33021: इङश्च ============ **Padacheda:** इङः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix घञ् comes after the root इङ् 'to study'. Vasu English Translation ------------------------ The affix घञ् comes after the root इङ् 'to study'. This debars अच् (3.3.56). As अधि+ इ + घञ् = अधि + ऐ + अ = अध्याय 'a lesson or lecture'; उपाध्यायः (उपेत्यास्मादधीते) 'a teacher'. Vart:- When the word to be formed is related to the verb इङ् as an ablative, the word is feminine also and optionally takes the affix ङीष्. As उपेत्याधीयतेऽस्या = उपाध्याया or उपाध्यायी 'a female teacher'. Vart:- The affix घञ् comes after the root शॄ when the word so formed means 'wind', 'color', or 'cessation'. As शारः 'wind', 'green colour' &c. गौरिवाकृतमीशारः प्रायेण सिशिरे कृशः । Bhashya ------- इङश्च (996) (547 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.16) (4021 वार्तिकम्॥1 ॥) - इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीप्- (भाष्यम्) इङश्चेत्यत्रापादाने स्त्रियामुपसंख्यानं कर्तव्यं तदन्ताच्च वा ङीष् वक्तव्यः। उपेत्याधीयतेऽस्या उपाध्यायी उपाध्याया॥ (4022 वार्तिकम् ॥ 2 ॥) - शृवायुवर्णनिवृतेषु- (भाष्यम्) शृ इत्येतस्माद्वायुवर्णिनिवृतेषु घञ्ञ् वक्तव्यः। शारो वायुः। शारो वर्णः। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥ इङश्च॥ 21 ॥ Kashika ------- इङो धातोर्घञ् प्रत्ययो भवति। अचोऽपवादः। अध्यायः। उपेत्यास्मादधीत उपाध्यायः॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्॥ उपाध्याया। उपाध्यायी॥ शृ वायुवर्णनिवृतेषु॥ शारो वायुः। शारो वर्णः। शारो निवृतम्। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः॥ Siddhanta Kaumudi ----------------- घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥ (वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥ (वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥ Tattvabodhini ------------- **इङश्च** - उपेत्येति । गुरुसमीपमेत्येत्यर्थः । अपादान इति । पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः ।घञनुक्रमणमजपोर्विषये॑ इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम् । उपाध्यायेति । यां स्वयमद्यापयति तस्यामिदं रुपद्वयम् । पुंयोगे तु ङीषेव । आनुगागमश्च पाक्षिक इत्युक्तम् । करणे क्त इति । वृञ् वरण इत्यस्मादित्यर्थः । नीशार इति ।उपसर्गस्य घञी॑ति दीर्घः । ननुप्रदक्षिणप्रसव्यगामिनां शाराणा॑मिति कथं प्रयोगः ,वायुवर्णे॑ इत्यर्थपरिगणनादिति चेत् । अत्राहुः — अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति । Padamanjari ----------- उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति ।'घञनुक्रमणमजपोर्विषये' इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः - उपाध्यायी, उपाध्यायानी ।'शृवायुवर्णनिवृतेध्विति । शृ' इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः - चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते,'कृत्यल्युटो बहुलम्' इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः ।'प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥ Nyaas ----- `अचोऽपवादः` इति। `एरच्` (3.3.56) इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। `अध्यायः` इति। कर्मणि घञ्। `तदन्ताच्च वा ङीष्` इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम् - `वोतो गुणवचनात्` (4.1.44) इत्यत्र वेति योगविभाघः कर्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा **पुंयोगादाख्यायाम्** (4.1.48) इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।`शृ वायुवर्णनिवृतेषु` इति। `शृ हिंसायाम्` (धातुपाठः-1488) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, **कृत्यल्युटो बहुलम्** (3.3.113) इति बहुलग्रहणं वाऽऽश्रित्य कर्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।`अकृतनीशारः` इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्॥ Prakriyasarvasvam ----------------- इङो भावादौ घञ् । अध्ययनमध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । (वा० ३-३-२१) । शारो वायुर्वर्णभेदश्च । निवृतं द्यूतोपकरणं, तदपि शारः । 'उपसर्गस्य घञि—' (६-३-१२२) इति दीर्घे नीशारः प्रावरणम् ॥ Vartika ------- अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् । Sutra Prayogas -------------- * **उपाध्याय** (भट्टिकाव्यम्): `इङश्च` इति घञ्।