33019: अकर्तरि च कारके संज्ञायाम्

Padacheda: अकर्तरि | S | 7 | 1 |

च | S | 0 | 0 |

कारके | S | 7 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after a root when the sense is that of an appellative, the word being related to the verb from which its name is deduced, but not as agent.

Vasu English Translation

The affix घञ् comes after a root when the sense is that of an appellative, the word being related to the verb from which its name is deduced, but not as agent. Thus प्रासः (i.e. प्रास्यन्ति तम्) ‘a dart, lit. that which men throw’; प्रसेवः (i.e. प्रसीव्यन्ति तम्) ‘a sack, lit. that which men stitch together’; आहारः (i.e. आहरन्ति अस्माद्रसम्) ‘food, lit. that from which men take out the juice to nourish themselves’. As मधुराहारः, तक्षशिलाहारः ।

Why do we say ‘not related as an agent’? Observe मेषः ‘a sheep, lit. that which looks helplessly’. Here the word मेष is related to the verb मिषति as agent, and the affix is consequently not घञ्.

Why do we say ‘when denoting an appellative’? Observe कर्तव्यः कटः ‘the mat must be made’.

The force of च in the sutra is to indicate that घञ् may be applied irregularly in cases where appellative is not meant: as को भवता दायो दत्तः ‘what gift was given by you’; को भवता लाभो लब्धः ‘what gain was gained by you’.

The word कारक is used in the sutra for this purpose. The word अकर्तरि is a compound word formed by the negative नञ्. The word means a non-agent. Now the word ‘non-agent’ has two-fold significance; either it means any other karaka which is not an agent-karaka; or it may mean any thing in general which is not an agent. That is to say, the former negative, called पर्युदास, points out, by implication, the objects which are different from the thing prohibited; and in fact, makes the rule applicable to those objects, while the second sort of negative called प्रसज्य प्रतिषेध is a simple prohibition of the particular matter specified, without mentioning what is different from it. Giving the former interpretation to the word अकर्तरि, the word कारक becomes redundant, because ‘non-agent’ would mean any karaka other than an agent. But the very fact, that कारक is used, indicates the existence of the following rule which is nowhere expressly taught by Panini :-That नञ् is compounded even with the force of प्रसज्य प्रतिषेध. (6.1.45). अशित्, non-’sit’.

Both the phrases, ‘when denoting mere condition (भाव)’ and ‘a karaka’ ‘which is not an agent’ are understood in the succeeding aphorisms. See (II 2.6) about नञ् Compound.

