33021: इङश्च

Padacheda: इङः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the root इङ् ‘to study’.

Vasu English Translation

The affix घञ् comes after the root इङ् ‘to study’. This debars अच् (3.3.56). As अधि+ इ + घञ् = अधि + ऐ + अ = अध्याय ‘a lesson or lecture’; उपाध्यायः (उपेत्यास्मादधीते) ‘a teacher’.

Vart:- When the word to be formed is related to the verb इङ् as an ablative, the word is feminine also and optionally takes the affix ङीष्. As उपेत्याधीयतेऽस्या = उपाध्याया or उपाध्यायी ‘a female teacher’.

Vart:- The affix घञ् comes after the root शॄ when the word so formed means ‘wind’, ‘color’, or ‘cessation’. As शारः ‘wind’, ‘green colour’ &c. गौरिवाकृतमीशारः प्रायेण सिशिरे कृशः ।

Bhashya

इङश्च (996) (547 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.16) (4021 वार्तिकम्॥1 ॥) - इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप्- (भाष्यम्) इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं कर्तव्यं तदन्ताच्च वा ङीष् वक्तव्यः। उपेत्याधीयतेऽस्या उपाध्यायी उपाध्याया॥ (4022 वार्तिकम् ॥ 2 ॥) - शृवायुवर्णनिवृतेषु- (भाष्यम्) शृ इत्येतस्माद्वायुवर्णिनिवृतेषु घञ्ञ् वक्तव्यः। शारो वायुः। शारो वर्णः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥ इङश्च॥ 21 ॥

Kashika

इङो धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। अध्यायः। उपेत्यास्मादधीत उपाध्यायः॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्॥ उपाध्याया। उपाध्यायी॥ शृ वायुवर्णनिवृतेषु॥ शारो वायुः। शारो वर्णः। शारो निवृतम्।

गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥

Siddhanta Kaumudi

घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥<!अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् !> (वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥<!शॄ वायुवर्णनिवृतेषु !> (वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥

Tattvabodhini

इङश्च - उपेत्येति । गुरुसमीपमेत्येत्यर्थः । अपादान इति । पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः ।घञनुक्रमणमजपोर्विषये॑ इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम् । उपाध्यायेति । यां स्वयमद्यापयति तस्यामिदं रुपद्वयम् । पुंयोगे तु ङीषेव । आनुगागमश्च पाक्षिक इत्युक्तम् । करणे क्त इति । वृञ् वरण इत्यस्मादित्यर्थः । नीशार इति ।उपसर्गस्य घञी॑ति दीर्घः । ननुप्रदक्षिणप्रसव्यगामिनां शाराणा॑मिति कथं प्रयोगः ,वायुवर्णे॑ इत्यर्थपरिगणनादिति चेत् । अत्राहुः — अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति ।

Padamanjari

उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति ।’घञनुक्रमणमजपोर्विषये’ इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः - उपाध्यायी, उपाध्यायानी ।’शृवायुवर्णनिवृतेध्विति । शृ’ इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः - चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते,’कृत्यल्युटो बहुलम्’ इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः ।’प्रदक्षिणप्रसव्यगामिनां शाराणाम्’ इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥

Nyaas

अचोऽपवादः इति। एरच् (3.3.56) इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। अध्यायः इति। कर्मणि घञ्। तदन्ताच्च वा ङीष् इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम् - वोतो गुणवचनात् (4.1.44) इत्यत्र वेति योगविभाघः कर्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा पुंयोगादाख्यायाम् (4.1.48) इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।शृ वायुवर्णनिवृतेषु इति। शृ हिंसायाम् (धातुपाठः-1488) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, कृत्यल्युटो बहुलम् (3.3.113) इति बहुलग्रहणं वाऽऽश्रित्य कर्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।अकृतनीशारः इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्॥

Prakriyasarvasvam

इङो भावादौ घञ् । अध्ययनमध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः ।<!शृधातोर्वायुवर्णनिवृत्तावरणेषु घञ् वाच्यः!> (वा० ३-३-२१) । शारो वायुर्वर्णभेदश्च । निवृतं द्यूतोपकरणं, तदपि शारः । ‘उपसर्गस्य घञि—’ (६-३-१२२) इति दीर्घे नीशारः प्रावरणम् ॥

Vartika

अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् ।

Sutra Prayogas

  • उपाध्याय (भट्टिकाव्यम्): इङश्च इति घञ्।