32071: मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्

Padacheda: मन्त्रे | S | 7 | 1 |

श्वेतवह-उक्थशस्-पुरोडाशः | S | 5 | 1 |

ण्विन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In the मन्त्र literature,the affix णिवन् comes after the words 1. श्वेतवह 2.उक्थश 3. पुरोडाश् ।

Vasu English Translation

In the मन्त्र literature,the affix णिवन् comes after the words 1. श्वेतवह 2.उक्थश 3. पुरोडाश् । The above words contain both the verb and the upapada; the fact of their being so given indicates that there is some irregularity in the application of the affix.

Thus the affix ण्विन् comes after the verb वह् preceded by the upapada श्वेत as denoting an agent, while the force of the whole word so formed denotes an object. As श्वेता एनं वहन्ति = श्वेतवाह् nom. sing. श्वेतवाः ‘a name of Indra’ (whom white horses carry).

The affix ण्विन् is applied to the verb शंस् ‘to praise’ when preceded by the word उक्थ as object or instrument; and then the nasal is irregularly dropped. As उक्थानि उक्थैर्वा शंसति = उक्थशास्, nom. sing. उक्थशाः (Rig. Ved. II.39.1.) ‘a reciter of hymns, the name of the sacrificer’.

The ण्विन् is applied after the verb दाशृ ‘to give’, preceded by पुरो, and द is changed into ड, the force of the whole word denoting an object. As पुरो दाशन्ति एनं = पुरोडाश्, nom. sing. पुरोडाः (Rig. Ved. III.28.2) ‘an offering’.

Vart:–The augment उस् is added to the words श्वेतवाह् &c., when the pada affixes follow. Thus before pada terminations श्वेतवाह् becomes श्वेतवस् । Therefore its Instrumental dual is श्वेतवोभ्याम्, pl. श्वेतवोभिः ।

The augment उस् is not applied before सर्वनामस्थान and भ terminations. As श्वेतवाहौ, श्वेतवाहः ।

Bhashya

मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (838) (अथ ण्विन् प्रकरणम्) (498 ण्विन् प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आदृ 26) (2059 ण्विन् बाधकवार्तिकम्॥ 1 ॥) - श्वेतवहादीनां डस्- (भाष्यम्) श्वेतवहादीनां डस्वक्तव्यः॥ श्वेतवा इन्द्रः॥ (2060 पूर्वशेषवार्तिकम्॥ 2 ॥) - पदस्य च- (भाष्यम्) पदस्येति च वक्तव्यम्। इह मा भूत् - श्वेतवाहौ श्वेतवाह इति॥ (प्रयोजनप्रश्नभाष्यम्) किं प्रयोजनम्?॥ (2061 प्रयोजनवार्तिकम्॥ 3 ॥) - र्वर्थम्- (भाष्यम्) रुर्यथा स्यात्॥ (प्रयोजननिराकरणभाष्यम्) क्रियते र्वर्थे निपातनम् - अवयाः श्वेतवाः पुरोडाश्चेति। आतश्च र्वर्थम्। उक्थशः शब्दस्य सामान्येन रुः सिद्धः। न तस्य निपातनं क्रियते॥ (निपातनानावश्यकताभाष्यम्) तन्न वक्तव्यं भवति॥ (निपातनावश्यकताभाष्यम्) अवश्यं तद्वक्तव्यम्। दीर्घार्थम्॥ (निपातनावश्यकताभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धमत्र दीर्घत्वम् - अत्वसन्तस्य चाधातोरि ति॥ (निपातनावश्यकताभाष्यम्) यत्र तेन न सिध्यति तदर्थम्॥ क्व च तेन न सिध्यति?। संबुद्धौ - हेश्वेतवाः इति॥ (प्रश्नभाष्यम्) न तर्हीदानीं डस्वक्तव्यः॥ (समाधानभाष्यम्) वक्तव्यश्च। किं प्रयोजनम्?। उत्वार्थम्। श्वेतवोभ्यां श्वेतवोभिः॥ मन्त्रे श्वेत॥ 71 ॥