Bhashya

अकर्तरि च कारके संज्ञायाम् (994) (545 अधिकारसूत्रम् घञ्ञप्रत्ययविधिसूत्रं च॥ 3 । 3 1 आ 14 ॥) (आक्षेपभाष्यम्) कारकग्रहणं किमर्थम्? (4013 वार्तिकम्॥ 1 ॥) - कारकग्रहणमनादेशे स्वार्थविज्ञानात्- (भाष्यम्) कारकग्रहणं क्रियते॥ (किंकारणम्?) अनादेशे स्वार्थविज्ञानात्। अनादेशे अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति - तद्यथा, गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। एवमिमेऽपि प्रत्ययाः स्वार्थे स्युः। स्वार्थे मा भूवन्कारके यथा स्युरित्येवमर्थमिदमुच्यते॥ (नियमार्थत्वप्रयोजनभाष्यम्) नैतदस्ति प्रयोजनम्। विहितः प्रत्ययः स्वार्थे भावे घञ्ञिति॥ (नियमखण्डनभाष्यम्) तेनातिप्रसक्तमिति कृत्वा नियमोयं विज्ञायते - अकर्तरि संज्ञायामेवेति॥ (प्रश्नभाष्यम्) अस्ति चेदानीं कश्चित्संज्ञाभूतो भावो यदर्थो विधिः स्यात्॥ (उत्तरभाष्यम्) अस्तीत्याह। आवाहो विवाह इति॥ (नियमखण्डनभाष्यम्) कैमर्थक्यान्नियमो भवति। विधेयं नास्तीति कृत्वा इह चास्ति विधेयम्॥ किम्? अकर्तरि च कारके संज्ञायां घञ्ञ्विधेयः। तत्रापूर्वो विधिरस्तु नियमोस्त्विति। अपूर्व एव विधिर्भविष्यति न नियमः॥ (समाधानभाष्यम्) तदेव तर्हि प्रयोजनं स्वार्थे मा भूवन्निति॥ (दूषणस्मारणभाष्यम्) ननु चोक्तं विहितः प्रत्ययः स्वार्थे भावे घञ्ञितीति॥ (दूषणोद्धारभाष्यम्) अन्यः स भावो बाह्यः प्रकृत्यर्थात्॥ अनेनेदानीमभ्यन्तरे भावे स्यात्॥ (प्रश्नभाष्यम्) कः पुनरनयोर्भावयोर्विशेषः? (समाधानभाष्यम्) उक्तो भावभेदो भाष्ये॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः। नञ्ञ्युक्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे कार्ये विज्ञायते तथा ह्यर्थो गम्यते। तद्यथा - अब्राह्मणमानय इत्युक्ते ब्राह्मणसदृशं पुरुषमानयति। नासौ लोष्टमानीय कृती भवति। एवमिहापि अकर्तरि इति कर्तृप्रतिषेधादन्यस्मिन्नकर्तरि कर्तृसदृशे कार्ये विज्ञास्यते। किं चान्यदकर्तृ कर्तृसदृशम्? कारकम्॥ (प्रयोजनभाष्यम्) उत्तरार्थे तर्हि कारकग्रहणं कर्तव्यम् - परिमाणाख्यायां सर्वेभ्यः कारके यथा स्यात्। इह मा भूत् - एका तिलोच्छ्रितिः द्वे श्रुती इति। घञ्ञ नुक्रमणमजब्विषये अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञानम् इति वक्ष्यति। तन्न वक्तव्यं भवति॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। अत्राप्यकर्तरीत्येवानुवर्तिष्यते॥ (4014 संज्ञाग्रहणप्रत्याख्यानवार्तिकम्॥ 2 ॥) - संज्ञाग्रहणानर्थक्यं च सर्वत्र घञ्ञो दर्शनात्- (भाष्यम्) संज्ञाग्रहणं चानर्थकम्। किं कारणम्? सर्वत्र घञ्ञो दर्शनात्। असंज्ञायामपि घञ्ञ्दृश्यते - को भवता लाभो लब्धः को भवता दायो दत्तः इति॥ (आक्षेपभाष्यम्) यदि संज्ञाग्रहणं न क्रियते, अतिप्रसङ्गो भवति - कृतः कट इत्यत्र कारः कटः इति प्राप्नोति॥ (4015 वार्तिकम्॥ 3 ॥) - अतिप्रतसङ्ग इति चेदभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम्- (भाष्यम्) अतिप्रसङ्ग इति चेत्। तन्न। किं कारणम्? अभिधानलक्षणत्वात्प्रत्ययस्य सिद्धम्। अभिधानलक्षणाः कृत्तद्धितसमासाः। अनभिधानाद् न भविष्यन्ति॥ अकर्तरि च॥ 19 ॥

Kashika

कर्तृवर्जिते कारके संज्ञायां विषये धातोर्घञ् भवति। प्रास्यन्ति तं प्रासः। प्रसीव्यन्ति तं प्रसेवः। आहरन्ति तस्माद् रसमित्याहारः। मधुराहारः। तक्षशिलाहारः। अकर्तरीति किम्? मिषत्यसौ मेषः। संज्ञायामिति किम्? कर्तव्यःकटः। चकारः संज्ञाव्यभिचारार्थः। को भवता दायो दत्तः। को भवता लाभो लब्धः। कारकग्रहणं पर्युदासे न कर्तव्यम्, तत् क्रियते प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञापनार्थम्, आदेच उपदेशेऽशिति (६.१.४५) इति। इत उत्तरं भावे अकर्तरि च कारक इति च द्वयमनुवर्तते॥

