32096: सहे च¶
Padacheda: सहे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix क्वनिप् comes after the verbs युध ‘to fight’ and कृ ‘to make’ with a past signification when the word सह ‘with’, is in composition.
Vasu English Translation¶
The affix क्वनिप् comes after the verbs युध ‘to fight’ and कृ ‘to make’ with a past signification when the word सह ‘with’, is in composition. The word सह, being a particle, and not denoting a substance, is incapable of taking any case. As सहयुध्वन् ‘who has made to fight with’; सहकृत्वन् ‘who has done any thing along with another’.
Kashika¶
सहशब्दे चोपपदे युधिकृञोर्धात्वोः क्वनिप् प्रत्ययो भवति। असत्त्ववाचित्वाद् नोपपदं कर्मणा विशेष्यते। सहयुध्वा। सहकृत्वा॥
Siddhanta Kaumudi¶
कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥
Laghu Siddhanta Kaumudi¶
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥
Balamanorama¶
सहे च - सहे च । सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः ।
Tattvabodhini¶
सहे च - इदमपि सूत्रद्वयंदृशेः क्वनि॑ बितिवन्नियमार्थमिति न्याय्यम् । वस्तुतस्तु दृशिग्रहणेन निर्वाहस्याऽगतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विहोदासीना एवेति शब्दकौस्तुभे स्थितम् ।
Padamanjari¶
सहे च॥ असत्ववचनत्वान्नोपपदं कर्मणा विशेष्यत इति। अतश्च’कर्मणि’ इति नानुवर्तते इति भावः। न पुनरनुवर्तमानस्यैवान्नासम्बन्धः, उतरत्राप्यनुपयोगात्॥
Prakriyasarvasvam¶
युधिकृञोः क्वनिप् । सहयुध्वा सहकृत्वा ॥
Sutra Prayogas¶
सहयुध्वनो (शिशुपालवधम्): सहे च इति क्वनिप्।
सह-युध्वानौ (भट्टिकाव्यम्): सहे च इति युधेः क्वनिप्।
सहयुध्वानम् (भट्टिकाव्यम्): सहे च इति क्वनिप्।