32076: क्विप् च¶
Padacheda: क्विप् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the affix क्विप् is also seen after all verbs, whether having an उपपद or not in the Vedic as well as in the modern Sanskrit.
Vasu English Translation¶
And the affix क्विप् is also seen after all verbs, whether having an उपपद or not in the Vedic as well as in the modern Sanskrit. As उखायाः स्रंसते = उखास्रत् (6.4.24) ‘falling from the pot’; पर्णध्वत् ‘falling from the leaves’; वाहाद् भ्रश्यति = वाहाभ्रश्,1st. sing. वाहाभ्रट् ‘falling from a car’. The हा is long by (6.3.137). See Rig. Ved. I.3.8).
Kashika¶
सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। उखायाः स्रंसते उखास्रत्। पर्णध्वत्। वाहाद् भ्रश्यति वाहाभ्रट्। अन्येषामपि दृश्यते (६.३.१३७) इति दीर्घः॥
Siddhanta Kaumudi¶
अयमपि दृश्यते । सत्सूद्विष - (SK2975) इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥
Laghu Siddhanta Kaumudi¶
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। वाहभ्रट्॥
Balamanorama¶
क्विप् च - क्विप् च । अयमपीति । सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धेसत्सूद्विषे॑ति सूत्रं व्यर्थमित्यत आह — सत्सूद्विषेति ।सत्सूद्विषे॑ति सूत्रं तुक्विप् चे॑त्यस्यैव प्रपञ्च इत्यर्थः । उखारुआदिति । उखायाः रुआंसत इति विग्रहः । रुआंसेः क्विप्,अनिदिता॑मिति नलोपः, ‘वसुरुआंसु’ इति दत्वम् । एवं पर्णध्वत् । पर्णात् द्वंसत इति विग्रहः । वाहभ्रडिति । वाहात् भ्रश्यतीति विग्रहः । व्रश्चादिना षः ।
Tattvabodhini¶
क्विप् च - वाहभ्रडिति । वाहादआआद्भ्रश्यतीति विग्रहः । वृत्तौ तु वहाभ्रडिति पाठः । वहः = स्कन्धः,अन्येषामपि दृश्यते॑ इति पूर्वपदान्तस्य दीर्घ इति हरदत्तः ।
Padamanjari¶
क्विप् च॥ निरुपपदेभ्यश्चेति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थश्यानुवृतेर्लभ्यते, न तु सुपीत्यस्य निवृतेः; उतरसूत्रे’सुप्युपसर्गे’ पीति वर्ततेऽ इति वक्ष्यमाणत्वात्,’च्छन्दसि भाषायाञ्च’ इति पूर्वसूत्र एव’च्छन्दसि’ इत्यस्य निवृतत्वात्। उखास्रदिति।’स्रंसु ध्वंसु भ्रंसु अवस्रंसने’ ,ठनिदिताम्ऽ इत्युपधालोपः,’वसुस्रंसु’ इत्यादिना दत्वम्। वाहभ्रडिति।’भ्रंशु अधः पतने’ ,व्रश्चादिना षत्वम्, ठन्येषामपि द्दश्यतेऽ इति दीर्घः। उखायाः स्रंसते पर्णानि, ध्वंसते, वाहाद् भ्रश्यतीति विग्रहः। ध्वंसिरन्तर्भावितण्यर्थः सकर्मकः। क्वचितु वृतावेव विग्रहवाक्यानि पठ।ल्न्ते॥
Nyaas¶
निरुपपदेत्रभ्यश्च इति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थस्यानुवृत्तेर्लभ्यते। उखारुआत्। प्रर्णध्वत् इति। रुआन्सु ध्वन्सु अवरुआन्सने (धा।पा754,755) , अनिदिताम् (6.4.24) इत्यादिनानुनासिकलोपः। वसुरुआन्सुध्वंस्वनडुहां दः (8.2.72) इति दत्वम्, वाऽडवसाने (8.4.55) इति चर्त्वम्। वाहाभ्रट् इति। भ्रन्शु अधः पतने (धातुपाठः-1225), व्रश्चादिसूत्रेण (8.2.36) षत्वम्, पूर्ववज्जश्त्वम्, चर्त्वम्, अन्येषामपि दृश्यते (6.3.137) इति दीर्घः॥
Prakriyasarvasvam¶
केवलेभ्यः सोपपदेभ्यश्च सर्वधातुभ्यः क्विप् स्यात् क्विन्वदस्य सर्वलोपः । कित्त्वादगुणः । पित्त्वात् तुक् । हृत् । प्रहृत् । पापहृत् । कंसलूः । त्यज् कुत्वचर्त्वे, त्यक् त्यजौ । पक् पचौ । प्रविश् छ्शां षः । जश्त्वं डः । चत्वंम् । प्रविट्, प्रविशौ । द्रुह, पदत्वे, ‘वा द्रुह-’ (८-२-३३) इति घत्वम् । तदभावे हो ढः । द्रुघ् द्रुड् ।