Siddhanta Kaumudi

कर्तृभिन्ने कारके घञ् स्यात् ॥

Laghu Siddhanta Kaumudi

कर्तृभिन्ने कारके घञ् स्यात्॥

Padamanjari

प्रासःउकुन्तः, प्रसेवःउसूच्या प्रसेवनेन निष्पाद्य आवपनविशेषः । मधुराहार इति । कर्मधारयः, षष्ठीसमासो वा । मेष इति । पचादिषु पाठमनपेक्ष्यैतदुदाहृतम्, तथा च ठिगुपधज्ञाप्रीऽ इत्यत्रोक्तम् - देवसेवमेषादयः पचादिषु द्रष्टव्या इति । न हि पाठे सति द्रष्टव्यत्ववचनमुपपद्यते । अथ वा - प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम् - बिभर्त्यसौ भर्तेति । चकार इत्यादि । चकारोऽयं भिन्नक्रमः -‘संज्ञायां च’ इति, तेनासंज्ञायामपि घञ् भवति । यद्येवम्, मा भूत्संज्ञायामिति, मा च भूच्चकारः ठकर्तरि कारकेऽ इत्येवास्तु ? सत्यम्; बाहुल्येन संज्ञायां भवति, क्वचिदेवासंज्ञायामिति सूचयितुं संज्ञाग्रहणं कृतम् । दाय इति । दीयमानं सर्वमुच्यत इति नेयं संज्ञा, एवं लाभ इत्यत्रापि, उभयत्र कर्मणि घञ् । कारकग्रहणमित्यादि । पर्युदासे हि नञिवयुक्तन्यायेन कर्तुरन्यस्मिंस्तत्सदृसे कारक एव प्रतीतिर्भवति, यथा - अब्राह्मण इति क्षत्रियादौ । तस्मात्पर्युदासे कारकग्रहणं न कर्तव्यम् । प्रसज्यप्रतिषेधे तु वाक्यभेदेन संज्ञायां घञ् भवति, कर्तरि तु न भवतीत्येषोऽर्थो भवति । तत्र प्रथमे वाक्येऽर्थनिर्देशाभावाद् ठनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तिऽ इति स्वार्थ एव स्यात् । ननु च विहितः स्वार्थे पूर्वेणैव ? नेत्याह; धात्वर्थस्य हि सिद्धताख्ये धर्मे घञादयो भवन्तीत्युक्तम्, इह तु साध्यरूपे शुद्धे प्रकृत्यर्थेस्यात् । ननु च कर्तरि प्रतिषेधसामर्थ्यादनिर्दिष्टार्थोऽपि घञ् धात्वर्थसम्बन्धिनि कारक एव विज्ञास्यते ? नैतदस्ति; असति हि प्रतिषेधे’कर्तरि कृत्’ इति वचनान्नायमनिर्दिष्टाथः स्याद् । अतः प्रसज्यप्रतिषेधार्थं काकग्रहणम् । पर्युदासे तु न कर्तव्यम् । यद्येवम्, स एवाश्रयिष्यते, किं कारकग्रहणेन ? तत्राह - तत्क्रियत इति । किं पुनः कारणं प्रसज्यप्रतिषेधे प्रत्यत्नलभ्यः समासः ? असामर्थ्यातत्र हि नञः क्रियया सन्बन्धः, कर्त्रि न भवतीति न कर्तृशब्देन । आदेच उपदेशेऽशितीति । अत्र यदि ठशितिऽ इति पर्युदासः स्यात्, तदा शितोऽन्यत्र तृजादौ प्रत्ययो परत आत्वेन भवितव्यम् । ततश्च सुग्लः, सुम्ल इत्यत्र ठातश्चोपसर्गेऽ इति को न स्यात्, प्राक् प्रत्ययोत्पतेरनाकारान्तत्वात्। प्रतिषेधेत्वनैमितिकमात्वम्, शिति तु प्रतिषेध इति सिद्धमिष्टम् ॥

