32077: स्थः क च¶
Padacheda: स्थः | S | 5 | 1 |
क | S | | | 1
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affixes क and क्विप् come after the verb स्था when in composition with a word ending in a case-affix or an उपसर्ग ।
Vasu English Translation¶
The affixes क and क्विप् come after the verb स्था when in composition with a word ending in a case-affix or an उपसर्ग । Why has this aphorism been made, when by rule (3.1.4), स्था would have taken क and by rule (3.1.75), it would have taken क्विप् also? This repetition is for the purpose of prohibiting the prohibition, that is to say, the sutra (3.2.14) prohibited the sutra (3.2.4), and the present sutra removes that prohibition. Thus शंस्थः and शंस्थाः । But for this sutra, this form could not have been evolved; for, with the upapada शम्, the verb स्था would have taken the affix अच् by (3.2.14).
Bhashya¶
स्थः क च (744) (499 कक्विप्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आदृ 27) (प्रश्नभाष्यम्) किमर्थं स्थः कक्विपावुच्येते। नु क्विप्सिद्धः अन्येभ्योपि दृश्यते इति, कश्च आतोऽनुपसर्गे कः इति?॥ (उत्तरभाष्यम्) न सिध्यति। विशेषविहितः कः सामान्यविहितं क्विपं बाधेत॥ (अन्यथासिद्धिभाष्यम्) वासरूपेण क्विबपि भविष्यति॥ (अनन्यथासिद्धप्रयोजनभाष्यम्) इदं तर्हि शंस्थः शंस्थाः॥ (अन्यथासिद्धभाष्यम्) उक्तमेतत् - शमिसंज्ञायां धातुग्रहणं कृञ्ञो हेत्वादिषु टप्रतिषेधार्थम् इति। स यथैवाच् टं बाधते। एवं कक्विपावपि बाधेत॥ स्थः क च॥ 77 ॥
Kashika¶
सुप्युपसर्गेऽपीति च वर्तते। स्था इत्येतस्माद् धातोः सुप्युपपदे कप्रत्ययो भवति, क्विप् च। किमर्थमिदमुच्यते, यावता सुपि स्थः (३.२.४) इति कः सिद्ध एव, अन्येभ्योऽपि दृश्यते (३.२.१७८) इति क्विप् ? बाधकबाधनार्थं पुनर्वचनम्। शमि धातोःसंज्ञायाम् (३.२.१४) अचं बाधते — शंस्थः। शंस्थाः॥
Siddhanta Kaumudi¶
चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः - (SK2928) इत्यचं बाधितुं सूत्रम् ॥
Balamanorama¶
स्थः क च - स्थः क च ।के॑त्यविभक्तिकम् । स्थ इति पञ्यम्यन्तम् ।चात् क्विबिति । उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम् । शंस्थ इति । शमित्यव्ययं सुखे । तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः । शंस्था इति, - क्विपि रूपम् ।सुखं स्थापयतीत्यर्थः । तिष्टितरन्तर्भावितण्यर्थः ।शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्चघुमास्थे॑ति ईत्त्वं न । केचित्तुक चे॑ति चकाराद्विजेवानुकृष्यते इत्याहुः । ननु ‘सुपि स्थः’ इति कप्रत्ययेक्विप् चे॑ति क्विपि च सिद्धे किमर्थमिदमित्यत आह — शमिधातोरित्यचमिति । अन्यथा धातुग्रहणसामर्थ्यात्कृञो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः ।
Tattvabodhini¶
