32098: पञ्चम्यामजातौ

Padacheda: पञ्चम्याम् | S | 7 | 1 |

अजातौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the word, in composition with it is in the Ablative -5th case, which does not denote a genus.

Vasu English Translation

The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the word, in composition with it is in the Ablative -5th case, which does not denote a genus. As बुद्धिजः ‘born through understanding’; संस्कारजः ‘born of habit’; दुखजः ‘born through pain’.

Why do we say ‘when not denoting a genus’? Observe हस्तिनो जातः ‘born of elephant’; अश्वाज्जातः ‘born of horse’.

Kashika

पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति। बुद्धिजः। संस्कारजः। दुःखजः। अजाताविति किम्? हस्तिनो जातः। अश्वाज् जातः॥

Siddhanta Kaumudi

जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥

Balamanorama

पञ्चम्यामजातौ - पञ्चम्यामजातौ । जनेरिति ।भूतार्था॑दिति शेषः । संस्कारज[म] इति । संस्काराज्जात्[म] इत्यर्थः ।

Padamanjari

पञ्चम्यामजातौ॥ बुद्ध्यादय आत्मगुणाः, खेदःउरागः, खेदात् स्त्रेषु प्रवृत्तिरिति दर्शनात्॥

Nyaas

बुद्धिजः इति। जनिकृर्त्तुः प्रकृतिः (1.4.30) इति बुद्धेरपादानत्वादपादाने पञ्चमी।, तदस्योपपदत्वम्। बुद्ध्यादिशब्दा जातिशब्दा न भवन्ति; बुद्ध्यादीनामात्मगुणत्वात्॥

Prakriyasarvasvam

अजातिवाचिनि पञ्चम्यन्ते पूर्वे जनेर्डः । ज्ञानजः । विष्णुजः । जातौ त्वश्वाज्जातः ॥

Sutra Prayogas

  • अ-क्षत्त्रिय-जे (भट्टिकाव्यम्): पञ्चम्यामजातौ इति डः।