32090: सोमे सुञः¶
Padacheda: सोमे | S | 7 | 1 |
सुञः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्विप्comes after the verb सु ‘to press out juice’ with the sense of past time, when the word सोम , in the Accusative -2nd case, is in composition.
Vasu English Translation¶
The affix क्विप्comes after the verb सु ‘to press out juice’ with the sense of past time, when the word सोम , in the Accusative -2nd case, is in composition. As, सोमसुत् ‘who has pressed the soma juice, or soma-distiller’; 1st. dual सोमसुतौ; 1st. plural सोमसुतः ।
This sutra is also for the sake of making a niyama or restrictive rule. The four-fold restriction is here intended. i. e. as regards the verb, the tense, the upapada and the affix.
Kashika¶
कर्मणीति वर्तते। सोमे कर्मण्युपपदे सुनोतेर्धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयमपि नियमार्थ आरम्भः। चतुर्विधश्चात्र नियम इष्यते। धातुकालोपपदप्रत्ययविषयः॥
Siddhanta Kaumudi¶
सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥
Balamanorama¶
सोमे सुञः - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः ।
Tattvabodhini¶
सोमे सुञः - सोमे सुञः । इहापि चतुर्विधो नियम इति वृत्तिः । एवमुत्तरसूत्रेऽपि । तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्न चितवान् अग्निचाय इत्यण्न भवति । सुनोतेः सोम एव उपपदे नियतत्वाच्चिनोतेस्त्वग्नावेवोपपदे नियत्वात् सुरां सुतवान् सुरासुत्, इष्टकाश्रितवानिष्टकाचिदिति न भवति, किं तु सुरासावः इष्टकाचाय इत्यणेव भवति । सोमस्य सुनोतावेव धातोर्नियतत्वात्, अग्नेस्तु चिनोतावेव नियतत्वात् — सोमं क्रीतवान् सोमकीः, अग्न भृतवान् अग्निभृदिति क्वब्नि भवति, किं तुसोमक्रायः अग्निभार इत्यणेव भवति । भूत एव क्विपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब्न भवति । तथा अग्न चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंत्वणेव । कर्मणीनि । कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृकुत्सामावहति तत्रेत्यर्थः । सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः । कुत्सितग्रहणान्नेह, -धान्यविक्रायः ।
Padamanjari¶
सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥
Nyaas¶
`धातुकालोपपदप्रत्यय विषयः`इति। पूर्ववद्बहुव्रीहिः। कालादिनियमोऽन्यपदार्थः। तत्र कालनियमः - सोमे सुनोतेः क्विबेव भूते, नान्यः प्रत्ययः; न हि - सोमं सुतवान् सोमसाव इति। धातुनियमः - सोम एव सुनोतेः क्विप्, नान्यस्मिन्नुपपद इति;इह न भवति - सुरां सुतवान् सुरासुदिति। उपपनियमः - सोमे सुनोतेरेव, नान्यस्माद्धातोरितित;इह न भवति क्विप् - सोमं क्रीतवानिति , सोमक्राय इत्यणेव तु भवति। प्रत्ययनियमः - सोमे सुनोतेर्भूत एव क्विप्, नान्यत्रेति;तेन सोमं सुनोति, सोष्यति वेत्यर्थविवक्षायां सोमसुदिति न भवति॥
Prakriyasarvasvam¶
सोमं सुतवान् सोमसुत् ॥
Sutra Prayogas¶
सोमसुतः (रघुवंशम्): सोमे सुञः इति क्विप्।
सोम-सुद् (भट्टिकाव्यम्): सोमे सुजः इति क्विप्।