33023: समि युद्रुदुवः¶
Padacheda: समि | S | 7 | 1 |
यु-द्रु-दुवः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after the roots 1. यु ‘to join’ 2. द्रु ‘to run’ 3. दु ‘to burn’ when in composition with the preposition सम्।
Vasu English Translation¶
The affix घञ् comes after the roots 1. यु ‘to join’ 2. द्रु ‘to run’ 3. दु ‘to burn’ when in composition with the preposition सम्। As संयावः, सन्द्रावः, सन्दावः । But प्रयवः where the preposition is not sam.
Kashika¶
सम्युपपदे यु द्रु दु इत्येतेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। संयावः। संद्रावः। संदावः। समीति किम्? प्रयवः॥
Siddhanta Kaumudi¶
संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥
Padamanjari¶
संयावःउपिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ॥
Prakriyasarvasvam¶
संयावः । सन्द्रावः । सन्दावः । ‘दु द्रु गतौ’ इत्यस्य ग्रहात् पीडार्थस्य दोः सन्दवः । एभ्योऽनुपसर्गे वेति भोजः । यवः यावः । द्रवः द्रावः । दवः दावः ।।
Sutra Prayogas¶
सन्द्रावम् (भट्टिकाव्यम्): समि युद्रुदुवः इति घञ्।