32080: व्रते

Padacheda: व्रते | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix णिनि comes after a verb, in composition with a word ending in a case-affix.

Vasu English Translation

The affix णिनि comes after a verb, in composition with a word ending in a case-affix. The word व्रत means a ‘vow’ as regulated and ordained by the Scriptures. This condition ‘when vow is expressed’ applies to the completed word, that is to say, when the complete word made up of the root, the upapada, and the affix, denotes a vow. As स्थण्डिलशायिन् ‘the vow of sleeping on bare ground (and nowhere else) or a person who has taken this vow’. अश्राद्धभोजिन् ‘who has vowed not to eat during the performance of a Sraddha ceremony.

Why do we say ‘when vow is to be expressed’? Otherwise there is no composition. As स्थण्डिले शेते देवदत्तः ‘Devadatta sleeps on bare ground’.

This sutra is also an exception to (3.2.78) applicable when habit is not meant, or when genus is to be expressed.

Bhashya

व्रते (847) (501 णिनिप्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आदृ 29) (प्रश्नभाष्यम्) किमुदाहरणम्?। (समाधानभाष्यम्) अश्राद्धभोजी॥ (आक्षेपभाष्यम्) किं योऽश्राद्धं भुङ्क्ते सोश्राद्धभोजी?॥ किं चातः?। यदासावश्राद्धं न भुङ्क्ते तदास्य व्रतलोपः स्यात्। तद्यथा स्थण्डिलस्थायी यदा स्थण्डिले न तिष्ठति तदास्य व्रतलोपो भवति॥ (पर्युदासेन समाधानभाष्यम्) एवं तर्हि णिन्यन्तेन समासो भविष्यति। न श्राद्धभोज्यश्राद्धभोजीति॥ (समाधानबाधकभाष्यम्) नैवं शक्यम्। स्वरे हि दोषः स्यात्। अश्राद्धभोजीत्येवं स्वरः प्रसज्येत। अश्राद्धभोजीत्येवं चेष्यते॥ (प्रतिसज्यप्रतिषेधाङ्गीकारभाष्यम्) एवं तर्हि नञ्ञ एवायं भुजिप्रतिषेधवाचिनः श्राद्धशब्देनासमर्थसमर्थसमासः - न भोजी श्राद्धस्येति॥ (प्रसज्यप्रतिषेधे गौरवभाष्यम्) स तर्ह्यसमर्थसमासो वक्तव्यः॥ (इष्टापत्तिभाष्यम्) यद्यपि वक्तव्यः। अथ वै तर्हि बहूनि प्रयोजनानि॥ कानि?। असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मणः। सुडनपुंसकस्येति॥ व्रते॥ 80 ॥

Kashika

व्रत इति शास्त्रतो नियम उच्यते। व्रते गम्यमाने सुबन्त उपपदे धातोर्णिनिः प्रत्ययो भवति। समुदायोपाधिश्चायम्, धातूपपदप्रत्ययसमुदायेन व्रतं गम्यते। स्थण्डिलशायी। अश्राद्धभोजी। कामचारप्राप्तौ नियमः। सति शयने स्थण्डिल एव शेते नान्यत्र, सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति। व्रत इति किम्? स्थण्डिले शेते देवदत्तः। अताच्छील्यार्थ आरम्भः, जात्यर्थो वा॥

Siddhanta Kaumudi

णिनिः स्यात् । स्थण्डिलशायी ॥

Padamanjari

व्रते॥ समुदायोपाधिश्चायमिति। न प्रत्ययार्थविशेषणम्। तथा हि सति व्रत एव कर्तरि प्रत्ययः स्यान्न तद्वतीति भावः। समुदायोपाधित्वमेव स्पष्टयति - धातूपपदेत्यादि। कामचारःउइच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः, स च द्विविधः सम्भवति - स्थण्डिले शेते एव अश्राद्धं भुङ्क्ते एवेत्येवंरूपो वा। तत्र पूर्वके नियमे यदैवासावशक्त्यादिनाऽश्राद्धं न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। न चैवंविधं शास्त्रमस्ति - स्थण्डिले शयितव्यमेव, अश्राद्धं भोक्तव्यमेवेति। अस्ति तु स्थण्डिल एव शयितव्यम्, अश्राद्धमेव भोक्तव्यमिति।’व्रते’ इति तु शास्त्रितो नियमाः - इत्युक्तम्, तस्माद् द्वितीयो नियमो विज्ञायत इत्याह - सति शयन इत्यादि॥

Nyaas

समुदायोपाधिश्चायम् इति। प्रत्ययार्थविशेषणशङ्कां निराकरोति। प्रत्ययार्थविशेषणे हि तस्मिन् व्रत एव कर्तरि प्रत्ययः प्रसज्येत,न तद्वति देवदत्ते। धातूपपद इत्यादिना समुदायोपाधित्वं व्रतस्य दर्शयति। `कामचारप्राप्तौ नियमः`इति। कामचारः = इच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः। अनियमत्वाद्यथेष्टं सामान्येन शयने भोजने च प्रवृत्तौ प्राप्तायामयमर्थान्तराद्वयावर्त्त्यविशेषे स्थण्डिलादौ न प्राप्नोति, तस्माद्वयवस्थाप्यते। नियमश्चात्र द्विविधः सम्भवति - स्थण्डिले शेत एवाश्राद्धं भुङक्तं एवेत्येयंरूपो वा स्यात्, स्थण्डिल एव शेतेऽश्राद्धमेव भुङ्क्ते इत्येवंरूपो वा,तत्र पूर्वके नियमे यदैव स्थण्डिले न शेतेऽश्राद्धञ्च न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। तस्माद् द्वितीयो नियमो युक्त इति मन्यमान आह - `सति शयने`इत्यादि॥

Prakriyasarvasvam

व्रते द्योत्ये धातोर्णिनिः । स्थण्डिलशयनं व्रतत्वेन कुर्वन् स्थण्डिलशायी ।

Sutra Prayogas

  • वन-वर्तिनः (भट्टिकाव्यम्): व्रते इति णिनिः।

  • तरु-स्थल-शायिनी (भट्टिकाव्यम्): तेन व्रते इति णिनिः।