33022: उपसर्गे रुवः

Padacheda: उपसर्गे | S | 7 | 1 |

रुवः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the verb रू ‘to roar’ when it has an उपसर्ग in composition with it.

Vasu English Translation

The affix घञ् comes after the verb रू ‘to roar’ when it has an उपसर्ग in composition with it. This debars अप् (3.3.57). As संरावः ‘clamour’, उपरावः &c.

Why do we say ‘compounded with an upasarga’? Observe रवः ‘sound’.

Kashika

उपसर्ग उपपदे रौतेर्धातोर्घञ् प्रत्ययो भवति। अपोऽपवादः। संरावः। उपरावः। उपसर्ग इति किम्? रवः॥

Siddhanta Kaumudi

घञ् । संरावः । उपसर्गे किम् । रवः ॥

Tattvabodhini

उपसर्गे रुवः - रव इति ।ॠदोर॑बित्यप् ।

Nyaas

अपोऽपवादः इति। ऋदोरप् (3.3.57) इति प्राप्तस्य। उत्तरसूत्रेणाप्युवर्णान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः॥

Prakriyasarvasvam

घञ् स्यात् । संरावः । विरावः । केवलस्य रव इत्यप् ॥ <karika> कृत्यल्युटो बहुलमित्यनेन घञ्वादयः । बहुलं व्यतिकीर्यन्ते मञ्जुरावादयस्ततः ॥ ९५१ ॥ </karika>

Sutra Prayogas

  • संरावं (भट्टिकाव्यम्): उपसर्गे रुवः इति घञ्।