33020: परिमाणाख्यायां सर्वेभ्यः¶
Padacheda: परिमाणाख्यायाम् | S | 7 | 1 |
सर्वेभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after all roots when the word so formed is the name of a measure.
Vasu English Translation¶
The affix घञ् comes after all roots when the word so formed is the name of a measure. Thus, नि + चि + घञ् = निचै + अ (7.2.115) = निचाय (6.1.78) ‘a heap’; as एकस्तण्डुलनिचायः; द्वौ शूर्पनिष्पवौ । कॄ ‘to scatter’ + घञ् = कारः । द्वौ कारौ; त्रयः काराः ।
By using the word ‘all’ in the sutra, it is indicated that the affix अप् (3.3.57) is also superseded when this sense is to be indicated. Otherwise the affix अच् would only be prohibited by the Paribhasha:-”Apavadas that precede the rules which teach operations that have to be superseded by the apavada-operations, supersede only those rules that stand nearest to them, not the subsequent rules”. Thus अच् being taught in (3.3.56) would be superseded, but not so अप् taught in the subsequent aphorism (3.3.57).
Why do we say ‘when they are the names of measures’? Observe निश्चयः ‘ascertaining’.
The word आख्यः has been used in the aphorism in order to indicate that the words so formed are not Primitive words (रूढि). The numerals are also there included, and not only measures like Prastha, Pala &c.
We have said above, that the force of the word सर्वेभ्यः in this sutra is to indicate that the affix घञ् must be used after all verbs (not excluding even such verbs as require अच् or अप् by sutras 56 and 57), when we want to express measure. This must be taken however, with certain limitations. The word सर्वेभ्यः is not after all so wide as at first sight it may appear. If we wish to form a word indicating measure, in the feminine gender, we cannot use घञ्; we must use the affix क्तिन् (3.3.94). In other words, the feminine affixes are not superseded by घञ् when it supersedes अच् and अप्. Thus in forming a feminine noun denoting measure, we have एकातिलोच्छित्तिः, द्वे प्रसूती &c.
Vart:- The affix घञ् comes after the causative verbs दारि and जारि, and there is luk elision of the causative affix णिच्; when the word so formed is related to the verb as agent. Thus दारयन्ति भ्रातॄन् = दाराः ‘a wife’ (lit ‘who divides brothers’ a wife breaking up the brotherly love); जारयन्ति = जाराः ‘a paramour’.
Bhashya¶
