33024: श्रिणीभुवोऽनुपसर्गे ========================== **Padacheda:** श्रि-णी-भुवः | S | 5 | 1 | अनुपसर्गे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix घञ् comes after the roots 1. शृ 'to go to' 2. नी 'to lead' 3. भू 'to be' when not in composition with an उपसर्ग । Vasu English Translation ------------------------ The affix घञ् comes after the roots 1. शृ 'to go to' 2. नी 'to lead' 3. भू 'to be' when not in composition with an उपसर्ग । This debars the affix अच् (3.3.56). As श्रायः 'shelter', नायः 'a means', भावः 'a condition'. But with *upasargas*, we have प्रश्रयः 'respect', प्रणयः 'love'; प्रभवः 'source'. How do we explain the form प्रभाव in प्रभावो राज्ञः 'the splendour of the king'? Here the word प्रभाव is not made from the compound root प्रभू + घञ्, but by compounding प्र with भाव by the rules of *samasa*, meaning 'excellent condition'. How do you explain the form नय in नयो राज्ञः ? Here the root नी has taken the affix अच् diversely by (3.3.113). Kashika ------- श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्ग इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञः? प्रकृष्टो भाव इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? **कृत्यल्युटो बहुलम्**(३.३.११३) इत्यज् भविष्यति॥ Siddhanta Kaumudi ----------------- श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥ Tattvabodhini ------------- **श्रिणीभुवोऽनुपसर्गे** - राज्ञो नय इति । णीञ् प्रापणे इत्यस्मादचो यत् । Nyaas ----- `अनुपसर्गेभ्यः`इति। अविद्यमान उपसर्ग एषामिति बहुव्रीहिः `अनुपसर्गेभ्यः` इति पञ्चम्यन्तेन विवरणं कुर्वन् सूत्रेऽनुपसर्ग इति सुब्व्यत्ययेन एषा सप्तमीति दर्शयति।`कथं प्रभावो राज्ञः` इति। अनुपसर्गवचनादिह प्रशब्द उपसर्ग उपपदे न भवितव्यमिति भावः। `{कथं च - काशिका} कथं नयो राज्ञः` इति। अनुपसर्गाद्घञात्र भवितव्यमिति मन्यते॥ Prakriyasarvasvam ----------------- श्रायः । नायः । भावः । सोपसर्गे प्रश्रयः । प्रणयः । भोजस्तु नीभुवोर्वेति प्राह तेन नयो भवः । भुवो व्यनुप्रेषु च वा विभावविभवादयः ॥ १५२ ॥ Sutra Prayogas -------------- * **नगोच्छ्रायम्** (किरातार्जुनीयम्): `त्रिणीभुवोऽनुपसर्गे` इत्यत्रानुपसर्ग इति निषेधात् घञ्प्रत्ययविचारः। * **श्रायं** (भट्टिकाव्यम्): `श्रिणीभुवोऽनुपसर्गे` इति घञ् कर्मणि।