32027: छन्दसि वनसनरक्षिमथाम्

Padacheda: छन्दसि | S | 7 | 1 |

वन-सन-रक्षि-मथाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the affix इन् comes after the verbs वन् ‘to honour’, सन् ‘to worship’, रक्ष् ‘to protect’ and अथ् ‘to agitate’, when the object is in composition.

Vasu English Translation

In the छन्दस् (Vedas) the affix इन् comes after the verbs वन् ‘to honour’, सन् ‘to worship’, रक्ष् ‘to protect’ and अथ् ‘to agitate’, when the object is in composition. Thus ब्रह्मवनिं त्वा क्षत्रवनिम् (Vaj. San. I.17., V. 12., VI.3); उत नो गोपतिं (Rig. Ved. (VI.53.10)) यै ते श्वानौ पथिरक्षो (Rig. Ved. (X. 14. II)) इन्द्रा यातूनामभवत् पाराशरो हविर्मथीनाम् (Rig. Ved. (VII.104.21)).

Kashika

वन षण संभक्त ौ रक्ष पालने मथे विलोडने एतेभ्यः कर्मण्युपपदे छन्दसि विषय इन् प्रत्ययो भवति। ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनि॑म् (तै०सं० १.३.१.२)। गो॒सनिं॒ वाच॑मुदेय॒म् (शौ०सं० ३.२०.१०)। यौ प॑थि॒रक्षी॒ श्वानौ॑ (शौ०सं० ८.१.९)। ह॑वि॒र्मथी॑नाम॒भ्या॒ विवा॑सताम् (ऋ० ७.१०४.२१)॥

Siddhanta Kaumudi

एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥

Padamanjari

च्छन्दसि वनसनरक्षिमथाम्॥ वन षण संभक्ताविति। गणे सहपठितयो र्भौवादिकयोरेव ग्रहणम्, न तु’वनु याचने’ ‘षणु दाने’ इति तानादिकयोरिति भावः। अत्र साहचर्यमेव हेतुः, निरनुबन्धकत्वं च। ब्रह्मवनिमिति। ब्रह्म वनति, क्षत्रं वनतीति विवक्षयामिन् प्रत्ययः, तदन्ताद् द्वितीयैकवचनम्। गौसनिमिति। गांसनतोति विग्रहः। पथिरक्षी इति। पन्थानं रक्षत इति विग्रहः। हविर्मथन्तीति हविर्मथयस्तेषां हदिर्मथीनाम्॥

Nyaas

ब्राहृवनिं त्वा क्षत्रवनिम्िति। ब्राहृ वनति, क्षत्रं वनतीत्यर्थविवक्षायामिन्प्रत्ययः। तदन्ताद्द्वितीया, तस्याः `सुपां सुलुक् (7.1.39) इति लुक्। युष्मच्छब्दाद्द्वितीयादिभक्तेः त्वामौ द्वितीयायाः (8.1.23) इति त्वादेशः। गोसनिम् इति। गां सनतीत्यर्थ इन्प्रत्ययः। तदन्तादमि परे पूर्वरूपत्वम्। पन्थानं रक्षत इति पथिरक्षी। द्विवचनमेतत्। पूर्वसवर्णदीर्घत्वम्। हविर्मथीनाम् इति। हविर्मथन्तीति विगृह्र प्रत्ययः। तदन्तात् षष्ठआ बहुवचनम्॥

Prakriyasarvasvam

एभ्यः कर्मण्युपपद इन् स्यात् । देवश्रुतं वृष्टिवनिं वाजसनिं पूर्भिदं तूर्णि²मत्पुरं पशुरक्षिरस्तम् । हविर्मथीनामभि ।