32026: फलेग्रहिरात्मम्भरिश्च¶
Padacheda: फलेग्रहिः | S | 1 | 1 |
आत्मम्भरिः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the words फलेग्रहि and आत्मम्भरि are irregularly formed.
Vasu English Translation¶
And the words फलेग्रहि and आत्मम्भरि are irregularly formed. The word फलेग्रहिः is formed by adding the affix इन् to the verb ग्रह and making the upapada end in the vowel ए. Thus फलानि गृह्णाति = फलेग्रहिः ‘the fruit-bearing i. e. a tree’.
The word आत्मम्भरिः is formed by adding the augment मुम् (म) to the upapada आत्म, and the affix इन् to the verb भृञ्. Thus आत्मानं बिभर्ति = आत्मम्भरिः ‘selfish’ (one who feeds his own self).
The word ‘and’ indicates that there are other such irregularly-formed words. As कुक्षिम्भरिः ‘gluttonous, selfish’ (caring to feed his own belly). उदम्भरिः ‘gluttonous, selfish’.
Bhashya¶
फलेग्रहिरात्मंभरिश्च (793) (481 इन्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.13) (आक्षेपभाष्यम्) आत्मंभरिरिति किं निपात्यते। (समाधानभाष्यम्) आत्मनो मुम् भृञ्ञश्चेन्प्रत्ययः॥ (न्यूनताप्रदर्शकभाष्यम्) अत्यल्पमिदमुच्यते आत्मनः इति। (2027 न्यूनतापूरकवार्तिकम्॥ 1 ॥) - भृञ्ञः कुक्ष्यात्मनोर्मुम् च- (भाष्यम्) भृञ्ञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम्। कुक्षिंभरिः। आत्मंभरिश्चरति यूथमसेवमानः॥ फलेग्रहिरात्मं॥ 26 ॥
Kashika¶
फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते । फलशब्दस्य उपपदस्यैकारान्तत्वमिन्प्रत्ययश्च ग्रहेर्निपात्यते । फलानि गृह्णातीति फलेग्रहिर्वक्षः। आत्मशब्दस्योपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्त समुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः॥
Siddhanta Kaumudi¶
फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥
Balamanorama¶
फलेग्रहिरात्मम्भरिश्च - फलेघिः । ग्रहेरिन्निति । नतु ‘गृहू ग्रहणे’ इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह — चात्कुक्षम्भरिरिति । भाष्ये तुभृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य॑मिति स्थितम् ।स्यादवन्ध्यः फलेग्रहिः॑ इति वृक्षपर्याये अमरः ।उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॑ इति विशेष्यनिघ्नवर्गे । उदरम्भरिशब्दं समर्थयितुमाह — चान्द्रास्त्विति ।
Tattvabodhini¶
फलेग्रहिरात्मम्भरिश्च - कुक्षिम्भरिरिति । एवं चगिरिस्तु कनकाचलः, कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः,कति न सन्ति भूदारकाः । मरुत्तु मलयानिलः, कति न सन्ति झञ्झानिलाः,प्रभुस्तु विबुधाश्रयः, कति न सन्ति कुक्षिम्भराः॑इति केषांचित्प्रयोगः प्रामादिक एव ।
Padamanjari¶
फलेग्रहिरात्मम्भरिश्च॥ उपपदस्यैकारान्तमिति। च्छन्दस्यकारान्तत्वमपि द्दश्यते - या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः॥
Prakriyasarvasvam¶
द्वाविमन्तौ । फलवान् फलेग्रहिस्तरुः । तरूणां फलेग्रहिर्मुनिमिति फलादातोऽपि । आत्मम्भरिः । चकारान्मलग्रहिः पटः । रजोग्रहिर्देहः । कुक्षिम्भरिः, उदरम्भरिः ।
Sutra Prayogas¶
आत्मंभरिस्त्वं (भट्टिकाव्यम्): फलेग्रहिरात्मम्भरिश्च इति निपातितौ।