32087: ब्रह्मभ्रूणवृत्रेषु क्विप्¶
Padacheda: ब्रह्म-भ्रूण-वृत्रेषु | S | 7 | 3 |
क्विप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्विप्comes after the verb हन् ‘to kill’ with the sense of past time when the following words in the Accusative -2nd case ae in composition - 1. भ्रूण ‘a foetus’ 2. वृत्र ।
Vasu English Translation¶
The affix क्विप्comes after the verb हन् ‘to kill’ with the sense of past time when the following words in the Accusative -2nd case ae in composition - 1. भ्रूण ‘a foetus’ 2. वृत्र । As ब्रह्महन्, 1st. sing. ब्रह्महा ‘who has killed a Brahmana’; भ्रूणहा ‘who has killed a foetus’; वृत्रहा ‘who has killed Vritra, a name of Indra’.
Since by sutra 76 ante, the affix क्विप् was ordained to come after all verbs, and therefore would have come after the verb हन् also, where is the necessity of the present aphorism? This aphorism makes a niyama. i.e. the verb हन् takes the affix क्विप् only when it is in composition with the words ब्रह्म &c. Four-fold restriction is here intended.
When हन् has upapada, the words ब्रह्म &c., and not any other word; as पुरुषं हतवान् ‘he has killed the man’.
When the words ब्रह्म &c. are upapadas of any other verb than हन्, then this affix is not employed; so that the verb must be हन्; thus ब्रह्माधीतवान् ‘he has read the Veda’.
The क्विप् is the only affix to denote past time in the case of हन् preceded by ब्रह्म &c., and no other affix can be employed in this sense.
This is employed only in the past tense and not in any other tense; as ब्रह्माणं हन्ति or हनिष्यति ‘he kills or will kill the Brahmana’. This sutra anticipates the diversity taught in the next sutra, and is an example of बहुलं use of the affix.
Bhashya¶
ब्रह्मभ्रूणवृत्रेषु क्विप् (854) (504 क्विप्प्रत्ययनियमसूत्रम् ॥ 3 । 2 । 2 आ.2 ) (आक्षेपभाष्यम्) किमर्थं ब्रह्मदिषु हन्तेः क्विब्विधीयते, न क्विप्चान्येभ्योपि दृश्यते इत्येव सिद्धम्?। (2069 समाधानवार्तिकम् ॥ 1 ॥) - ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्- (भाष्यम्) नियमार्थोयमारम्भः ॥ (ब्रह्मादिष्वेव हन्तेर्भूते क्विब्यथा स्यादिति ॥) किमविशेषेण?। (भाष्यम्) नेत्याह। उपपदविशेषे एतस्मिंश्च विशेषे ॥ (भाष्यम्) अथ ब्रह्मादिषु हन्तेर्णिनिना भवितव्यम्?। न भवितव्यम्। किं कारणम्?। उभयतोनियमात्। (भाष्यम्) उभयतो नियमोयम्। ब्रह्मादिष्वेव हन्तेर्भूते क्विब्भवति। क्विबेव हन्तेर्भूते ब्रह्मादिष्विति ॥ (2070 दृष्टोपपत्तिवार्तिकम् ॥ 2 ॥ ) - तथा चोत्तरस्य वचनार्थः- (भाष्यम्) एवं च कृत्वोत्तरस्य योगस्य वचनार्थ उपपन्नो भवति - -बहुलं छन्दसि इति। यो मातृहा पितृहा भ्रातृहा। न च भवति - -अमित्रघात इति ॥ ब्रह्मभ्रूण ॥ 87 ॥
Kashika¶
