32092: कर्मण्यग्न्याख्यायाम् ============================ **Padacheda:** कर्मणि | S | 7 | 1 | अग्न्याख्यायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In expressing an object the affix क्विप्comes after the verb चि 'to collect' with the sense of past time when in composition with a word in the Accusative -2nd case, provided the word so formed is the name of fire. Vasu English Translation ------------------------ In expressing an object the affix क्विप्comes after the verb चि 'to collect' with the sense of past time when in composition with a word in the Accusative -2nd case, provided the word so formed is the name of fire. The words चेः and कर्मणि are understood in this *sutra*. The Name is expressed by taking the complete word consisting of the verbal root, the *upapada* and the affix. As श्येनचित् 'a fire which has been arranged in the shape of a hawk'; कङ्कचित् 'fire arranged like a heron'. The word आख्या indicates that these words are *rudhi* words, their sense depending upon usage rather than etymology. The arrangement of bricks for sacrificial purpose with regard to fire, gets these various names; that is, when the bricks are arranged like a falcon, it is called श्येनचित्, and so on. Kashika ------- चेः कर्मणीति वर्तते। कर्मण्युपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायाम्, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसंप्रत्ययार्थम्। अग्न्यर्थो हीष्टकाचय उच्यते श्येनचिदिति॥ Siddhanta Kaumudi ----------------- कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥ Balamanorama ------------ **कर्मण्यग्न्याख्यायाम्** - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् । Padamanjari ----------- कर्मण्यग्न्याख्यायाम्॥'कर्मणि हनः' इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह - कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः - य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥ Nyaas ----- **कर्मणि हनः** (3.2.86) इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवर्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह - `कर्मण्येव कारके` इति। `धातूपपद` इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति।`आख्याग्रहणं रूढिसम्प्रत्ययार्थम्` इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते - कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह - `अग्न्यर्थो हि` इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते? यस्य ग्रहणं क्रियते, तस्मश्च सति प्रसिद्धो गृह्रमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः॥ Prakriyasarvasvam ----------------- अग्निचयननाम्नि चेः कर्मार्थे क्विप् स्यात् । श्येन इव चीयत इति श्येनचित् । कङ्कचित् ।