33018: भावे¶
Padacheda: भावे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् comes after a root when mere action is denoted.
Vasu English Translation¶
The affix घञ् comes after a root when mere action is denoted. Thus, पच् + घञ् = पाकः ‘cooking’ (7.2.116) and (7.3.52); त्यागः ‘abandoning’; रागः ‘colouring’ (6.4.27). An action expresses a general state; so that all roots denote ‘action’ when their meaning is to be expressed. And as the meaning of the root can be expressed by the root itself, therefore, the affixes घञ् &c. come after all verbal roots, when the sense of the root is denoted as having attained to the completed state. It is not necessary that the words so formed should be always of the masculine gender, singular number. They may take any other gender or number. As पक्तिः, पचनम्, पाकौ, पाकाः । These affixes form, in short, verbal nouns, or abstract nouns being names of action.
Bhashya¶
भावे (993) (545 आक्षेपवार्तिकम् ॥ 1 ॥) - भावे सर्वलिङ्गो निर्देशः कर्तव्यः भूतौ, भवने, भावे, इति । किं प्रयोजनम्? सर्व लिङ्गे भावे एते प्रत्यया यथा स्युरिति ॥ किं पुनः कारणं न सिध्यति ? पुल्लिङ्गेनायं निर्देशः क्रियते, एकवचनान्तेन च । तेन पुल्लिङ्गे एव भावे एकवचने चैते प्रत्ययाः स्युः। स्त्रीनपुंसकयोर्द्विवचनबहुवचनयोश्च न स्युः ॥ नात्र निर्देशस्तन्त्रम् ॥ (आक्षेपसाधकभाष्यम् ) कथं पुनस्तेनैव च नाम निर्देशः क्रियते । तच्चातन्त्रं स्यात् । तत्कारी च भवांस्तद् द्वेषी च ॥ (आक्षेपबाधकभाष्यम् ) नान्तरीयकत्वादत्र पुल्लिङ्गेन निर्देशः क्रियते, एकवचनेन च । अवश्यं कया चिद्विभक्त्या केन चिल्लिङ्गेन निर्देशः कर्तव्यः । तद्यथा कश्चिदन्नार्थी शालिकलापं सतुषं सपलालमाहरति, नान्तरीयकत्वात् । स यावदादेयं तावदादाय तुषपलालान्युत्सृज्यति । तथा कश्चिन्मांसार्थी मत्स्यान्सशकलान्सकण्टकानाहरति, नान्तरीयकत्वात् । स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति । एवमिहापि नान्तरीयकत्वात्पुल्लिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । न ह्यत्र निर्देशस्तन्त्रम् । कया चिद्विभक्तया केनचिच्च लिङ्गेन निर्देशः कर्तव्यः ॥ (आक्षेपबाधकयुक्त्यन्तरभाष्यम्) अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः, क्रियाविशेषवाचिनः पचादयः । यच्चात्र पचतेर्भवतिभैवति, न तद् भवतेः पचतिर्भवति । यच्च भवतेः पचतिर्भवति, न तत् पचतेर्भवतिर्भवति ॥ किंच पचतेर्भवतिर्भवति ? सामान्यम् ॥ किं च भवतेः पचतिर्भवति ? विशेषः ॥ तद्यथा - उपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाह - ठ उपाध्यायं भवानभिवादयताम् इति । स गत्वा मातुलमभिवादयते । तथा - मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाह - ठमातुलं भवानभिवादयताम् इति । स गत्वा उपाध्यायमभिवादयते ॥ एवमिहापि पचतेर्भवतौ यत्तन्निर्दिश्यते ॥ भावे ॥ 18 ॥