कर्मणीति वर्तते। ब्रह्मादिषु कर्मसूपपदेषु हन्तेर्धातोः क्विप् प्रत्ययो भवति भूते। ब्रह्महा। भ्रूणहा। वृत्रहा। किमर्थमिदमुच्यते, यावता सर्वधातुभ्यः क्विब् विहित एव? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम्। चतुर्विधश्चात्र नियम इष्यते। ब्रह्मादिष्वेव हन्तेः, नान्यस्मिन्नुपपदे। पुरुषं हतवानिति। ब्रह्मादिषु हन्तेरेव, नान्यस्मात् स्यात्। ब्रह्माधीतवानिति। ब्रह्मादिषु हन्तेभूर्तकाले क्विबेव, नान्यः प्रत्ययः। तथा भूतकाल एव, नान्यस्मिन्। ब्रह्माणं हन्ति हनिष्यति वेति। तदेतद् वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षणाद् लभ्यते॥
Siddhanta Kaumudi¶
एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च (SK2983) इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥
Balamanorama¶
ब्रह्मभ्रूणवृत्रेषु क्विप् - ब्राहृभ्रूण । पूर्वसूत्रात्कर्मग्रहमाऽनुवृत्तेराह — कर्मस्विति । हन्तेभूते इति । भूतार्थवृत्तेर्हन्तेरित्यर्थ- । चतुर्विध इति । पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुष्र्वपि निवेश इति भावः । तत्रब्राहृआदिष्वेव हन्ते॑रिति नियमात् पुरुषं हतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेरेवे॑ति नियमाद्ब्राहृ अधीतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेर्भूतकाले एवे॑ति नियमाद्ब्राहृ हन्ति हनिष्यति वेत्यत्र न क्विप् ।क्विबेवे॑ति नियमाद्ब्राहृ हतवानित्यतर् अण् न भवति, किंतुब्राहृभ्रूणे॑ति क्विबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः । द्विविध इति । ‘उभयतो नियमोऽयम्’ - ब्राहृआदिष्वेव॑क्विबेवे॑ति च भाष्यमित्यर्थः । एवं चहन्तेरेव॑,भूत एवे॑ति नियमद्वयमुपेक्ष्यमिति भावः ।
Tattvabodhini¶
ब्रह्मभ्रूणवृत्रेषु क्विप् - चतुर्विध इति । अयमाशयः — इह सूत्रे श्रुतत्वात्पूर्वं ब्राहृआदय उद्देश्यास्ततोऽनन्तरं प्रकृतित्वाद्धन्तिस्ततः परिशेषाद्भूत इति । क्विप् तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः — ॒ब्राहृआदिषूपपदेषु हन्तेर्भूते क्वि॑ बिति । एवं स्थितेयत्रैवकरास्ततोऽन्यत्र नियम॑ इतिन्यायेन नियमोऽत्र भवन्ननन्तरे भवति । ततश्च ब्राहृआदिष्वेवेत्यवधारणे हन्तेस्तदनन्तरनिर्द्दिष्टत्वादुपपदान्तरनिवृत्तिफलः [प्रकृति] नियमो भवति ।ब्राहृआदिषु हन्तेरेव भूते॑ इत्यवधारणे त्वनन्तरत्वाऽविशेषेऽपि प्राथम्यादुपपदनियमो धात्वन्तरनिवृत्तिफलकः ।ब्राहृआदिषु हन्तेर्भूते एव क्वि॑ बित्यवधारणे तु क्विभन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तर संबन्धानवृत्तिफलकः प्रत्ययनियमः ।ब्राहृआदिषु हन्तेर्भूते क्विबेवे॑ति वचनव्यक्तौ प्रत्ययान्तरसंबन्धनिवृत्तिफलकः कालनियमः । सोऽयं प्रकृत्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्रमाणविशेषत्वात्तुचतुर्विधस्यापीह ग्रहणम् । तत्रब्राहृआदिष्वेव हन्ते॑रिति प्रकृतिनियमे भूतैत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा ।अरिहयोऽरहयोगविचक्षणः॑ । अरीन् हन्तीति अरिहा, स चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः । प्रकृतिनियमफलं तु पुरुषं हतवान् पुरुषहा इति भूतार्थे प्रयोगाऽभावः ।ब्राहृआदिषु हन्तेरेव॑त्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमानभविख्यत्कालयोर्धात्वन्तरादपि भवत्येव, — वृत्रं जयति जेष्यति वा वृत्रजिदिति । उपपदनियमफलं तु वृत्रं जितवान् वृत्रजदिति प्रयोगाभावः ।