Nyaas

प्रासः`इति। `असु क्षेपणे (धातुपाठः-1209), प्रसेवः इति। षिवृ तन्तुसन्ताने (धातुपाठः-1108), उभयत्राप्यत्र कर्मणि घञ्। आहारः इति। ह्मञ् हरणे (धातुपाठः-899)। मधुराहारः इति। कर्मधारयः, षष्ठीतत्पुरुषो वा।मेषः इति। मिष स्पद्र्धायाम् (धातुपाठः-1352), पचाद्यच्। कर्तव्यः इति। कर्मणि तव्यः।चकारः संज्ञाव्यभिचारार्थः इति। चकारोऽयं भिन्नक्रमः संज्ञायामित्यस्यानन्तरं द्रष्टव्यः, तदनेन चार्थ द्योत्यते। संज्ञायाञ्च`इति चार्थं द्योतयन्नसौ संज्ञाव्यभिचाराय भवति, तेनासंज्ञायामपि च भवति यद्येवम्, संज्ञाग्रहणमकृत्वा सामान्येनैव प्रत्ययो विधेयः; तत्राप्ययमर्थः - संज्ञाव्यभिचारार्थश्चकारो न कर्तव्यो भवति? सत्यमेतत् ; तथापि बाहुल्येन संज्ञायां भवति; असंज्ञायां तु क्वचिदेवेत्यमुमर्थं सूचयितुं संज्ञाग्रहणं कृतम्। दीयत इति `दायः कर्मणि घञ्, पूर्ववद् युक्। लाभः इति कर्मण्येव घञ्। कारकग्रहणम् इत्यादि। पर्युदासे हि अकर्तरि इत्युक्ते कारकग्रहणमन्तेरणापि नञिवयुक्तन्यायेन (व्या।प।65) कर्त्तुरन्यत्र तादृशे कारक एव कर्मादौ प्रतीतिर्भवति, यथा - अब्राआहृण इति ब्राआहृणसदृशे क्षत्रियादौ। तस्मात् पर्युदासे विनापि कारकग्रहणेन कारकएव प्रत्ययो लभ्यतैत कारकग्रहणं न कर्तव्यम्। प्रसज्यप्रतिषेधे तु कर्तव्यम्, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते, न सदृशं वस्त्वन्तरम्। तत्र यदि अकर्तरि संज्ञायाम् इत्येतावदुच्येत, कर्तरि न भवतीत्येषोऽर्थः प्रतीयेत। एवञ्च विधायकस्य वाक्यान्तरस्याभ#आवात् कर्मादिषु प्रत्ययो न स्यात्। क्व तर्हि स्यात्? अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पुं।प।90) इति स्वार्थे। ननु च विहितः स्वार्थे पूर्वेणेव? नैतदस्ति;`धात्वर्थस्य हि सिद्धता नाम यो धर्मस्तत्र घञादयो विधीयन्ते इत्युक्तम्। तस्मात् प्रसज्यप्रतिषेधे कारकग्रहणं क्रियते? इत्यत आह - पर्युदासे कारकग्रहणमन्तरेणापि सिध्यति, स एवाश्रयिष्यते, तत्किमर्थमं कारकग्रहणं क्रियते? इत्यत आह - तत्क्रियते इत्यादि। यदि तर्हि पर्युदास एवैष नञ्समासः स्यात्, कारकग्रहणमनर्थकं स्यात्, विनापि हि तेन कारक एव प्रत्ययो लभ्यते; प्रसज्यप्रतिषेधे तु सति कारकग्रहणमर्थवद्भवति, न हि तत्र विनापि तेन कारके प्रत्ययो लभ्यते। इवञ्चानन्तरमेव प्रतिपादनम्। तस्मात् कारकग्रहणेन प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञाप्यते। तेन आदेच उपदेशेऽशिति (6.1.45) इत्यत्र प्रसज्यप्रतिषेधे समासो लभ्यते, ततश्च यदुक्तम् - अनैमित्तिकमात्त्वं शिति प्रतिषेधः इति, तदुपपन्नं भवति। किं पुनः कारणं तत्र प्रसज्यप्रतिषेध आश्रीयते? प्रागेव प्रत्ययोत्पत्तेरनिमित्तक आत्त्वे कृते सुग्लः सुम्ल इति आतश्चोपसर्गे (3.3.106) इति को यथा स्यात्। पर्युदासे तु तत्राश्रीयमाणे शितोऽन्यत्र तृजादौ प्रत्यये परभूत आत्त्वेन भवितव्यम्, ततश्च ग्लायतिप्रभृतिभ्य आकारान्तलक्षमः प्रत्ययो न स्यात्। ननु चाचार्यप्रवृत्तिज्र्ञापयति - भवन्त्येजन्तेभ्य आकारान्तलक्षणः प्रत्यय इति, यदयं कबाधनार्थं ह्वावामश्च (3.2.2) इत्यणं शास्ति, तस्मादशितीति पर्युदासेऽप्याश्रीयमाणे ज्ञापकादेजन्तस्याकारान्तलक्षणः प्रत्ययः सिध्यत्येव? नैतदस्ति; कर्मोपपदविषयमेवैतज्ज्ञापकं विज्ञायते। तस्मादशितीत्यत्र प्रसज्यप्रतिषेध एवाश्रयितुं युक्तः। तस्य चास्तित्वमिह कारकग्रहणेन ज्ञाप्यते। किं पुनः कारणं प्रसज्यप्रतिषेधो न सिध्यति, यतस्तदस्तित्वज्ञापनं प्रतिपन्नं क्रियते? असामर्थ्यं कारणम्; सामर्थ्ये हि सति समासेन भवितव्यम्,न च तत् प्रसज्यप्रतिषेधे। तथा हि ततर्नञ् क्रियया सम्बद्धः, नोत्तरपदेन॥