स्थः क च - स्थः क च । शंस्था इति । क्विपि लुप्तेघुमास्थे॑ ति ईत्वं न, स्थानिवद्भावस्य अनल्विधादिति निषेधात् । प्रत्ययलक्षणसूत्रं तु प्रत्ययस्याऽसाधारणं रूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात् । यत्तु कैयटेनोक्तम् — ईत्वमवकरादावादविति वचनाद्भाष्यकारीयोदाहणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं ने॑ति, तत्अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्र॑मिति पक्षमभिप्रेत्य । तत्राप्यवकारादाविति वचनस्वीकारे सुधीवेति न सिध्येदित्यपरितोषेण पक्षान्तरस्वीकार इति बोद्ध्यम् । ननुनियमार्थ॑मिति निष्कर्ष पक्षे तु प्रागुक्तं मत्रशीरित्यत्र कथमित्त्वं भवेदिति चेत् । अत्राहुः — शास इदिति । ततः — अङि । नियमार्थमिदम् । अजादौ चेदित्त्वं स्यादडएव नान्यत्रेति हल्ग्रहणं मास्त्विति ज्ञेयमिति । नचैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकर्य इति वाच्यम्,उतो वृद्धि॑रिति सूत्राद्धल्ग्रहणमनुवर्त्त्य तृणहानीत्यत्राऽनिष्टवारणायनाभ्यस्तस्याची॑ति सूत्रादचि नेत्यनुवर्त्त्य व्याख्यानात् । एतच्च रुधादिगण एव व्याख्याताम् । स्यादेतत् — सुपि स्थः॑क्विप् चे॑ति सूत्राभ्यां कक्विपौ सिद्धौ । शमीत्यादि । धातुग्रहणसामर्थ्याद्धिधातुमात्राद्भवन्नच्प्रत्ययो हेत्वादिषु कृञष्टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेतेतिस्थः क चे॑त्यारम्भ इति भावः । नन्वेवंशमि धातो॑रित्यस्याऽनन्तरंस्थः क चे॑ति सूत्र्यतां, चकारेणाऽचि समुच्चिते सवर्णदीर्घे शंस्था इति भविष्यत, एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुद्धरपि लभ्यते, इत्त्वाऽभावार्थं चन यतनीयमिति महल्लाघवमिति चेत् । अत्राहुः — अशं स्था इत्यत्रअच्कावशक्तौ॑ इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात् ।कृद्ग्रहणे गतिकारकपूर्वस्यापी॑ति शंस्थाशब्दस्याजन्तत्वात् । क्विबन्तेन नञ्समासे नञ्पूर्वपदप्रकृतिस्वरः सिध्यतीति ।
Padamanjari¶
स्थः क च॥ केत्यविभक्तिको निर्देशः। अन्येभ्योऽपि द्दश्यत इति। क्विबिति सिद्ध एवेत्यपेक्षते। ननु तच्छीलादिग्रहणं तत्रानुवर्तते, तस्मात्’क्विप् च’ इति क्विप् सिद्ध एवेति वक्तव्यम्। यद्वा तच्छीलादिग्रहणं तत्र न सम्बन्धनीयमिति मन्यते। नन्वेवमपि’सुपि स्थः’ इति विशेषविहितः कः सामान्यविहितं क्विपं बाधेत? वाऽसरूपविधिना सोऽपि भविष्यति। शमि धातोः संज्ञायामचम् बाधत इति। अन्यथा यथा कृञो हेत्वादिषु ट्ंअ बाधते धातुग्रहणातथा तिष्ठतेरपि कक्विपौ बाधेत, अतस्तमप्यचं बाधित्वा कक्विपावेव यथा स्यातामिति पुनर्वचनमित्यर्थः। शंस्था इति। क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थादिसूत्रेणेत्वमत्र प्राप्नोति, भाष्यकारप्रयोगातु न भवति। केचितु - ईत्वमवकारादाविति वचनं पठन्ति, तेषां सुपीवा सुधीवा, अत्रापि न स्यात्॥
Nyaas¶
बाधकबाधनार्थम् इत्यादि। कक्विपोर्बाधकोऽच्, तस्यापि बाधनार्थम्। अचस्तु बाधकत्वं शमि धातोः संज्ञायाम् (3.2.14) इत्यत्र धातुग्रहणम्। तद्धि यतोऽपवादो विहितस्ततोऽपि शम्युपपदे संज्ञायामजेव यथा स्यादित्येवमर्थं कृतम्। एवञ्च स्थः क च इत्येतद्यदि नोच्येत, ततो यथा कृञो हेत्वादिषु टप्रतिषेधार्थं धातुग्रहणं तथा तिष्ठतेरपि कक्विपोर्बाधनार्थं विज्ञायते। तथा च सति शम्युपपदे संज्ञायां तिष्ठतेरजेव स्यात्, न कक्विपौ। अस्मस्तु योगे सत्यचं बाधित्वोभावेव भवतः। शंस्थः इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः॥
Prakriyasarvasvam¶
चकारात् क्विप् । <karika>शमिपूर्वात् सर्वधातोर्नाम्न्यजेवेति निर्णयात् । स्थस्त्वेतौ कक्विपावेव तत्रेत्यर्थादिहोच्यते ॥ ९४ ॥</karika> सुखे तिष्ठतीति शंस्थः । शंस्थाश्च कश्चित् ।