32047: गमश्च ============ **Padacheda:** गमः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the affix खच् comes after the verb गम् 'to go' when in composition with a word ending in a case-affix and when the word to be formed denotes a name. Vasu English Translation ------------------------ And the affix खच् comes after the verb गम् 'to go' when in composition with a word ending in a case-affix and when the word to be formed denotes a name. As सुतङ्गमः '*Sutangama*'. Though the verb गम् could well have been included in the last aphorism, the separation serves the purpose of carrying the *anuvritti* of गम् into the subsequent *sutras*. Kashika ------- गमेर्धातोः सुप्युपपदे संज्ञायां विषये खच् प्रत्ययो भवति। सुतंगमो नाम, यस्य पुत्रः सौतंगमिः। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- सुतंगमः ॥ Balamanorama ------------ **गमश्च** - गमश्च ।संज्ञायां ख॑जिति शेषः । Tattvabodhini ------------- **गमश्च** - गमश्च । पूर्वसूत्र एव गमिर्नोक्तः,उत्तरसूत्रे गमेरेवानुवृत्तिर्यथा स्यात्, भृतृप्रभृतीनां माभूदिति । Padamanjari ----------- गमश्च॥ योगविभाग उतरार्थ इति। उतरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतृप्रभृतीनां मा भूत्॥ Nyaas ----- `यस्य सौतङ्गमिः पुत्रः` इति। पुत्रस्य सौतङ्गमित्वव्यपदेशेन पितुः सुतङ्गमसंज्ञानुमीयत इति दर्शयति। सत्यां हि पितुः सुतङ्गमसंज्ञायां तत्पुत्रस्य सौतङ्गमिशब्देनाभिधानं भवति, नासत्याम्। अथ योगविभागः किमर्थः, पूर्वसूत्र एव गमेग्र्रहणं क्रियातमित्याह - `योगविभाग उत्तरार्थः` इति। गमेरेवोत्तरत्रानुवृत्तिर्यथा स्यात्, भृञादीनां मा भूत्। एकयोगे हि तेऽप्यनुवर्तेरन्॥ Prakriyasarvasvam ----------------- नाम्नि खच् स्यात् । सुतङ्गम ऋषिः । जनाद् दूरे गच्छन् जनङ्गमः श्वपचः । तुरभुजप्रवप्लवमेषु गमेः खचो वा डित्वं वाच्यम् । डित्त्वात् 'टेः' (६-४-१४३) इति टिलोपः । 'तुर त्वरण' इत्यस्माद् 'इगुपध' (३-१-१३५) इति के तुरो वेगी । तुरी गच्छतीति तुरङ्गः । तुरङ्गमः । भुजः कुटिलो गच्छतीति भुजङ्गः, भुजङ्गमः, प्लवङ्गः, प्लवङ्गमश्च कपिः । प्लवङ्गः, प्लवङ्गमश्च भेकः । 'विहायसो विह च' (वा० ३-२-३८) । विहङ्गः, विहङ्गमः । तुरादिषु गमेर्डश्चेष्यते । डित्त्वाट्टिलोपः । तुरगः । भुजगः । प्रवगः । प्लवगः । डे च विहादेशो वाच्यः । विहगः । Sutra Prayogas -------------- * **प्लवंगमाः** (शिशुपालवधम्): `गमश्च` इति खच्प्रत्यये मुमागमः। * **जनङ्गम** (शिशुपालवधम्): `गमश्च` इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः। * **हृदयं-गम** (भट्टिकाव्यम्): `गमश्च` इति खच् प्रत्ययः। * **द्राक्षीर्मृषा** (भट्टिकाव्यम्): `न दृशः` इति निषेधः । * **हृदयं-गमम्** (भट्टिकाव्यम्): `गमश्च` इति खच् प्रत्ययः।