परिमाणाख्यायां सर्वेभ्यः (995) (546 घञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.15) (आक्षेपभाष्यम्) सर्वग्रहणं किमर्थम्। (आक्षेपनिरासभाष्यम्) सर्वेभ्यो धातुभ्यो घञ्ञ् यथा स्यात्। अजपोरपि विषये - एकस्तण्डुलनिचायः। द्वौ शूर्पनिष्पावौ॥ (3016 वार्तिकम्॥ 1 ॥) - सर्वग्रहणमनर्थकं परिमाणाख्यायामिति सिद्धत्वात्- (भाष्यम्) सर्वग्रहणमनर्थकम्। किं कारणम्? परिमाणाख्यायामिति सिद्धत्वात्। परिमाणाख्यायामित्येव घञ्ञ् सिद्धः अजपोरपि विषये, नार्थः सर्वग्रहणेन॥ (आनर्थक्यनिराकरणभाष्यम्) अस्त्यन्यदेतस्य वचने प्रयोजनम्। किम्? एकः पाको द्वौ पाकौ त्रयः पाका इति। (आनर्थक्यसाधकभाष्यम्) न पूर्वोणाप्येतत् सिद्धम्। (आनर्थक्यपरिहारभाष्यम्) न सिध्यति॥ संज्ञायाम् इति पूर्वो योगः। न चैषा संज्ञा॥ (आनर्थक्यसाधकभाष्यम्) प्रत्याख्यायते संज्ञाग्रहणम्। अथापि क्रियते। एवमपि न दोषः। अजपावपि संज्ञायामेव। यथाजादीयक उत्सर्गः तथाजातीयकेनापवादेनापि भवितव्यम्। (आनर्थक्यपरिहारभाष्यम्) उत्तरार्थे तर्हि - इङश्च। सर्वेभ्योपि यथा स्यात्॥ (आनर्थक्यभाष्यम्) ननु चायमिङ् एक एव वण्ठरण्डाकल्पः। वण्ठो मृतभार्यः। (आनर्थक्यपरिहारभाष्यम्) सर्वेषु साधनेषु यथा स्यात्। उपेत्याधीयते तस्मादित्युपाध्यायः। अस्मिन्नधीयते इत्यध्यायः। अध्यायन्यायोद्यावसंहाराधारावायाश्च इत्येतन्निपातनं न कर्तव्यं भवति॥ (आनर्थक्यसाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। क्रियते न्यास एव॥ (आनर्थक्यबाधकभाष्यम्) उत्तरार्थमेव तर्हि वक्तव्यम् - कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यो यथा स्यात्॥ (आनर्थक्यसाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम् । पृथक्तुग्रहणं बाधक बाधनार्थम् । व्यावचोरी व्यावर्चच्यर्थम् । तत्र व्यतीक्षादिषु दोषः । सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं चेति॥ उत्तरार्थमेव तर्हि -अभिविधौ भाव इनुण सर्वेभ्यो यथा स्यात् । सांराविणम्। (आनर्थक्यबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् -अभिविधौ भावग्रहणं नपुसंके क्तादिनिवृत्त्यर्थम् । पृथक् तु ग्रहणं बाधकबाधनार्थं न तु ल्युट् इति । (आनर्थक्यबाधकभाष्यम्) इदं तर्हि प्रयोजनम् - प्रकृत्याश्रयो योऽपवादस्तस्य बाधनं यथा स्याद् अर्थाश्रयो योऽपवादस्तस्य बाधनं मा भूदिति। एका तिलोच्छ्रितिः। द्वे श्रुती इति॥ घञ्ञनुक्रमणमजब्विषये। अवचने हि स्त्री प्रत्ययानामप्यपवादविज्ञानम् इति चोदयिष्यति। तन्न वक्तव्यं भवति। (4017 वार्तिकम्॥ 2 ॥) - घञ्ञनुक्रमणमजव्विषये- (भाष्यम्) घञ्ञनुक्रमणमजब्विषय इति वक्तव्यम्। (4018 वार्तिकम्॥ 3 ॥) - अवचने हि स्त्रीप्रत्ययानामप्यपवादविज्ञानम्- (भाष्यम्) अनुच्यमाने ह्येतस्मिन् स्त्रीप्रत्ययानामप्यपवादोऽयं विज्ञायेत - -एका तिलोच्छ्रितिः द्वे श्रुती इति। (4019 वार्तिकम्॥ 4 ॥) - दारजारौ कर्तरि णिलुक् च- (भाष्यम्) दारजारौ कर्तरि वक्तव्यौ। णिलुक् च वक्तव्यः। दारयन्तीति दाराः। जरयन्तीति जाराः॥ (4020 वार्तिकम्॥ 5 ॥) - करणे वा- (भाष्यम्) करणे वा वक्तव्यौ। दीर्यन्ते तैर्दाराः। जीर्यन्ति तैर्जाराः॥ परिमाणा॥ 20 ॥
Kashika¶
