32086: कर्मणि हनः ================= **Padacheda:** कर्मणि | S | 7 | 1 | हनः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णिनि comes after the verb हन् 'to kill' with the sense of past time, when the word in composition is in the Accusative -2nd case. Vasu English Translation ------------------------ The affix णिनि comes after the verb हन् 'to kill' with the sense of past time, when the word in composition is in the Accusative -2nd case. As पितृव्यघातिन् 'who has killed his paternal uncle'; मातुलघातिन् 'who has killed his maternal uncle'; हन् + णिनि = घन् + णिनि (7.3.54) = घत् + णिनि (7.3.32) = घातिन् (7.2.116). This affix is employed only when censure is implied. Therefore it is not employed in चोरं हतवान् 'he has killed the thief'. The *anuvritti* of the word कर्मणि of this aphorism extends up to *sutra* (3.2.96). Kashika ------- कर्मण्युपपदे हन्तेर्धातोर्णिनिः प्रत्ययो भवति भूते काले। पितृव्यघाती। मातुलघाती ॥ कुत्सितग्रहणं कर्तव्यम्॥ इह मा भूत् — चौरं हतवान्॥ Siddhanta Kaumudi ----------------- पितृव्यघाती । कर्मणीत्येतत् सहे च (SK3006) इति यावदधिक्रियते ॥ Balamanorama ------------ **कर्मणि हनः** - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः । Tattvabodhini ------------- **कर्मणि हनः** - कर्मणि हनः । पितृव्यघातीति । अत्र काशिकाकुत्सितग्रहणं कर्तव्यम् । इह माभूत्, चोरं हतवा॑निति । यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिस्वाभाव्यदिदं लभ्यत इत्याहुः । Padamanjari ----------- कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥ Nyaas ----- `पितृव्यघाती` इति। **हनस्तोऽचिण्णलोः** (7.3.32) इति तत्वम्। **हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इति घत्वम्, `सौ च` (6.4.13) इति दीर्घत्वम्। `कुत्सितग्रहणं कर्तव्यम्िति प्रत्ययर्थस्य विशेषणम्। गृह्रतेऽनेनेति ग्रहणम्। तत् पुनव्र्याख्यानम्। एतदुक्तं भवति - येन कुत्सितः कर्ता प्रत्ययार्थो गृह्रते तद्व्याख्यानं कर्तव्यमिति। तत्रेदं व्याख्यानम् - वक्ष्यमाणबहुलग्रहणमपकृष्येह सम्बन्धः क्रियते, तेन पितृव्यवधादिकां प्रतिषिद्धां क्रियां कुर्वाणो यः कर्ता कुत्स्यते, तत्रव, नान्यत्र॥ Prakriyasarvasvam ----------------- कर्मपूर्वाद्धनेर्भूते णिनिः स्यात् । कुत्सिते चेति वाच्यम् । गोघाती । मातृघाती ॥