32089: सुकर्मपापमन्त्रपुण्येषु कृञः¶
Padacheda: सु-कर्म-पाप-मन्त्र-पुण्येषु | S | 7 | 3 |
कृञः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्विप्comes after the verb कृ ‘to make’ with the sense of past time, when the following words in the Accusative -2nd case are in composition - 1. सु ‘action’ 2. कर्म ‘action’ 3. पाप ‘sin’ 4. मन्त्र ‘hymn’ 5. पुण्य ‘virtue’.
Vasu English Translation¶
The affix क्विप्comes after the verb कृ ‘to make’ with the sense of past time, when the following words in the Accusative -2nd case are in composition - 1. सु ‘action’ 2. कर्म ‘action’ 3. पाप ‘sin’ 4. मन्त्र ‘hymn’ 5. पुण्य ‘virtue’. The phrase ‘in the accusative case’ is understood in this aphorism, and applies to all the above-mentioned words, except सु, which being an attributive word, of course, cannot take any case-terminations. As सुकृत् (6.1.71) ‘who has done well’; कर्मकृत् ‘who has done all works’; पापकृत् ‘who has committed sins’; मन्त्रकृत् ‘who has made a mantra’; पुण्यकृत् ‘who has done virtuous actions’.
This sutra also ordains a restrictive rule or niyama. Three-fold restriction is intended here: namely, restrictions with regard to time, upapada, and affix; but not with regard to verbs. See (3.2.87). There being no restriction with regard to the root, this affix is employed when words other than these are upapadas. As, शास्त्रकृत् ‘who has made Scriptures’; भाष्यकृत् ‘who has made a commentary’. The त् is added to the root by (6.1.71).
Kashika¶
कर्मणीति वर्तते, तदसंभवात् सुशब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति। स्वादिषु कर्मसूपपदेषु करोतेर्धातोः क्विप् प्रत्ययो भवति। सुकृत्। कर्मकृत्। पापकृत्। मन्त्रकृत्। पुण्यकृत्। अयमपि नियमार्थ आरम्भः। त्रिविधश्चात्र नियम इष्यते। धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः। धातोरनियतत्वादन्यस्मिन्नप्युपपदे भवति। शास्त्रकृत्। भाष्यकृत्॥
Siddhanta Kaumudi¶
सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥
Balamanorama¶
सुकर्मपापमन्त्रपुण्येषु कृञः - सुकर्म.सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः । त्रिविध इति ।सुकर्मादिषु भूते कृञः क्विबेवे॑ति,सुकर्मादिषु भूते कृञ एव क्विबिति,सुकर्मादिषु भूते कृञ एव क्वि॑बितिसुकर्मादिषु भूत एव कृञ॑ इति त्रिविध इत्यर्थः । अण् नेति । क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः । स्वादिष्वेवेति । सुकर्मादिषु पञ्चस्वित्यर्थः ।
Tattvabodhini¶
सुकर्मपापमन्त्रपुण्येषु कृञः - सुकर्म । त्रिविध इति । धातुनियमस्त्विह नेष्ट इति भावः । क्विबेवेतीति ।भूते क्विबेवे॑ति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः । कृञ एवेतीति ।सुकर्मादिषु कृञ एवे॑ति धात्वन्तरसंबन्धनिवृत्तिफलकोपपदनियमादित्यर्थः । भूत एवतीति ।भूत एव क्वि॑बिति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः । स्वादिष्वेवेतीति ।स्वादिष्वेव कृञ॑ इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाऽभावादित्यर्थः ।
Padamanjari¶
सुकर्मपापमन्त्रपुण्येषु कृञः॥ स्वादिष्विति। सुशब्दं वर्जयित्वेत्यनन्तरमेवाभिधानादतद्गुणसंविज्ञानो बहुव्रीहिः, बाहुल्याश्रयणेनैवमुक्तम्, आढ्यो ग्राम इतिवत्। त्रिविधश्चेति। एतद्वहुलग्रहणानुवृतेरेव लभ्यते। कालोपपदप्रत्ययविषय इति। तत्र कालनियमात्कर्म कृतवान्कर्मकार इत्यण् न भवति। उपपदनियमात् मन्त्रमधीमधीतवान्मन्त्राध्याय इत्यणेव भवति, न तु क्विप्। प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति, न तु क्विप् शास्त्रकृदिति।’क्विप् च’ इति क्विप्॥
Nyaas¶
सुशब्दं वर्जयित्वा`इति। तस्यासत्त्ववचनात् कर्मत्वानुपपत्तेः। `स्वादिषु कर्मसु इति। बाहुल्यमाश्रित्योक्तम्, यथा - ब्राआहृणग्रामः, भट्टग्रामः इति। कुत एतत्? सुशब्दं वर्जयित्वेत्यनन्तराणामेवाभिधानात्। त्रिविधश्चात्र नियमः इति। एतदपि बहुलग्रहणानुवृत्तेर्लभ्यते। कालोपपदप्रत्यय{नियमः-काशिका}विषयः इति। कालोपपदप्रत्यया विषया यस्य स तथोक्तः। स पुनः कालनियमः, उपपदनियमः, प्रत्ययनियमश्चेति। तत्र कालनियमः - स्वादिषु कृञो भूत एव क्विबेव बवति, नान्यः प्रत्यय इति; न भवति - कर्म कृतवान् कर्मकार इति। उपपदनियमः - स्वादिषु कृञ एव, नान्यस्माद्धातोरिति; न हि भवति क्विप् - मन्त्रमधीतवानिति, अणेव भवति मन्त्राध्याय इति। प्रत्ययनियमः - स्वादिषु कृञो भूत एव क्विप्, न वर्तमाने, भविष्यत् इवा, तेन मन्त्रं करोति, मन्त्रं करिष्यतीति वेत्यर्थविवक्षायां मन्त्रकृदिति न भवति। शास्त्रकृत् इति। क्विप् च (3.2.76) इति क्विप्॥
Prakriyasarvasvam¶
तुक् । शोभनं कृतवान् सुकृदित्यादि ॥
Sutra Prayogas¶
मन्त्रकृतो (रघुवंशम्): सुकर्मपापमन्त्रपुण्येषु कृञः इति क्विप्।
मन्त्रकृत् (रघुवंशम्): सुकर्मपापमन्त्रपुण्येषु कृञः इति क्विप्।