परिमाणाख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यो घञ् प्रत्ययो भवति। एकस्तण्डुल — निश्चायः। द्वौ शूर्पनिष्पावौ। कृ विक्षेपे — द्वौ कारौ। त्रयः काराः। सर्वग्रहणमपोऽपि बाधनार्थम्। पुरस्तादपवादन्यायेन ह्यचमेव बाधेत नापम्। परिमाणाख्यायामिति किम्? निश्चयः। आख्याग्रहणं रूढिनिरासार्थम्। तेन संख्यापि गृह्यते, न प्रस्थाद्येव। घञनुक्रमणमजपोर्विषये, स्त्रीप्रत्ययास्तु न बाध्यन्ते। एका तिलोच्छ्रितिः। द्वे प्रसृती॥ दारजारौ कर्तरि णिलुक् च॥ दारयन्तीति दाराः। जरयन्तीति जाराः॥
Siddhanta Kaumudi¶
घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ ।<!दारजारौ कर्तरि णिलुक्च !> (वार्तिकम्) ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥
Tattvabodhini¶
परिमाणाख्यायां सर्वेभ्यः - परिमाणाख्यायाम् । सर्वेभ्यः — घातुभ्यः । परिमाणं — परिच्छित्तिः । आख्यानमाख्या उक्तिः । परिच्छित्तेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छित्तिरिति चेत्प्रत्ययार्थस्येत्युच्यते । आख्याग्रहणं रूढिनिरासार्थं, तेन परिमाणग्रहणेन सङ्ख्याऽत्र गृह्रते । सर्वेभ्यः किम् । अन्यथा पुरस्तादपवादन्यायेनाऽचमेव घञ् बाधेत, न त्वपम् । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायः । अत्र राश्येकत्वेन समुदायिनां परिच्चित्तिरर्थाद्गम्यते ।एर॑जित्यचि प्राप्ते घञ् । निष्पूयते शोध्यते तुषाद्यपनयनेन यस्तण्डुलादिः स निष्पावः ।ऋदारो॑बित्यपि प्राप्ते घञ् । शूर्पेणेति करणे तृतीयान्तस्यकर्तृकरणे कृता बहुल॑मिति समासः । अत्र शूर्पसङ्खया तण्डुलादेरपि परिच्छित्तिः । शूर्पद्वित्वं तु आर्थिकं , न तु शाब्दं , निष्पावगतद्वित्वं तु शाब्दम् । यद्यप्यत्रनिरभ्योः पूल्वो॑रिति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः । अप्रत्ययस्य मुख्योदाहरणमाह — द्वौ काराविति । कृ विक्षेपे । कर्मणि घञ् । शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः । इह प्रकृत्याश्रय एवापवादो नत्वर्थाश्रयः, सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात् । तेना ।यं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति । एका तिलोच्छ्रितिः । उत्पूर्वकाच्छ्रयतेः कर्मणि भवे वा क्तिन् । ऊर्ध्वीकृतो राशीकृत इत्यर्थः । तदेतत्सूचयितुमुक्तम्अजपोरपवाद इति । तयोरपि प्रकृत्याश्रयत्वात्, अपवाद्यापवादयोः समानविषयत्वौचित्यात् । स्त्रियां क्तिन् त्वर्थाश्रय इति दिक् । दारजाराविति । अकर्तरि कारके इत्यधिकारात्ऋदोर॑बित्यस्य घञपवादत्वाच्च कर्तरि घञर्थमिदं वचनम् । णिलुक्चेति । चाद्घञ् । लोपे हि सति घञाश्रया वृद्धिर्न स्याण्णिलोपस्य स्थानिवद्भावेन व्यवधानात् । न च णिज्निमित्तैव वृद्धिरस्त्विति वाच्यं, जारशब्देमितां ह्रस्वःर॑ इति ह्रस्वापत्तेः ।जनीजृ॑षिति जृधातोर्णौ मित्त्वात् । लुकि तु सति तस्य परनिमित्तत्वाऽभावेन ,क्विलुगुपधे॑ति क्वौ लुप्तस्य निषेधेन वा स्थानिवत्त्वाऽभावाज्जार इति रूपं सिध्यतीति भावः । एतेन दीर्यते यैस्ते दाराः, जीर्यतेऽनेनेति जार इत्यण्यन्ताभ्यामेव करणे घञस्तु किमनेन वचनेनेति केषांचिदुक्तिः परास्ता ।ॠदोर॑बित्यपवादविषये उत्सर्गस्य घञो दुर्लभत्वात् । स्त्र्यधिकारादूध्र्वं वाऽसरूपविधेरनङ्गीकारादपवादोऽप्यच्करणाधिकरणयो॑रिति ल्युटा बाधादिह दुर्लभ इत्यन्यदेतत् ।
