32078: सुप्यजातौ णिनिस्ताच्छील्ये

Padacheda: सुपि | S | 7 | 1 |

अजातौ | S | 7 | 1 |

णिनिः | S | 1 | 1 |

ताच्छील्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

When habit is to be expressed, the affix णिनि comes after a verb, provided the word with a case-affix in composition with it does not mean a genus.

Vasu English Translation

When habit is to be expressed, the affix णिनि comes after a verb, provided the word with a case-affix in composition with it does not mean a genus. Thus उष्ण + भुज् + णिनि = उष्णभोजिन्, 1st. sing. उष्णभोजी ‘who eats his meal hot’. So also शीतभोजी &c.

Why do we say ‘when it does not mean a genus’? Witness ब्राह्मणानामन्त्रयिता ‘the inviter of Brahmanas’. We cannot form ब्राह्मणानामन्त्रयी

Why do we say ‘when habit is to be expressed’? Witness उष्णं भुङ्क्ते कदाचित् ‘he sometimes eats hot’.

Though the anuvritti of the word ‘supi’ was understood in this aphorism, its repetition here declares that upasargas are not included. This is contested by the author of the Siddhanta Kaumudi. According to him this affix comes even with upasargas. As अनुनायित्, अनुजीविन्, उपजीविन् &c.

Vart:- The verb आसृ in composition with the prepositions उत् or प्रति should be enumerated as taking this affix. As उदासारिन्, fem. उदासारिणी, 1st. plural उदासारिण्यः. So also प्रत्यासारिणी, pl. प्रत्यासारिण्यः ।

Vart:- So also when the sense is ‘having skill in such and such action’. As साधुकारी ‘excellent worker’; साधुदायी ‘giving liberally’.

Vart:- So also after the verb वद preceded by ब्रह्म. As ब्रह्मवादिन्, in ब्रह्मवादिनो वदन्ति ‘the knowers of Brahma say’.

Bhashya

सुप्यजातौ णिनिस्ताच्छील्ये (845) (500 णिनिप्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आदृ 28) (आक्षेपभाष्यम्) सुपीति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्?। (समाधानभाष्यम्) अनुपसर्ग इत्येवं तदभूत्। इदं सुम्मात्रे यथा स्यात् - उदासारिण्यः प्रत्यासारिण्य इति॥ (2062 वार्तिकम्॥ 1 ॥) - णिन्विधौ साधुकारिण्युपसंख्यानम्- (भाष्यम्) णिन्विधौ साधुकारिण्युपसंख्यानं कर्तव्यम्। साधुकारी साधुदायी॥ (2063 वार्तिकम्॥ 2 ॥) - ब्रह्मणि वदः- (भाष्यम्) ब्रह्मणि वद उपसंख्यानं कर्तव्यम्। ब्रह्मवादिनो वदन्ति॥ सुप्यजा॥ 78 ॥

Kashika

अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोर्णिनिः प्रत्ययो भवति। उष्णभोजी। शीतभोजी। अजाताविति किम्? ब्राह्मणानामन्त्रयिता। ताच्छील्य इति किम्? उष्णं भुङ्क्ते कदाचित्। सुपीति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम्॥ उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम्॥ उदासारिण्यः। प्रत्यासारिण्यः॥ साधुकारिणि च॥ साधुकारी। साधुदायी॥ ब्रह्मणि वदः॥ ब्॒रह्म॒वा॒दिनो॑ वदन्ति (तै०सं० २.५.४.१)॥

Siddhanta Kaumudi

अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानाममन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ।<!साधुकारिण्युपसंख्यानम् !> (वार्तिकम्) ।<!ब्रह्मणि वदः !> (वार्तिकम्) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥

Laghu Siddhanta Kaumudi

अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

Balamanorama

सुप्यजातौ णिनिस्ताच्छिल्ये - सुप्यजातौ । ‘सुपि स्थः’ इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम् । अन्यथा ‘आतोऽनुपसर्गे’ इत्यतोऽनुपसर्गे इत्यनुवर्तेत । तद्ध्वनयन्नुदाहरति — उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः । उत्प्रतिभ्यामिति । उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः । उदासारिणी प्रत्यासारिणीत्युदाहरणम् । भाष्यविरोधादिति । सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाहृतत्वादिति भावः । तथा चउत्प्रतिभ्यामाङि सर्ते॑रिति वचं नादर्तव्यम् । भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः । अत एव ‘अनुगादिनष्ठ’ गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् ।उपसर्गभिन्न एव सुपि णिनि॑रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु — — प्रसिद्धश्चोपसर्गेऽपि णिनिरिति ।इत्यादा॑वित्यत्रान्वयः । साधुकारिणीति । कृञ्ग्रहणं सर्वधातूपलक्षणम् । साधुकारीत्यात्युदाहरणात् । ब्राहृणि वद इति ।णिनेरुपसङ्ख्यान॑मिति शेषः ।णिनेरुपसङ्ख्यान॑मिति शेषः । ननु ‘सुप्यजातौ’ इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह — अताच्छील्यार्थमिति । साधुदायीति । आतो युक् । ब्राहृवादीति । ब्राहृ - वेदः ।