Prakriyasarvasvam

संज्ञायां तु कर्तृवर्जिते कारकेऽपि घञ् स्यात् । प्रास्यत इति प्रासः । भारः । आरमन्त्यस्मिन्नित्यारामः । आक्रीडः । चकारादसंज्ञायामपि । हरेर्निवासो व्रजम् । ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकात् क्वचित् कर्त्तर्यपि । ‘कक लोल्ये । काकः ।<!दारजारौ कर्तरि णिलुक् च!> (वा० ३-३-२०) । दारयन्त्यु- द्वेजयन्तीति दाराः । जरयति सुरतैर्ग््लपयतीति जारः । अत्र णिचा वृद्धौ मित्त्वात् ह्रस्वः स्यात् । तेन णिलुकि कृते लुका लुप्तं न स्थानिवदित्युक्त्या स्थानिवत्त्व- कृतणिज्व्यवधानाभावाद् धातोर्घञ् कृतैव वृद्धिः ॥

Sutra Prayogas

  • सूर्यप्रभवो (रघुवंशम्): अकर्तरि च कारके संज्ञायाम् इति साधुः।

  • संविधाम् (रघुवंशम्): अकर्तरि च कारके संज्ञायाम् इति कर्माद्यर्थत्वम्।

  • सासो (किरातार्जुनीयम्): अकर्तरि च कारके संज्ञायाम् इति घञ् प्रत्ययः।

  • महेष्वासा (किरातार्जुनीयम्): अकर्तरि च कारके संज्ञायाम् इति करणे घञ्।

  • दानोद्भेदान् (शिशुपालवधम्): अकर्तरि च कारके संज्ञायाम् इत्यधिकरणार्थे घञ् प्रत्ययः।

  • आकृतिः (भट्टिकाव्यम्): अकर्तरि च कारके इति स्त्रियां क्तिन्।

  • श्रुताऽन्वितो (भट्टिकाव्यम्): तस्मात् अकर्तरि च इत्यादिना वञ् ।

  • वेषो (भट्टिकाव्यम्): अकर्तरि च कारके इति घञ् ।

  • कार्यम् (भट्टिकाव्यम्): अकर्तरि च कारके संज्ञायाम् इति घञ्।

  • उदय (भट्टिकाव्यम्): अकर्तरि च कारके इति अच्-प्रत्ययः।