32094: दृशेः क्वनिप् ==================== **Padacheda:** दृशेः | S | 5 | 1 | क्वनिप् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्वनिप् comes after the verb दृश् 'to see' in the sense of past time, when in composition with a word in the Accusative -2nd case. Vasu English Translation ------------------------ The affix क्वनिप् comes after the verb दृश् 'to see' in the sense of past time, when in composition with a word in the Accusative -2nd case. As मेरुदृश्वन्, 1st. sing. मेरुदृश्वा 'who has seen the Meru'. परलोकदृश्वा 'who has seen the hereafter.' Though the affix क्वनिप् was valid by *sutra* (3.2.75) its repetition here shows that no other affix comes in this sense after this verb. Kashika ------- कर्मणीत्येव। दृशेर्धातोःकर्मण्युपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। **अन्येभ्योऽपि दृश्यन्ते**(३.२.७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तर — निवृत्त्यर्थम्॥ Siddhanta Kaumudi ----------------- कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥ Laghu Siddhanta Kaumudi ----------------------- कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥ Balamanorama ------------ **दृशेः क्वनिप्** - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् । Tattvabodhini ------------- **दृशेः क्वनिप्** - दृशेः क्वनिप् ।अन्येब्योऽपि दृश्यन्ते॑ इति सिद्धे नियमार्थमिदं — क्वनिबेव यथास्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय॑ इति । सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव — पारं दृष्टवानिति । एवं स्थितेविआदृआनयना वयमेवे॑त्यादौ विआं पश्यन्ति विआदृआआनि, तानि नयनानि येषां ते विआदृआनयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक् । Padamanjari ----------- द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव - पलोकं द्दष्टवानिति॥ Nyaas ----- `प्रत्ययान्तरनिवृत्यर्थम्` इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव - परलोकं दृष्टवानिति। अत्र च कारणं `ब्राहृभ्रूण` (3.2.87) सूत्र एव उक्तम्॥ Prakriyasarvasvam ----------------- कर्मपूर्वादेव । हरिं दृष्टवान् हरिदृश्वा ॥ Sutra Prayogas -------------- * **पारदृश्वनः** (रघुवंशम्): `दृशेः क्वनिप्` इति क्वनिप्। * **श्रुतपारदृश्वा** (रघुवंशम्): `दृशेः क्वनिप्` इति क्वनिप्। * **यमाऽऽस्य-दृश्वरी** (भट्टिकाव्यम्): `दृशेः वनिप्` इति वनिप्। * **पाप-दृष्वना** (भट्टिकाव्यम्): `दृशेः क्वनिप्` इति क्वनिप्।