32072: अवे यजः

Padacheda: अवे | S | 7 | 1 |

यजः | S | 5 | 1 |

Sutrartha


Vasu English Summary

In the मन्त्र literature,the affix णिवन् comes after the verb यज् ‘to sacrifice’ when in composition the word अव्।

Vasu English Translation

In the मन्त्र literature,the affix णिवन् comes after the verb यज् ‘to sacrifice’ when in composition the word अव्। As अवयाज्, nom. sing. अवयाः (Rig. Ved. I.173.12) ‘name of a Vedic priest’; as त्वं यज्ञे वरुणस्यावया असि ‘Thou art the priest of Varuna in the sacrifice’.

The division of this aphorism from the last in which it could have been included, is for the sake of the subsequent sutras in which the anuvritti of यज only runs. This word is thus declined:-

  • 1st. अवयाः, अवयाजौ, अवयाजः

  • 2nd. अवयाजं, अवयाजौ, अवयाजः

  • 3rd. अवयाजा, अवयोभ्यां, अवयोभिः

Kashika

अव उपपदे यजेर्धातोर्ण्विन् प्रत्ययो भवति मन्त्रे विषये। त्वं॑ यज्ञे॑ व॑रुणस्यावया॑ असि (काठ०सं०३५.६५)। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

अवयाः । अवयाजौ । अवयाजः ॥

Padamanjari

अवे यजः॥ अवया इति। निपातनाद्रुत्वम्। योगविभाग उतरार्थ इति।’पुरोडाशवयजो ण्विन्’ इत्येकयोगे श्वेतवहादीनामप्युतरत्रानुवृत्तिः स्यात्, यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्, केवलस्यैव चेष्यते, तदर्थो योगविभाग इत्यर्थः॥

Nyaas

`योगविभाग उत्तरार्थः`इति। उत्तरसूत्रे यजरेवानुवृत्तिर्यथा स्यात्॥

Prakriyasarvasvam

अवपूर्वाद् यजेः ण्विन् । प्राग्वत् पदत्वे डस् । अवयजन् अवयाः । अवयाजौ । सम्बुद्ध्यादौ प्राग्वत् ।