Kashika

श्वेतवह उक्थशस् पुरोडाश् इत्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये। धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम्। प्रत्ययस्तु विधीयत एव। श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन् प्रत्ययो भवति। श्वेता एनं वहन्ति श्वेतवा इन्द्रः। उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोर्णि्वन् प्रत्ययो भवति, नलोपश्च निपात्यते। उक्थानि शंसत्युक्थैर्वा शंसति उ॒क्थ॒शा (तु० — ऋ० ४.२.१६) यजमानः। दाशृ दाने इत्येतस्य पुरःपूर्वस्य डत्वम् , कर्मणि च प्रत्ययः। पुरो दाशन्त एनं पु॒रो॒डाः (ऋ०३.२८.२)॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम्॥ श्वेतवोभ्याम्। श्वेतवोभिः। पदस्येति किम् ? श्वेतवाहौ। श्वेतवाहः॥

Siddhanta Kaumudi

।<!श्वेतवहादीनां डस्पदस्येति वक्तव्यम् !> (वार्तिकम्) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥

Padamanjari

मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ एतेभ्य इति। श्वेतादिपूर्वेभ्यो वहादिभ्यो धातुभ्य इत्यर्थः। धातूपपदसमुदाया इति। किमर्थमित्याह - अलाक्षणिकेति।’श्वेतवाः’ इत्यादिषु ठवयाः श्वेतवाः पुरोडाश्चऽ इति निपातनाद्रुत्वम्। उक्थशा इति। नलोपे ठत उपधायाःऽ इति वृद्धिः, रुत्वम्। डस्पदस्येति। प्रत्येकमभिसम्बद्ध्यते, भाविपदत्वाश्रयेण चेदमुच्यते, यत्र डसन्तस्य पदत्वं भविष्यति तत्र ण्विनोऽपवादो डस्प्रत्ययो वक्तव्य इत्यर्थः। यद्येवम्, अनेन डसि कृते सौ ठत्वसन्तस्यऽ इति दीर्घे रुत्वे च श्वेतवा इत्यादि सिद्धम्, नार्थः ठवयाः श्वेतवाःऽ इति निपातनेन? एवं तर्हि सम्बुद्ध्यर्थ निपातनम् - हे श्वेतवा इन्द्रेति, ठत्वसन्तस्यऽ इत्यत्र हि ठसम्बुद्धौऽ इति वर्तते, डसपि वक्तव्यः। उत्वार्थम् - श्वेतवोभ्याम्, उक्थशोभ्यामिति। एवं चोक्यशा इत्यपि सम्बुद्ध्यर्थ निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्त्रि॥

Nyaas

एतेभ्यः इति। ओतव इत्येवमादिभ्यः प्रकृत्युपपदसमुदायेभ्यः। धातुपपदसमुदाया निपात्यन्ते इति। ओतवा इत्येवादयः। किं पुनः कारणं धातूपपदसमुदाया निपात्यन्ते, न पुनः पृथगेवोपपदानि धातवश्च निर्दिश्यन्ते? इत्याह - अलाक्षणिककार्यसिद्ध्यर्थम् इति। ओतवा इत्येवमादिषु अवयाः ओतवाः पुरोडाश्च इति रुत्वं निपात्यते। उक्थशाः`इति। **ससजुषो रुः** (8.2.66) इतिरुत्वमस्त्येव। `शंसतेः`इति। `{शंसु-धातुपाठः-} शन्स स्तुतौ (धातुपाठः-728) इत्यस्य। ण्विनौ नित्करणमाद्युदात्तार्थम्। णित्करणं वृद्ध्यर्थम्। इकारः वेरपृक्तस्य (6.1.67) इति विशेषणार्थः।ओतवाहादीनाम् इत्यादि। यदि तर्हीदमुच्यते, नार्थः `अवयाः ओतवाः पुरोडाश्च`इत्यनेन वचनेन, रुत्वार्थेन तस्य दीर्घत्वात्त? ननु च अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घत्वं सिद्धमेव? यत्र तर्हि तेन न सिध्यति तदर्थं यथा स्यात्। क्व पुनस्तेन न सिध्यति? सम्बुद्धौ। यदि तर्हि तदुच्यते तदा डस् न वक्तव्यः,तेनैव निपातनेन ओतवहादीनामसन्तता निपातयिष्यते? नैतदस्ति; सम्बुद्धौ दीर्घत्वं न स्यादित्युक्तम्। अथासन्तता निपातयिष्यत इति वक्तव्यम्, तथा च सति ओतवोभ्यामित्यत्रोत्वं स्यात्। तस्मात् डस् वक्तव्यः, निपातनमपि कर्तव्यम्॥

Vartika

श्वेतवहादीनां डस् पदस्येति वक्तव्यम् ।