33024: श्रिणीभुवोऽनुपसर्गे¶
Padacheda: श्रि-णी-भुवः | S | 5 | 1 |
अनुपसर्गे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the roots 1. शृ ‘to go to’ 2. नी ‘to lead’ 3. भू ‘to be’ when not in composition with an उपसर्ग ।
Vasu English Translation¶
The affix घञ् comes after the roots 1. शृ ‘to go to’ 2. नी ‘to lead’ 3. भू ‘to be’ when not in composition with an उपसर्ग । This debars the affix अच् (3.3.56). As श्रायः ‘shelter’, नायः ‘a means’, भावः ‘a condition’.
But with upasargas, we have प्रश्रयः ‘respect’, प्रणयः ‘love’; प्रभवः ‘source’.
How do we explain the form प्रभाव in प्रभावो राज्ञः ‘the splendour of the king’? Here the word प्रभाव is not made from the compound root प्रभू + घञ्, but by compounding प्र with भाव by the rules of samasa, meaning ‘excellent condition’.
How do you explain the form नय in नयो राज्ञः ? Here the root नी has taken the affix अच् diversely by (3.3.113).
Kashika¶
श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्ग इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञः? प्रकृष्टो भाव इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? **कृत्यल्युटो बहुलम्**(३.३.११३) इत्यज् भविष्यति॥
Siddhanta Kaumudi¶
श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥
Tattvabodhini¶
श्रिणीभुवोऽनुपसर्गे - राज्ञो नय इति । णीञ् प्रापणे इत्यस्मादचो यत् ।
Nyaas¶
अनुपसर्गेभ्यः`इति। अविद्यमान उपसर्ग एषामिति बहुव्रीहिः `अनुपसर्गेभ्यः इति पञ्चम्यन्तेन विवरणं कुर्वन् सूत्रेऽनुपसर्ग इति सुब्व्यत्ययेन एषा सप्तमीति दर्शयति।कथं प्रभावो राज्ञः इति। अनुपसर्गवचनादिह प्रशब्द उपसर्ग उपपदे न भवितव्यमिति भावः। {कथं च - काशिका} कथं नयो राज्ञः इति। अनुपसर्गाद्घञात्र भवितव्यमिति मन्यते॥
Prakriyasarvasvam¶
श्रायः । नायः । भावः । सोपसर्गे प्रश्रयः । प्रणयः । <karika>भोजस्तु नीभुवोर्वेति प्राह तेन नयो भवः । भुवो व्यनुप्रेषु च वा विभावविभवादयः ॥ १५२ ॥</karika>
Sutra Prayogas¶
नगोच्छ्रायम् (किरातार्जुनीयम्): त्रिणीभुवोऽनुपसर्गे इत्यत्रानुपसर्ग इति निषेधात् घञ्प्रत्ययविचारः।
श्रायं (भट्टिकाव्यम्): श्रिणीभुवोऽनुपसर्गे इति घञ् कर्मणि।