32097: सप्तम्यां जनेर्डः

Padacheda: सप्तम्याम् | S | 7 | 1 |

जनेः | S | 5 | 1 |

डः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the word, in composition with it is in the Locative -7th-case.

Vasu English Translation

The affix ड comes after the verb जन् ‘to be produced’, with a past signification, when the word, in composition with it is in the Locative -7th-case. As उपसरे जातः = उपसरजः । जन् + ड = ज् + अ (6.4.143) = ज ‘born of the first conception’; मन्दुरजः ‘born in the stable’.

Kashika

सप्तम्यन्त उपपदे जनेर्धातोर्डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः॥

Siddhanta Kaumudi

सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः - (SK1001) इति ह्रस्वः ॥

Balamanorama

सप्तम्यां जनेर्डः - सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । हलदन्तात् इति तत्पुरुषे कृति इति वा अलुक् । मन्दुरज इति । वाजिशाला तु मन्दुरेत्यमरः ।

Tattvabodhini

सप्तम्यां जनेर्डः - मन्दुरायामिति ।वाजिशाला तु मन्दुरा॑ इत्यमरः ।

Padamanjari

सप्तम्यां जनेर्डः ॥ मन्दुरज इति । ‘वाजिशाला तु मन्दुरा’ । ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति ह्रस्वः॥

Nyaas

सप्तमीति प्रत्ययग्रहणम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तस्य ग्रहणं भवतीत्याह - सप्तम्यन्त उपपदे इति । स्वरूपग्रहणमत एव न भवति। उपसरजः इति । डित्करणसामर्थ्यादभसंज्ञकस्यापि टिलोपः। मन्दुरजः इति। ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति ह्रस्वः॥

Prakriyasarvasvam

डित्त्वात् टिलोपः । सिन्धौ जातः सिन्धुजः ॥

Sutra Prayogas

  • मगधवंशजा (रघुवंशम्): सप्तम्यां जनेर्डः इति डप्रत्ययः।

  • शिरसिजसंयमनाकुलैकपाणिः (किरातार्जुनीयम्): सप्तम्यां जनेर्डः इति डप्रत्ययः।

  • मनसिज (शिशुपालवधम्): सप्तम्यां जनेर्ड: इति डप्रत्ययः।

  • सरसिजवनकान्तं (शिशुपालवधम्): सप्तम्यां जनेर्डः इति डप्रत्ययः।

  • प्रावृषि-जाऽम्भो-द- (भट्टिकाव्यम्): सप्तम्यां जनेर्डः इति डः।

  • कृत-जैर्द्विजैः (भट्टिकाव्यम्): सप्तम्यां जनेर्ड: इति डः।