32090: सोमे सुञः ================ **Padacheda:** सोमे | S | 7 | 1 | सुञः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्विप्comes after the verb सु 'to press out juice' with the sense of past time, when the word सोम , in the Accusative -2nd case, is in composition. Vasu English Translation ------------------------ The affix क्विप्comes after the verb सु 'to press out juice' with the sense of past time, when the word सोम , in the Accusative -2nd case, is in composition. As, सोमसुत् 'who has pressed the *soma* juice, or *soma*-distiller'; 1st. dual सोमसुतौ; 1st. plural सोमसुतः । This *sutra* is also for the sake of making a *niyama* or restrictive rule. The four-fold restriction is here intended. i. e. as regards the verb, the tense, the *upapada* and the affix. Kashika ------- कर्मणीति वर्तते। सोमे कर्मण्युपपदे सुनोतेर्धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयमपि नियमार्थ आरम्भः। चतुर्विधश्चात्र नियम इष्यते। धातुकालोपपदप्रत्ययविषयः॥ Siddhanta Kaumudi ----------------- सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥ Balamanorama ------------ **सोमे सुञः** - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः । Tattvabodhini ------------- **सोमे सुञः** - सोमे सुञः । इहापि चतुर्विधो नियम इति वृत्तिः । एवमुत्तरसूत्रेऽपि । तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्न चितवान् अग्निचाय इत्यण्न भवति । सुनोतेः सोम एव उपपदे नियतत्वाच्चिनोतेस्त्वग्नावेवोपपदे नियत्वात् सुरां सुतवान् सुरासुत्, इष्टकाश्रितवानिष्टकाचिदिति न भवति, किं तु सुरासावः इष्टकाचाय इत्यणेव भवति । सोमस्य सुनोतावेव धातोर्नियतत्वात्, अग्नेस्तु चिनोतावेव नियतत्वात् — सोमं क्रीतवान् सोमकीः, अग्न भृतवान् अग्निभृदिति क्वब्नि भवति, किं तुसोमक्रायः अग्निभार इत्यणेव भवति । भूत एव क्विपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब्न भवति । तथा अग्न चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंत्वणेव । कर्मणीनि । कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृकुत्सामावहति तत्रेत्यर्थः । सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः । कुत्सितग्रहणान्नेह, -धान्यविक्रायः । Padamanjari ----------- सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥ Nyaas ----- `धातुकालोपपदप्रत्यय विषयः`इति। पूर्ववद्बहुव्रीहिः। कालादिनियमोऽन्यपदार्थः। तत्र कालनियमः - सोमे सुनोतेः क्विबेव भूते, नान्यः प्रत्ययः; न हि - सोमं सुतवान् सोमसाव इति। धातुनियमः - सोम एव सुनोतेः क्विप्, नान्यस्मिन्नुपपद इति;इह न भवति - सुरां सुतवान् सुरासुदिति। उपपनियमः - सोमे सुनोतेरेव, नान्यस्माद्धातोरितित;इह न भवति क्विप् - सोमं क्रीतवानिति , सोमक्राय इत्यणेव तु भवति। प्रत्ययनियमः - सोमे सुनोतेर्भूत एव क्विप्, नान्यत्रेति;तेन सोमं सुनोति, सोष्यति वेत्यर्थविवक्षायां सोमसुदिति न भवति॥ Prakriyasarvasvam ----------------- सोमं सुतवान् सोमसुत् ॥ Sutra Prayogas -------------- * **सोमसुतः** (रघुवंशम्): `सोमे सुञः` इति क्विप्। * **सोम-सुद्** (भट्टिकाव्यम्): `सोमे सुजः` इति क्विप्।