32029: नासिकास्तनयोर्ध्माधेटोः

Padacheda: नासिकास्-तनयोः | S | 7 | 2 |

ध्मा-धेटोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix खश् comes after the verbs ध्मा ‘to blow’ and धे ‘to suck’ when नासिका ‘nose’ and स्तन ‘breast’ are in composition with them as object.

Vasu English Translation

The affix खश् comes after the verbs ध्मा ‘to blow’ and धे ‘to suck’ when नासिका ‘nose’ and स्तन ‘breast’ are in composition with them as object. The rule of yathasankhya as given in (1.3.10) does not however, apply here. For स्तन is compounded with धेट्; as (स्तन + धे + खश् = स्तन + मुम् + धे + शप् + खश् = स्तन + म् + धय् + अ + अ) = स्तनन्धयः ‘an infant’ (sucking the breast).

But नासिका is compounded with both ध्मा and धे; as नासिका + ध्मा + खश् = नासिक + म् + धम + अ (6.3.66) and (67); (7.3.78) = नासिकन्धमः ‘blowing and breathing through the nose’. So also नासिकन्धयः ‘drinking through the nose’.

That the rule of yathasankhya does not apply here, is indicated by the irregular construction of the Dvandva compound नासिकास्तनयोः. By rule (2.2.84) the word स्तन containing fewer syllables ought to have stood first; one irregularity lets in another.

The feminine of स्तनन्धयः is स्तनन्धयी, as the verb धे has an indicatory ट् ।

Bhashya

नासिकास्तनयोर्ध्माधेटोः (796) (473 खश्प्रत्ययविधिसूत्रम् ॥ 3 । 2 । 1 आ. 15 सूत्रम्) (2029 करणीयसूत्रपाठदर्शकवार्तिकम् ॥ 1 ॥) - स्तने धेटः- (भाष्यम्) स्तने धेट इति वक्तव्यम्। स्तनंधयः। ततो, (2030 करणीयसूत्रपाठदर्शकवार्तिकम् ॥ 2 ॥) - मुष्टौ ध्मश्च- (भाष्यम्) मुष्टौ ध्मश्च धेटश्चेति वक्तव्यम्। मुष्टिंधमः मुष्टिंधयः। (2031 करणीयसूत्रपाठदर्शकवार्तिकम् ॥ 3 ॥) - नासिकायां ध्मश्च धेष्टश्च- (भाष्यम्) नासिकायां ध्मश्च धेटश्चेति वक्तव्यम्। नासिकंधमः। नासिकंधयः ॥ (न्यूनताप्रदर्शकभाष्यम्) अत्यल्पमिदमुच्यते। (2032 न्यूनतापूरकवार्तिकम् ॥ 4 ॥) - नासिका नाडीमुष्टिघटीखारीषु- (भाष्यम्) नासिकानाडीमुष्टिघटीखारीष्विति वक्तव्यम्। नासिकंधयः नासिकंधमः। नासिका ॥ नाडिंधयः नाडिंधमः घटिंधयः। घटी ॥ खारिंधयः खारिंधमः। खारी ॥ नासिकास्तन ॥ 29 ॥

Kashika

नासिकास्तनयोः कर्मणोरुपपदयोर्ध्माधेटोर्धात्वोःखश् प्रत्ययो भवति। यथासंख्यमत्र नेष्यते॥ स्तने धेटः॥ स्तनन्धयः॥ नासिकायां तु ध्मश्च धेटश्च॥ नासिकन्धमः। नासिकन्धयः। तच्चैतन्नासिकास्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्या — पूर्वनिपातनाल्लभ्यते। धेटष्टित्तवात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी॥

Siddhanta Kaumudi

अत्र वार्तिकम् ।<!स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् !> (वार्तिकम्) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥

Balamanorama

नासिकास्तनयोर्ध्माधेटोः - नासिका । नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी । ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।ख॑शिति शेषः । यथासङ्ख्यमन्वये प्राप्ते आह — अत्र वार्तिकमिति । धेटष्टित्त्वादिति । यद्यपिटिड्ढे॑त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः । अत्र यद्वक्तव्यं तत्प्राघ्राध्माधेट्दृशः शः॑ इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकाया ध्मश्चेति । चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति — नासिकन्धय इति ।

Tattvabodhini

नासिकास्तनयोर्ध्माधेटोः - * स्तने धेटोनासिकायां ध्मश्चेति वाच्यम् । धेटष्टित्त्वादिति । अवयवे अचरितार्थत्वादिति भावः । खश्प्रत्यन्तादेव धेटो ङीबिष्टो नान्यत इति वद्र्धमानक्षीरस्वामिहरदत्तायः । तेनपाघ्राध्माधे॑ डिति शप्रत्ययेआतोऽनुपसर्गे कः॑ इति कप्रत्यये च टाबेव । धया — कन्या । गां धयतीति गोधा । अत्र च संप्रदाय एव शरणम् । नासिकंधम इति ।पाघ्राध्मे॑ति धमादेशः ।

Padamanjari

नासिकास्तनयोर्ध्माधेटोः॥ नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातृणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम् - -उतरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः॥

Nyaas

स्तने धेटः इत्यादिना यथायोगमुपपदसम्बन्धं दर्शयन्नुदाहरणानि दर्शयति। नासिकन्धमः इति। पाघ्रादिसूत्रेण (7.3.78) धमादेशः। तच्चैतत् इत्यादि। यथासंख्याभावे हेतुमाह। स्तनशब्दो हि नासिकापेक्षयल्पाच्तरः, तस्य पूर्वनिपाते कर्तव्ये योऽयमपूर्वनिपातः कृतः सलक्षमव्यभिचारं सूचयति। यथेह पूर्वनिपातशास्त्रं व्यभिचरति, स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति। अतोऽस्माल्लक्षणव्यभिचारचिह्नाद्यथासंख्याभावो लभ्यते॥

Prakriyasarvasvam

अनयोः पूर्वयोर्ध्माधेटोः खश् । शित्त्वाद् धमादेशः ।

Vartika

स्तने धेटः ।

Sutra Prayogas

  • स्तनंधयप्रीतिम् (रघुवंशम्): नासिकास्तनयोर्ध्माधेटाः इति खश्प्रत्ययः।

  • स्तनन्धयान् (शिशुपालवधम्): नासिकास्तनयोर्ध्माधेटोः इति धेटः खशप्रत्ययः।