Tattvabodhini

सुप्यजातौ णिनिस्ताच्छिल्ये - उष्णभोजीति । उष्णं भोक्तुं शीलमस्य । आमन्त्रयितेति । मत्रि गुप्तपरिभाषणे, चुरादिराङ्पूर्वः । इदित्त्वान्नुम्, ताच्छील्यस्य विवक्षितत्वातृन् । अतएवन लोके॑ति निषेधात्ब्राआहृणा॑नित्यत्र कर्मणि षष्ठी न कृता । उपसर्गभिन्न एवेति ।सत्सूद्विषे॑ति सूत्रेउपसर्गेऽपी॑त्युक्तत्वादुपसर्गभिन्नस्यैव सुपो लाभायाऽस्मिन्सूत्रे पुनः सुब्ग्रहणं कृतमिति भावः । भाष्यविरोधादिति । उक्तं च भाष्ये — सुबिति वर्तमाने पुनः सुब्गर्हणं किमर्थमनुपसर्ग इत्यव तदभूत्, इदं तु सुब्मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य॑ इति । अस्यायमाशयः -सत्सूद्विषे॑ ति सूत्रेसुपि स्थः॑ इत्यतः सुपीत्यनुवर्तते, तच्चौपसर्गेतरपरम्, उपसर्गेऽपीति पृथगुक्तेः । तदिहानुवर्तमानमर्थाधिकारादुपसर्गेतरपरमेव स्यादिति । निष्कर्षे तु मा भूदिह सुब्वचनग्रहणम्, उपसर्गेऽपीत्यं शस्याप्यनुवृत्त्या निर्वाहात् । सर्वथापि सुब्मात्रे उपपदे णिनिर्नत्वनुपसर्ग एवेति सिद्धान्तः । एतच्च प्रायुङ्क्त — लिङ्गशेषविधिव्र्यापी विशेषैर्यद्यबाधितः॑ इ [ ती] ति दिक् । * साधुकारिण्युपसङ्ख्यानम् । साधुकारिणीति । एतच्च ज्ञापकसिद्धम् ।आ क्वे॑रिति सूत्रे हि तच्चीलात्पृथक् साधुकारी गृह्रते, तच्च ताच्छील्यं विनापि णिनौ सत्येव सङ्गच्छते । * ब्राहृणि वदः । ब्राहृणि वद इति । इदं तु वाचनिकमेव । अताच्छील्यार्थमिति । एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम् । यत्तु भट्टवार्तिके ब्राहृवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम् ।आ क्वे॑रित्यधिकारे तु ब्राहृणि वदेर्णिनिविधायकं वचनं नास्त्येवेति कथमिदं सङ्गच्छेतेति चेत्, अत्राहुः — भट्टापादानामयमाशयः — सुप्यजातौ॑ इति सूत्रेण ताच्छील्ये णिनिः । उपसङ्ख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः ।आवश्यकाधमण्र्ययोर्णिनि॑रित्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विहआ क्वेट रिति सूत्रस्य व्यापारोऽस्तीति । ननु ब्राहृवादिनो वदन्ति इत्यत्र ब्राहृ वेद इति ब्राहृशब्दस्यापि जातिवाचकत्वात्कथमिह ताच्छील्ये णिनिरिति समर्थनमितिचेत् । अत्र नव्याः — सुप्यजातौ॑ इत्यत्र प्राणिजातिरेव पर्युदस्यते, ताच्छील्यसमभिव्याहारात्,ब्राआहृणानामन्त्रयिते॑प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति ।

Padamanjari

सुप्यजातौ णिनिस्ताच्छील्ये॥ ब्राह्मणानामन्त्रयितेति। ताच्छील्यस्य विवक्षितत्वातृन् प्रत्युदाहृतः,’न लोकाव्यय’ इति षष्ठीप्रतिषेधः। उत्प्रतिभ्यामिति। पुनः सुब्ग्रहणस्योपसर्गनिवृत्यर्थत्वादयमारम्भः। साधुकारिणि चेति। अताच्छील्यार्थमिदम्, तच्चैतज्ज्ञापकात्सिद्धं यदयम् ठाक्वेस्तच्छीलऽ इत्यत्र तच्छीलेत्यभिधाय साधुकारिग्रहणं करोति, तज्ज्ञापयति - साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। ब्रह्मणि वद इति। ब्रह्मौवेदः। इदमप्यताच्छील्यार्थम्॥