Kashika¶
भावे वाच्ये धातोर्घञ् प्रत्ययो भवति। पाकः। त्यागः। रागः। क्रियासामान्यवाची भवतिः। तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति। धात्वर्थश्च धातुनैवोच्यते। यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्यया विधीयन्ते। पुँल्लिङ्गमेकवचनं चात्र न तन्त्रम्, लिङ्गान्तरे वचनान्तरेऽपि चात्र प्रत्यया भवन्त्येव। पक्तिः। पचनम्। पक्वम्। पाकौ। पाका इति॥
Siddhanta Kaumudi¶
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥
Laghu Siddhanta Kaumudi¶
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥
Padamanjari¶
नित्यानामेव शब्दानां साङ्कर्यस्य निवृतये । अन्वाख्यानाद्भावशब्दे घञि नान्योऽन्यसंश्रयः ॥ राग इति । रन्जेश्चऽ’घञि च भावकरणयोः’ इति नलोपः । कथं पुनः पाकादिरुदाहरणं भवति, यावता भवतिनार्थनिर्देशः क्रियमाणोऽस्तिभवतिविद्यतिविषय एव कृतो भवति, न पचादिविषयः ? तत्राह - क्रियासामान्यवाची भवतिरिति । सताख्यं सामान्यमपि भवतिना साध्यत्वेनाभिधीयत इति क्रियासामान्यवाची भवतिर्भवति । तेनार्थनिर्द्देशः क्रियमाण इति । हेतौ शानच्, यस्मात्सामान्यवाचिनार्थनिर्देशः क्रियते, न विशेषवाचिना पचादिना; तस्मात्सर्वधातुविषयः कृतो भवति सामान्यस्य, सर्वेष्वे विशेषेषु भावात्, षण्डादिषु गोत्ववत् विशेषरूपाश्रयनिषेधस्याभावाच्च । इह भावो धात्वर्थः, स च पूर्वापरीभूतोऽपरिनिष्पन्नः, तस्य घञ्वाच्यस्य कथं लिङ्गसङ्ख्यायोग इत्याह - धात्वर्थश्चेति । यथा पचति पाचक इत्यादौ प्रकृतिभागेन क्रियोच्यते, प्रत्ययभागेन तु तदीयं साधनम्; तथा पाकादिषु प्रकृतिभागः साध्यरूपमर्थमाह, प्रत्ययभागस्तु तस्यैव सिद्धरूपतां द्रव्यधर्मैर्लिङ्गसङ्ख्याकारकशक्तिभिः सम्बन्धयोग्यमाकारमाहेत्यथः । उक्तं च - आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ इति ॥ बहुवक्तव्योऽयमर्थः । इह’भावे’ इति पुंल्लिङ्गेनायं निर्देशः क्रियते, एकवचनेन च तत्र पुंल्लिङ्ग एव, भावे एकवचन एव च प्रत्ययाः स्युर्न लिङ्गान्तरे, न च सङ्घ्यान्तरे; ततश्च’स्त्रियां क्तिन्’ इत्यत्र स्त्रियां भाव इति सामानाधिकरण्येन सम्बन्धासम्भवात् - स्त्रियामकर्तरि कारके क्तिन् प्रत्ययः स्यात्, भावे तु पुंसीव’नपुंसके भावे क्तः’ इत्यत्र ठकर्तरि च कारकेऽ इत्यस्य निवृतत्वान्नपुंसके कर्तरि क्तः स्याद्भावे तु पुंसि, द्वित्वबहुत्वयोश्च पाकौ पाका इत्यादौ प्रत्यया न स्युरित्यत आह - पुंल्लिङ्गमेकवचनं चातन्त्रमिति ॥ न विना लिङ्गसङ्ख्याभ्यां सत्वभूतोऽर्थ उच्यते । इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥ धान्याथिनामुपादानं पलालादेर्यथा मतम् । शब्दसंस्कारमात्रं तु तन्निर्देशप्रयोजनम् ॥
Nyaas¶
