32086: कर्मणि हनः¶
Padacheda: कर्मणि | S | 7 | 1 |
हनः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णिनि comes after the verb हन् ‘to kill’ with the sense of past time, when the word in composition is in the Accusative -2nd case.
Vasu English Translation¶
The affix णिनि comes after the verb हन् ‘to kill’ with the sense of past time, when the word in composition is in the Accusative -2nd case. As पितृव्यघातिन् ‘who has killed his paternal uncle’; मातुलघातिन् ‘who has killed his maternal uncle’; हन् + णिनि = घन् + णिनि (7.3.54) = घत् + णिनि (7.3.32) = घातिन् (7.2.116).
This affix is employed only when censure is implied. Therefore it is not employed in चोरं हतवान् ‘he has killed the thief’.
The anuvritti of the word कर्मणि of this aphorism extends up to sutra (3.2.96).
Kashika¶
कर्मण्युपपदे हन्तेर्धातोर्णिनिः प्रत्ययो भवति भूते काले। पितृव्यघाती। मातुलघाती ॥ कुत्सितग्रहणं कर्तव्यम्॥ इह मा भूत् — चौरं हतवान्॥
Siddhanta Kaumudi¶
पितृव्यघाती । कर्मणीत्येतत् सहे च (SK3006) इति यावदधिक्रियते ॥
Balamanorama¶
कर्मणि हनः - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । ‘हनस्तः’ इति तः,हो हन्ते॑रिति हस्य घः ।
Tattvabodhini¶
कर्मणि हनः - कर्मणि हनः । पितृव्यघातीति । अत्र काशिकाकुत्सितग्रहणं कर्तव्यम् । इह माभूत्, चोरं हतवा॑निति । यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः ।
Padamanjari¶
कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥
Nyaas¶
पितृव्यघाती इति। हनस्तोऽचिण्णलोः (7.3.32) इति तत्वम्। हो हन्तेर्ञ्णिन्नेषु (7.3.54) इति घत्वम्, सौ च (6.4.13) इति दीर्घत्वम्। `कुत्सितग्रहणं कर्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति - येन कुत्सितः कर्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् - वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कर्ता कुत्स्यते, तत्रव, नान्यत्र॥
Prakriyasarvasvam¶
कर्मपूर्वाद्धनेर्भूते णिनिः स्यात् । कुत्सिते चेति वाच्यम् । गोघाती । मातृघाती ॥