32070: दुहः कब् घश्च¶
Padacheda: दुहः | S | 5 | 1 |
कप् | S | 1 | 1 |
घः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix कप् comes after the verb दुह् ‘to milk’ when in composition with a word ending in a case-affix and the letter घ replaces the final.
Vasu English Translation¶
The affix कप् comes after the verb दुह् ‘to milk’ when in composition with a word ending in a case-affix and the letter घ replaces the final. As कामदुघा धेनुः ‘a milch cow, giving abundance of milk’; so also अर्थदुघा, धर्मदुघा ।
Kashika¶
दुहेर्धातोः सुप्युपपदे कप् प्रत्ययो भवति, घकारश्चान्तादेशः। कामदुघा धेनुः। अर्घदुघा। घर्मदुघा॥
Siddhanta Kaumudi¶
कामदुघा ॥
Balamanorama¶
दुहः कब् घश्च - दुहः कुब्धश्च । सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ- । कामदुघेति ।धेनु॑रिति शेषः । कामम् = अपेक्षितं दुग्धे इति विग्रहः ।
Tattvabodhini¶
दुहः कब् घश्च - कामदुघेति ।धेनु॑रिति शेषः । कामं दोग्धीति विग्रहः ।
Padamanjari¶
दुहः कब्धश्च॥ कामदुधेति। काम्यन्ते इति कामाः, तान् दुग्धे कामदुघा अर्घःउमधुपर्कः॥
Nyaas¶
कामदुधा। घर्मदुघा। कामं दोग्धीति कामदुघा। गर्मं दोग्धीति घर्मदुधा॥
Prakriyasarvasvam¶
सुबन्तपूर्वाद् दुहः कबन्त्यस्य च घः । कामदुघा गौः ।
Sutra Prayogas¶
कामदुघा (रघुवंशम्): दुहः कब्धश्च इति कप्प्रत्ययः घादेशश्च।
कामदुघाम् (रघुवंशम्): दुहः कब्घश्च इति कप्प्रत्ययः।
कामदुघाः (किरातार्जुनीयम्): दुहः कब्धश्च इति कप्प्रत्ययो धादेशश्च ।