32079: कर्तर्युपमाने¶
Padacheda: कर्तरि | S | 7 | 1 |
उपमाने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णिनि comes after a verb when in composition with a word denoting an object of comparison, expressing the agent, the sense of the affix being ‘doing something like that’, that is to say, when the उपपद agent is the standard of comparison of the agent denoted by the word to which the sense of the affix refers.
Vasu English Translation¶
The affix णिनि comes after a verb when in composition with a word denoting an object of comparison, expressing the agent, the sense of the affix being ‘doing something like that’, that is to say, when the उपपद agent is the standard of comparison of the agent denoted by the word to which the sense of the affix refers. Thus उष्ट्र इव क्रोशति = उष्ट्रक्रोशिन् ‘who makes a noise like a camel’; ध्वाङ्क्षराविन् ‘who makes a noise like a crow’.
This sutra applies where ‘habit’ is not indicated : or where ‘genus’ is denoted in opposition to the last aphorism.
Why do we say ‘when expressing the agent’? Witness as अपूपानिव भक्षयति माषान् ‘he eats masha like apupa’. Here अपूपा is object and not agent, and hence no composition takes place.
Why do we say ‘denoting a standard of comparison’? Otherwise there will be no composition. As उष्ट्रः क्रोशति ‘the camel makes noise’. For the accents of these words, see (6.2.80).
Kashika¶
कर्तृवाचिन्युपमान उपपदे धातोर्णिनिप्रत्ययो भवति। उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम्। उष्ट्र इव क्रोशति उष्ट्रक्रोशी। ध्वाङ्क्षरावी। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा। कर्तरीति किम्? अपूपानिव भक्षयति माषान्। उपमान इति किम्? उष्ट्रः क्रोशति॥
Siddhanta Kaumudi¶
णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥
Balamanorama¶
कर्तर्युपमाने - कर्तर्युपमाने । कर्तुरुपमानमिति ।चे॑दित्यध्याहार्यम् । ननु ‘सुप्यजातौ’ इति सिद्धे किमर्थमिदमित्यत आह — अताच्छील्यार्थमिति ।
Padamanjari¶
कर्तर्युपमाने॥ उपमानस्योपेमेयापेक्षत्वात् कर्तरि च प्रत्ययविधानातस्यैवोपपदकर्तोपमानं विज्ञायेत इत्याह - उपपदकर्तेति। उष्ट्रक्रोशीति। इवशब्दो गतार्थत्वाद्वृतौ नैव प्रयुज्यते। समास उपमानानां शस्त्रीश्यामादिके यथा॥
Nyaas¶
धातोः कर्तरि प्रत्ययविधानात् तस्यैवोपपदकर्तोपमानं विज्ञायत इत्याह - उपपदकर्ता`इत्यादि। उपपदवाच्यः कत्र्रा = उपपदकर्ता, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। `उष्ट्रक्रोशी इति। क्रुश आह्वाने रोदने च`च(धातुपाठः-856)। `ध्वाङक्षरावी इति।रु शब्दे (धातुपाठः-1034)। अताच्छील्यार्थ आरम्भजात्यर्थो वेति; ताच्छील्येऽजातौ च पूर्वेणैव सिद्धत्वात्।भक्षयति इति। भक्ष अदने (धातुपाठः-1557) चौरादिकः॥
Prakriyasarvasvam¶
उपमानभूते कर्तरि पूर्वे धातोर्णिनिः स्यात् । गज इव गच्छन् गजगामी ।
Sutra Prayogas¶
द्विरदगामिना (रघुवंशम्): कर्तर्युपमाने इति णिनिः।
जलदनादि (किरातार्जुनीयम्): कर्तर्युपमाने इति णिनिः।
भिन्नसिताभ्रपातिभिः (किरातार्जुनीयम्): कर्तर्युपमाने इति णिनिप्रत्ययः।
अधोमुखाकाशसरिन्निपातिनीः (किरातार्जुनीयम्): कर्तर्युपमाने इति णिनिः।
वृषनादिनो (शिशुपालवधम्): कर्तर्युपमाने इति णिनिः।
मनो-यायी (भट्टिकाव्यम्): कर्तर्युपमाने इति णिनिः।
सिंह-नर्दिना (भट्टिकाव्यम्): कर्तर्युपमाने इति णिनिः।
नादी (भट्टिकाव्यम्): तद्वन्नदतीति कर्तर्युपमाने इति णिनिः।
अशुभ-शंसिनः (भट्टिकाव्यम्): कर्तरि इति णिनिः।
बान्धवाऽऽक्रोशिनो (भट्टिकाव्यम्): कर्तर्युपमाने इति णिनिः।