Nyaas

ब्राआहृणानामन्त्रयिता इति। मत्रि गुप्तभाषणे (धातुपाठः-1679), इदितो नुम् धातोः (7.1.58) इति नुम्, चुरादिणिच्, ततः तृन् (3.2.135) इति ताच्छीलिकस्तृन्। सुपि इत्यादि। ननु च सुपि (3.2.4) इत्यनुवर्तमाने पुनः सुब्ग्रहणमनर्थकम्?नानर्थकम्; पूर्वकं हि सुब्ग्रहणमुपसर्गेण सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। अत उपसर्गनिवृत्त्यर्थं पुनः सुब्ग्रहणं क्रियते। उत्प्रतिभ्याम् इत्यादि। सुब्ग्रहणस्य चोपसर्गनिवृत्त्यर्थ्तवादुपसर्गे न प्राप्नोतीति वचनम्। उत्प्रतिभ्यां परो य आङ,तस्मिन्नुपपदे सर्तेर्धातोरुपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - अन्येभ्योऽपि दृश्यन्ते (3.2.75) इत्यतोऽत्रापिशब्दः सर्वोपाधिव्यभिचारार्थोऽनुवर्तते, तेन उदासारिण्यः`इत्यत्रोपसर्गे णिनिर्भवति।`साधुकारिणि च`इति। अताच्छील्यार्थ आरम्भः। चकारेणोपसंख्यानमित्यनुकृष्यते, तस्य प्रतिपादनमेवार्थः। प्रतिपादनं तु - पूर्ववदपिशब्दं सर्वोपाधिव्यभिचारार्थमाश्रित्य कर्तव्यम्। अथ वा - यदयम् `तच्छीलतद्धर्मत्साधुकारिषु (3.2.134) इति तच्छीलेत्यभिधाय तत्साधुकारिग्रहणं करोरति,तज्ज्ञापयति - साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। ब्राहृणि वदः इति। अयमप्यताच्छील्यार्थ आरम्भः, जात्यर्थो वा। ताच्छील्येऽजातौ पूर्वेणैव सिद्धत्वात् वाऽसरूपनिवृत्त्यर्थो न हि भवति। ब्राहृआणं वदित `ब्राहृवादी`इति। णिनेर्णकारो वृद्ध्यर्थः। द्वितीय इकारो नकारस्येत्संज्ञापरित्राणार्थः॥

Prakriyasarvasvam

अजातावनुपसर्गे सुबन्ते पूर्वे ताच्छील्येऽर्थे धातोर्णिनिः स्यात् । हरिसेवी मन्दगामी । जातौ तु न । विप्रानामन्त्रयिता । उपसर्गमात्रेऽपि न । प्रसेविता । ‘उत्प्रतिभ्यामाङि सतेः’ (वा० ३-२-७८) । उदासारी । प्रत्यासारी । ‘साधुपूर्वात्तच्छीलेऽपि’ (वा० ३-२-७८) । साधुकारी । साधुदायी । ‘ब्रह्मणि वदः’ (वा० ३-२-७८) । अतच्छीलेऽपि । ब्रह्मवादी । पुत्रानत्तुं शीलवतीति णिनौ ।

Vartika

साधुकारिणि च ।

Sutra Prayogas

  • द्विरदगामिना (रघुवंशम्): सुप्यजातौ इति णिनिः।

  • विद्रुतक्रतुमृगानुसारिणं (रघुवंशम्): सुप्यजातौ णिनिस्ताच्छील्ये इति ताच्छील्ये णिनिप्रत्ययः।

  • चतुरस्रशोभि (कुमारसम्भवम्): सुप्यजातौ णिनिस्ताच्छील्ये इति ताच्छील्ये णिनिः।

  • सुताऽनुबन्धम् (भट्टिकाव्यम्): सुप्यजातौ णिनिः इति केवलस्योपसर्गस्य निवृत्त्यर्थं द्रष्टव्यम् ।

  • ख-विचारिणः (भट्टिकाव्यम्): सुप्यजातौ इति णिनिः।

  • पिपासा-वध-काङ्क्षिणः (भट्टिकाव्यम्): सुप्यजातौ णिनिः इति साधुकारिणि वा।