रागः इति। रञ्जेश्च (6.4.26) घञि च भावकरणयोः (6.4.27) इत्यनुनासिकलोपः। ननु च भावे इति भवतिनायं घञन्तेन निर्देशः क्रियत इति भवतिविषय एव प्रत्ययार्थनिर्द्देशः कृतो भवति, ततश्च भवतेर्यो भावस्तस्मिन्नेव वाच्ये प्रत्ययः स्यात्, स च भवतेरेवोत्पद्यमानेन प्रत्ययेन शक्योऽभिधातुम्, अतस्तत एव प्रत्ययेन भवितव्यम्, तत्कथं पाकस्त्यागो राग इति पच्यादिभ्यो भवति? अत आह - क्रियासामान्यवाची इत्यादि। क्रियासामान्यं हि सर्व धात्वर्थानुगतं भवतेरर्थः। तेन क्रियासामान्यवाचिनाऽर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति, अतः पच्यादिभ्योऽपि प्रत्ययो भवतीत्यभिप्रायः। ननु धात्वर्थः पूर्वापरीभूतोऽपरिनिष्पन्नः, ततो यदि तत्र वाच्ये प्रत्ययो भवति तस्यासत्त्वभूतत्वाल्लिङ्गसंख्याभ्यां प्रत्ययार्थस्य सम्बन्धो न सिद्ध्यति, तत आह - धात्वर्थश्च इत्यादि। एवकारः प्रत्ययव्यवच्छेदार्थः। धातुनैवोच्यते धात्वर्थः, न तु प्रत्ययेन। कथं तर्हि घञादयो विधीयन्त इत्यत आह - यस्तस्य इत्यादि। तस्य धात्वर्थस्य सिद्धता निष्पन्न्ता नाम यो धर्मस्तत्र घञादयः प्रत्यया विधीयन्ते, ततो युक्तः प्रत्ययार्थस्य लिङ्गसंख्यायोगः। तस्य यो धर्मस्तस्य सत्त्वभूतत्वादित्यर्थः। भाव इति - इहि पुंल्लिङ्गेनायं निर्द्देश एकवचनेनन च। तेन पुंल्लिङ्ग एव बावे एकवचन एव प्रत्ययाः स्युः। न लिङ्गान्तरयुक्ते नापि वचनान्तरे। एवञ्च सति स्त्रियां क्तिन् (3.3.94) इत्यत्र भावे स्त्रियाम्िति चैतयोः सामानाधिकरण्यं नोपपद्यते, वैयधिकरण्यं हि स्यात्। ततः स्त्रियां भावे क्तिन्प्रत्ययो न स्यात्, अर्थान्तर एव कर्मादौ स्यात्। भावे च पुंल्लिङ्गे पाकौ पाका इत्यत्रैकवचनं स्यात्।यथाजातीयकं ह्रर्थमुपादातुं समर्थो भावशब्दस्तथाजातीयकेऽर्थे प्रत्ययेन युक्तं भवितुं नान्यत्रेत्यत आह - `पुंल्लिङ्गमेकवचनं चात्र न तन्त्रम् इति। सर्वलिङ्गसंख्यासम्बन्धयोग्यं प्रतातिपदिकार्थसामान्यनिमित्तं प्रत्ययनिमित्तत्वेनोपादीयते, तदेव प्रधानम्, न लिङ्गं नापि वचनम्। तत्र प्रातिपदिकार्थसामान्यं विना लिङ्गवचनाभ्यां न शक्यं निर्द्देष्टुमिति नान्तरीयकत्वात् तयोरुपादानम्। प्रतीते तु तस्मिन् प्रातिपदिकार्थसामान्यचरितार्थत्वाल्लिङ्गवचने लिङ्गान्तरे च प्रत्यया भवन्त्येव। पक्तिः इति। भावे स्त्रियां क्तिन् (3.3.94) । पक्वम् इति। नुपंसके भावे क्तः (3.3.114) । पचनम् इति। ल्युट् च (3.3.115) इति ल्युट्। अत्रापि यदि भावे पुल्लिङ्गस्तन्त्रं स्यात्, ततो भावनपुंसकशब्दयोः सामानाधिकरण्यानुपपत्तेर्वैयधिकरण्यं स्यात्, ततश्च भावे नपुंसके ल्युण्न स्यात्, अर्थान्तर एव तु स्यात्। भावे च पुंल्लिङ्गे पचनमित्यस्य तुल्यत्वाच्चोद्यपरिहारस्योपन्यासः, अन्यथा ह्रन्यदेव भावग्रहणमधिकृत्य ल्युटो विधानाददमिहानुपन्यसनीयमेव स्यात्। पाकौ इत्यादिकं वचनान्तरे भावप्रत्ययस्योदाहरणम्॥
Prakriyasarvasvam¶
धातोर्भावे घञ् स्यात् । वृद्धिकुत्वे । पाकः । त्यागः । युक्, उत्थायः प्रदायः ॥
Sutra Prayogas¶
लघयिष्यता (रघुवंशम्): लृटः सद्वा इति शतृप्रत्ययः।
अव्यथो (भट्टिकाव्यम्): भावे इति घञ्।