Padamanjari¶
परिमाणाख्यायामिति । भावसाधनः परिमाणशब्दः, आख्यानमाख्या उ उक्तिः, परिच्छितेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छितिः ? प्रत्ययार्थस्य भावस्य कर्तृवजितस्य कारकस्य च । परिमाणाख्यायां गम्यमानायामिति वृतेरप्ययमेवार्थः । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायःउराशिः, तण्डुलानां निचाय इति षष्ठीसमासः । अत्र राश्येकत्वेन परिच्छितिर्गम्यते । अत्रैरचि प्राप्ते घञ् । प्रायेण तु निश्चाय इति पाठः, तत्राप्यर्थः स एव,’ग्रहवृदृनिश्चिगमश्च’ इत्यपि प्राप्ते घञ् शूर्पनष्पावाविति । निष्पूयते शोद्ध्यते तुषाद्यपनयनेन यस्तण्डुलादिः । शूर्पेण निष्पावः शूर्पनिष्पाव इति’कर्तृकरणे कृता बहुलम्’ इति समासः । अत्र शूर्पसङ्ख्यया परिच्छितिः । यद्यप्यत्र’निरभ्योः पूल्वोः’ इति घञ् सिध्यति, तथापि सर्वापवादार्थसर्वग्रहणोपादानादनेनैव घञ् भवितुमर्हतीत्यस्योपन्यासः । काराविति ।’क विक्षेपे’ कर्मणि घञ्, विक्षिप्तो धान्यादिःउ कारः, अत्रापि सङ्ख्यया परिच्छितिः । ननु च धातोरिति सामान्याधिकारादन्तरेणापि सर्वग्रहणं धातुमात्राद् घञ् भविष्यति, नार्थः सर्वग्रहणेन ? तत्राह - सर्वग्रहणमिति । किं पुनः कअरणमपो बाधनं यत्नसाध्यमित्यत आह - पुरस्तादिति निश्चय इति । अत्र न केनचिदियता गम्यते । ननु च परिमाणशब्दस्य प्रस्थादिषु रूढत्वात्प्रस्थस्तण्डुलनिश्चाय इत्यादावेव युक्तं भवितुम्, न तु द्वौ शूर्पनिष्पावावित्यत्र ? इत्यत आह - आख्याग्रहणं रूढिनिरासार्थमिति । प्रस्थादिषु जिघृक्षितेषु परिमाण इत्येव वक्तव्यं किमाख्याग्रहणेन ? आख्याग्रहणातु मात्रचो लोपो विज्ञायते परिमाणमात्रस्याख्यायामुक्तौ सत्यामिति । तेन परिमाणशब्दः क्रियाशब्द उपजायते - परिमितिःउपरिमाणम् परिच्छितिरिति, सङ्ख्ययापि परिच्छितिर्भवति । एवञ्चोन्मानादावपि यथाभिधानं घञ् भवति । यदि तर्हि सर्वग्रहणात्परमप्ययं घञमं बाधते, स्त्रीप्रत्ययानपि बाधेत, तत्राह - घञनुक्रमणमजपोर्विषय इति । एतच्च’सर्वेभ्यः’ इति पञ्चमीनिर्देशाल्लभ्यते । पञ्चम्यन्तो हि सर्वशब्दो धातुशब्देन समानाधिकरणो भवति, तेन प्रकृत्याश्रय एवापवादो बाध्यते, नार्थाश्रयः । तिलोच्छितिरिति । कर्मणि भावे वा क्तिन् । ऊर्ध्वीकृतो राशिः । णिलुक्चेति । णिलोपे सति तस्य स्थानिवद्भावाद् घञाश्रया वृद्धिर्न स्यादिति लुग्विधीयते, तस्य परनिमितकत्वात्क्विलुगुपधात्वेति प्रतिषेधाद्वा स्थानिवत्वाभावाज्जारशब्दः सिध्यति । जरयन्तीति ।’जनीजृष्क्नसुरञ्जो’ मन्ताश्चऽ इति मित्वाद् ह्रस्वत्वम् । जारःउ प्रच्छन्नपतिः ॥
Nyaas¶
एकस्तण्डुलनिश्चायः`इति। **ग्रहवृदृनिश्चिगमश्च** (3.3.58) इत्यपि प्राप्ते धञ्। `द्वौ शूर्पनिष्पावौ इति। अत्रापि ऋदोरप् (3.3.57) इत्यपि प्राप्ते। इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति विसर्जनीयस् षत्वम्। द्वौ कारौ`इति। `कृ विक्षेपे (धातुपाठः-1409)। ननु च द्वौ शूर्पनिष्पावावित्यत्र निरभ्योः पूल्वोः (3.3.28) इत्यनेन घञ् सिद्धः, तत्किमर्थमिदमिहोक्तम्? एवं मन्यते - अन्यार्ते सर्वग्रहणे क्रियमाणे परिमाणाख्यायां