिप्रस्तारः ‘strewing of gems’.
Kashika¶
स्तृञ् आच्छादने अस्माद् धातोः प्रशब्द उपपदे घञ् प्रत्ययो भवति, न चेद् यज्ञविषयः प्रयोगो भवति। शङ्खप्रस्तारः। अयज्ञ इति किम्? बर्हिष्प्रस्तरः॥
Siddhanta Kaumudi¶
अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥
Padamanjari¶
‘यज्ञे’ इति प्रकृतत्वाद् ठयज्ञेऽ इति पदच्छेदः । शङ्खादिषु प्रस्तारःउविस्तारः । बर्हिष्प्रस्तर इति । प्रस्तरःउमुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, ठृदोरप्ऽ इत्यप्, ठिदुदुपधस्य चऽ इति षत्वम् ॥
Nyaas¶
बर्हिष्प्रस्तरः`इति। `इदुदुपधस्य चाप्रत्ययस्य (8.3.41 ) विसर्जनीयस्य षत्वम्॥
Prakriyasarvasvam¶
प्रपूर्वस्तृ धातोरयज्ञे घञ् । मणिप्रस्तारः । यज्ञे तु दर्भप्रस्तरः ॥
Sutra Prayogas¶
प्रस्तार (भट्टिकाव्यम्): प्रेस्त्रो ऽयज्ञे इति घन् ।