32028: एजेः खश्

Padacheda: एजेः | S | 5 | 1 |

खश् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix खश् comes after the verb एजृ ‘to tremble’ when ending in शि and when the object is in composition with it.

Vasu English Translation

The affix खश् comes after the verb एजृ ‘to tremble’ when ending in शि and when the object is in composition with it. This affix comes after the causative of एज्. Of the affix खश् the letters ख् and श् are indicatory, the real affix is अ. The ख् indicates that the augment मुम् is added to the upapada ending in a vowel (6.3.67). The श indicates that this is a Sarvadhatuka affix (2.4.11), and therefore the vikaranas like शप् &c. (3.1.68) will be employed here. Thus अङ्गमेजयति = अङ्गमेजयः (अङ्ग + एजि + शप् + खश् = अङ्गम् + एजे + अ + अ) ‘who awes the limbs’; जनमेजयः ‘who awes man-kind’.

Vart:- The affix खश् comes after the verbs अज् ‘to go’, धेट् ‘to suck’, तुद् ‘to strike’, हा ‘to leave’ when in composition with the words वात ‘wind’, शुनी ‘a bitch’, तिल ‘sesamum’ and शर्द्ध ‘flatulence’. As वातमजाः मृगाः ‘swift antelopes’ (going with the wind); शुनिन्धयः ‘a bitch-sucker’; तिलन्तुदः ‘an oilman’; शर्द्धञ्जहा माषाः ‘a kind of bean’ (that causes or cures flatulence). The long ई of शुनी is shortened by (6.3.66).

Bhashya

एजेः खश् 794 (482 खश्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ. 14 सू) (2028 खश्प्रत्ययविधिवार्तिकम्॥ 1 ॥) - खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः - (भाष्यम्) खश्प्रकरणे वातशुनीतिलर्शर्धेषु अजधेट्तुदजहातिभ्य इति वक्तव्यम्। वातमजाः मृगाः वात॥ शुनी - शुर्निधयः। शुनी॥ तिल - तिलंतुदः। तिल॥ शर्ध - शर्धेजहा माषाः॥ शर्ध॥ एजेः खश्॥ 28 ॥

Kashika

एजृ कम्पने इत्यस्माण् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमर्थः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः॥ खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातीनामुपसंख्यानम्॥ वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः॥

Siddhanta Kaumudi

ण्यन्तादेजेः खश् स्यात् ॥

Laghu Siddhanta Kaumudi

ण्यन्तादेजेः खश् स्यात्॥

Balamanorama

एजेः खश् - #एजेः खश् । एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् ।

Tattvabodhini

एजेः खश् - एजेः खश् । एजृ कम्पने । एजेरिति ण्यन्तस्य निर्देशो, न तु शुद्धस्येका निर्देशः, खशः शित्करणाल्लिङ्गात् । तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति । न चशुद्धस्य [शब्दस्य] शपि सत्यसति वा विशेषोऽस्ति । न चोत्तरार्थ शित्त्वमिति वाच्यम्, इहाऽर्थवत्त्वे संभवति केवलोत्तरार्थत्वस्याऽन्याय्यत्वात् । तदेतदाह - ण्यन्तादेजेरिति ।

Padamanjari

एजेः खश॥ ण्यन्तादिति। एजेस्त्वयमिका निर्देशो न भवति; खशः शित्करणात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चैजेः प्रकृत्यन्तरस्य शपि सत्यसति वा विशेषोऽस्ति। न चेवमिहार्थत्वे सम्भवति, केवलोतरार्थत्वं युक्तम्। सित्करणं मुमर्थमिति। खित्कार्योपलक्षणमेतत्। शुनिन्धयः नाडिन्धयः, नासिकन्धय इति ह्रस्वत्वमपि प्रयोजनम्। शकारः सावधातुकार्थ इति। सार्वधातुकसंज्ञार्थ इत्यर्थः। वातशुनीत्यादि। वातादिषु यथासंख्यमुपपदेषु अजादिभ्यो धातुभ्यः खश् प्रत्ययो भवति। शर्द्धजहा इति। ठोहाक् त्यागेऽ जुहोत्यादित्वाच्छपः श्लौ द्विर्वचने’श्नाभ्यस्तयोरातः’ इत्याकारलोपः॥

Nyaas

ण्यन्तात्` इति। एतेन प्रकृत्यन्तरस्यायमेजेरिका निर्देश इत्याशङ्कां निरस्यति। कुतः पुनण्र्यन्तमवसितम्? खशः शित्करणात्। प्रकृत्यन्तरस्य ग्रहणे शित्करणमनर्थकं स्यात्। तद्धि सार्वधातुके सति तदाश्रयस्य शपो विधिर्यथा स्यादित्येवमर्थं क्रियते। न चैजेः प्रकृत्यन्तरस्य सत्यसति वा शपि कश्चिद्विशेषोऽस्ति, ण्यग्रहणे तु सति शित्करणमर्थवद्भवति। असति तस्मिन् णिलोपः स्यात्, तस्मस्तु सति सार्वधातुनिबन्धने शपि णिलोपो न भवति। आर्धधातुकत्वं णिलोप इत्येके, एतच्चायुक्तम्; उत्तरार्थं हि शित्करणं स्यात्। असति हि तस्मिन्नुत्तरसूत्रे धेट आत्त्वं स्यात्, ध्मश्च धमादेशो न स्यात्। तथा च स्तनन्धयः, नासिकन्धम इति न सिध्येत्। तस्माद्व्याख्यानादेव ण्यन्तत्वमवसेयम्। खकारोऽयं मुमर्थः`इति। **खित्यनव्ययस्य** (6.3.66) इत्यधिकृत्य **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुमागमो यथा स्यात्। `शकारः सार्वधातुकसंज्ञार्थः इति। तिङशित् सार्वधातुकम् (3.4.113) इति सार्वधातुकसंज्ञा यथा स्यात्। अङ्गमेजयः इति। शप्, गुणायादेशौ।खश्प्रकरणे इत्यादि। वातादिषूपपदेषु अज गतिक्षेपणयोः (धातुपाठः-230), धेट् पाने (धातुपाठः-902), तुद व्यथने (धातुपाठः-1281),`ओहाक् त्यागे` (धातुपाठः-1090) - इत्येभ्यो धातुभ्यः खश्प्रकरण उपसंख्यानं कर्तव्यम्। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - नाडीमुष्ट्योश्च (3.2.30) इत्यत्र चकारः, स चानुक्तसमुच्चयार्थः। तेन वातादिषूपपदेष्वजादिभ्यो धातुभ्यः खश् भविष्यति। शुनिन्धयः इति। खित्यनव्ययस्य (6.3.66) इति ह्रस्वत्वम्। शद्र्धञ्जहाः इति। जुहोत्यादिभ्यः शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, श्नाब्यसत्योरातः (6.4.112) इत्याकारलोपः॥

Prakriyasarvasvam

ण्यन्तादेजेः कर्मणि पूर्वे खश् स्यात् । शित्त्वात् सार्वधातुकत्वेन शबगुणौ । एजयः ।

Vartika

वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्य उपसंख्यानम् ।

Sutra Prayogas

  • सत्वमेजय (भट्टिकाव्यम्): एजेः खश् इति सत्वमेजय इत्यत्र खश्-प्रत्ययः।