वाऽन्यत्रैव सिद्धम्, निष्पूर्वादपि ह्रप्प्रत्ययो युक्तः, निरभ्योः पूल्वोः (3.3.28) इत्यस्य तु यत्र परिमाणाख्या न गम्यते सोऽवकाश इति। कः पुनस्तेन वानेन वा घञि सति विशेषः? को न्यायो वाख्ययते? न कश्चित्। ननु च धातोरिति सामान्यमधिकृतम्, न धातुविशेष इति। अन्तरेणापि सर्वग्रहणं धातुमात्राद्धञ् भविष्यति तत्किमर्थं सर्वग्रहणमित्याह - सर्वग्रहणम् इत्यादि। किं पुनः कारणमसति सर्वग्रहणेऽपो बाधा न सिध्यतीत्याह - पुरस्तात् इत्यादि। पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् (व्या।प।9) इति। सति सर्वग्रहणे घञमनन्तरमचमेव बाधेत, नापम्। सर्वग्रहणे तु सत्यपमपि बाधते। तस्मादपोऽपि बाधा यथा स्यादिति सर्वग्रहणम्।न च परिमाणशब्दोऽयं प्रस्थादिषु रूढो न संख्यायाम्, तत्कथं परिमाणाख्यायं प्रत्ययो विधायमान एकस्तण्डुलनिश्चाय इत्यादौ गम्यमानायां भवतीत्यत आह - आख्याग्रहणम् इत्यादि। आख्याग्रहणमिह रूढेर्निरासस्त्यागो यथा स्यादित्येवमर्थं कृतम्। तेन रूढौ त्यक्तायां संख्यापि गृह्रते। आख्याग्रहणसामर्थ्याद्धि परिमाणम्, अतो युक्तं तस्यापि ग्रहणम्। यदि सर्वग्रहणात् परमप्ययं घञ् बाधते, स्थीप्रत्ययानपि बाधेतेत्यत इत्यभिप्रायः। अत एवाह -स्त्रीप्रत्ययास्तु न बाध्यन्ते इति। कृतः पुनरयमर्थो लभ्यते? सर्वेभ्यः`इति पञ्चम्यन्तेन निद्र्दशात्। पञ्चम्यन्तनिर्द्देशे हि सर्वशब्दो धातुसमानाधिकरणो विज्ञायते। तेन प्रकृत्याश्रयस्यापवादस्य सर्वग्रहणाद्बाधा भवति, नार्थाश्रयस्य। यदि त्वर्थाश्रयोऽप्यपवादो बाधितुमिष्टः स्यात्, तदा सर्वस्मिन्निति सर्वशब्दं सप्तम्यन्तमुच्चारयेत्। `एका तिलोच्छ्रितिः`इति। श्रिञ उत्पूर्वात् **स्त्रियां क्तिन्** (3.3.94) , **स्तोः श्चुना श्चुः** (8.4.40) इति चुत्वम्, **शश्छोऽटि** (8.4.63) इति च्छत्वम्। `दारजारौ इत्यादि। दारजारशब्दौ निपात्येते। किमत्र निपात्यते? दृ विदारणे (धातुपाठः-1493) जृष् वयोहानौ (धातुपाठः-1130) आभ्यां हेतुमण्ण्यन्ताभ्यां कर्तरि तृजादिषु घञि णिलुक्। ननु च णेरनिटि (6.4.51) इति णिलोपे हि सति जनीजृष्क्नसुरञ्जोऽमन्ताश्च (धातुपाठः-817) इति मित्संज्ञायां सत्यां णिलोपे कृतेऽपि प्रत्ययलक्षणेन जीर्यतेर्मितां ह्रस्वत्वं प्रसज्यते। अस्तु तर्हि मितां ह्रस्वत्वम्, पुनर्घञाश्रया वृद्धिर्भविष्यतीति चेत्? अयुक्तमेतत्; न हि घञाश्रया वृद्धिः प्राप्नोति, अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावे सति णिचा व्यवहितत्वात्। लुकि तु सति तस्यापरनिमित्तत्वादसति स्थानिवद्भावे घञमाश्रित्य वृद्धिर्भवति। न च प्रत्ययलक्षणेन ह्रस्वत्वं प्रसज्यते; `न लुमताङ्गस्य (1.1.62) इति प्रत्ययलक्षणप्रतिषेधात्। तस्माल्लुग्वक्तव्यः॥
Prakriyasarvasvam¶
संख्यायाः प्रस्थादेर्वा परिमाणनाम्नो योगे बाधकस्थलेऽपि घञेव । <karika> व्रीहेस्त्रयोऽत्र चायास्तिलस्य खारीमितः प्रचयोऽयम् । इति संख्यामानाभ्यां प्रमितत्वेऽन्यत्र पश्य धान्यचयम् ॥ ९५० ॥ </karika>
Vartika¶
दारजारौ कर्तरि णिलुक् च ।
Sutra Prayogas¶
निश्चायम् (भट्टिकाव्यम्): परिमाणाख्यायां सर्वेभ्यः इति घञ्।