भूत एव क्वि॑ बिति प्रत्ययनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे वर्तमानभविष्यत्कालयोर्हन्तेः क्विब्भवत्येव । पुरुषं हनति हनिष्यति वा पुरुषहा । अरिहेति प्राग्वत । प्रत्ययनियमफलं तु ब्राहृआणं हन्ति ब्राहृहेत्यादिप्रयोगाऽभावः ।भूते क्विबेवे॑ति कालनियमेऽपि ब्राहृआदिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव, — पितृव्यं हतवान् पितृव्यघाती । इहकर्मणि हनः॑ इति भूते णिनिः । कालनियमफलंतु ब्राहृआणं हतवान् ब्राहृघातीति प्रयोगाऽभावः । सोपपदश्च प्रत्ययो नियमेन व्यावर्त्त्यते, निष्ठा तु भवत्येव वृत्रं हतवानिति । भाष्यकारस्तु प्रकृतिकालनियमावेवाऽशिश्रियत् । तस्यायमाशयः — धातुकालौ हि नेह सूत्रे श्रुतौ, किं तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थितौ । अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्ययोः, श्रुत्युपस्थापितत्वात् । एवं न्यायोपष्टब्धेन भाष्येण सह विरोधाद्वृत्तिमतमुपेक्ष्यमेवेति कैयटे स्थितम् । यत्त्विह हरदत्तेनोक्तं — धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति,तत्र धातुकालविषयमिति वक्तव्ये उपपदग्रहमं प्रामादिकमित्यवधेयम् ।
Padamanjari¶
ब्रह्मभ्रूमवृत्रेषु क्विप्॥
Nyaas¶
ब्राहृहः`इति। पूर्ववद्दीर्घत्वम्।`सर्वधातुभ्यः क्विब्विहित एव इति। क्विप् च (3.2.76) इत्यनेन। चतुर्विधश्चात्र नियमः इति। धातुनियः, उपपदनियमः, प्रत्ययनियमः, कालनियमः। चकारोऽवधारणे - चतुर्विध एव। ब्राहृआदिष्वेव हन्तेर्नान्यस्मिन्नुपपदे`इति धातुनियमं दर्शयति। अत एव यतएवकारकरणं ततोऽन्यत्रावधारणमिति। उपपदेभ्यः पर एवकारः प्रयुज्यमानो हन्त नियमयति। प्रायिकश्चायं नियमः, क्वचिदन्यस्मिन्नुपपदे दृश्यते - मधुहेतु। प्रायिकत्वञ्च तस्य वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते। `ब्राहृआदिषु हन्तेरेव नान्यस्मात् इति उपपदनियमः। अत्र हि हन्तेः एकारः श्रूयमाण उपपदं नियमयति - ब्राहृआदिषु हन्तेर्भूते क्विबेव। नान्यः प्रत्ययः इति कालनियमः। ब्राहृआद्युपपदे हन्तेः क्विपि विहिते भूतकालस्य नियमितत्वात्। यदि ब्राहृआदिषु क्विबेव नान्यः प्रत्ययः इति, तदा निष्ठापि न प्राप्नोति - ब्राहृआणं हतवानिति? नैष दोषः; मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्`(व्या।प।10) इत्यणादय एव बाध्यन्ते, न निष्ठा। एवमपीह वृत्रस्याहन्तुरिति तृज् न प्राप्नोति? प्रायिकत्वान्नियमस्य न दोषः। `तथा भूतकाल एव नान्यस्मिन् इति प्रत्ययनियमः, भूतकाले प्रत्ययो नियम्यत इति कृत्वा। कथं पुनरेकदा चत्वारो नियमा लभ्यन्त इत्याह - `तदेतत्ित्यादि। बहुलं छन्दसि (7.4.78) इति वक्ष्यमाणं बहुलग्रहणं पुरस्तादपकृव्यानेन योगेन सम्बध्यते - ब्राहृभ्रूणवृत्रेषु क्विब्बहुलमिति, तेनायं चतुर्विधो नियमो लभ्यते॥
Prakriyasarvasvam¶
एषूपपदेषु हनेर्भूते क्विबेव । अत्रैवकारश्चतुर्धा योज्यः । ब्रह्माणं हतवान् ब्रह्महा इत्यादि । कंसहेत्यादौ तु भूतकालाविवक्षया ‘क्विप् च’ (३-२-७६) इति क्विप् ।
Sutra Prayogas¶
वृत्रहा (रघुवंशम्): ब्रह्मभ्रूणवृत्रेषु क्विप् इति क्विप्।
वृत्रहणं (कुमारसम्भवम्): ब्रह्मभ्रूणवृत्रेषु क्विप् इति क्विप्।
वार्त्रघ्न (किरातार्जुनीयम्): ब्रह्मभ्रूणवृत्रेषु क्विप् इति वृत्रहन्-शब्दसिद्धिः।