32099: उपसर्गे च संज्ञायाम्¶
Padacheda: उपसर्गे | S | 7 | 1 |
च | S | 0 | 0 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when an उपसर्ग is in composition and when the sense is simply appellative.
Vasu English Translation¶
The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when an उपसर्ग is in composition and when the sense is simply appellative. The term here being simply appellative, and not descriptive, cannot be explained by giving the signification of its component elements. As प्रजाः ‘people’, or ‘a son’; as in the sentence अथेमा मानवी प्रजाः ।
Kashika¶
उपसर्गे चोपपदे जनेर्डः प्रत्ययो भवति संज्ञायां विषये। समुदायोपाधिःसंज्ञा। अथेमा मानवीः प्रजा ः॥
Siddhanta Kaumudi¶
प्रजा स्यात्सन्ततौ जने ॥
Laghu Siddhanta Kaumudi¶
प्रजा स्यात्संततौ जने ॥
Balamanorama¶
उपसर्गे च संज्ञायाम् - उपसर्गे च । ‘जनेर्ड’ इति शेषः । संज्ञायामिति समुदायोपाधिः ।
Padamanjari¶
उपसर्गे च संज्ञायाम्॥ प्रजेति प्राणिजातस्यैषा संज्ञा॥
Nyaas¶
समुदायोपाधिः`इति। धातूपसर्गप्रत्ययसमुदायेन यदि संज्ञा गम्यत इएवं प्रत्ययार्थो भवति, नान्यथेति दर्शयति - `{प्रजाः- काशिका} प्रजाः इति। प्राणिसमुदायस्यैषा संज्ञेति। यद्यस्य सूत्रस्य प्रजेत्येतदेवोदाहरणम्, तदा `प्रे जनः संज्ञायाम्िति वक्तव्ये प्रजेति सिध्यत्येव, किमुपसर्गग्रहणेन? उपसर्गग्रहणमुत्तरार्थम्; अनौ कर्मणि (3.2.100) इत्युपसर्गे यथा स्यात्, कर्मप्रवचीये मा भूत्। अथानन्त्यस्य प्रयोगविषयस्यान्यस्मिन्नुपपदे कदाचित् प्रत्ययो दृश्यते यदि, तदैतदर्थमपि॥
Prakriyasarvasvam¶
प्रादिपूर्वाज्जनेर्नाम्नि डः स्यात् । प्रजा ॥
Sutra Prayogas¶
प्रजानां (रघुवंशम्): उपसर्गे च संज्ञायाम् इति डप्रत्ययः।
प्रजास्त्वं (भट्टिकाव्यम्): उप- सर्गे च संज्ञायाम् इति जनेर्डः।