32026: फलेग्रहिरात्मम्भरिश्च ============================ **Padacheda:** फलेग्रहिः | S | 1 | 1 | आत्मम्भरिः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the words फलेग्रहि and आत्मम्भरि are irregularly formed. Vasu English Translation ------------------------ And the words फलेग्रहि and आत्मम्भरि are irregularly formed. The word फलेग्रहिः is formed by adding the affix इन् to the verb ग्रह and making the *upapada* end in the vowel ए. Thus फलानि गृह्णाति = फलेग्रहिः 'the fruit-bearing i. e. a tree'. The word आत्मम्भरिः is formed by adding the augment मुम् (म) to the *upapada* आत्म, and the affix इन् to the verb भृञ्. Thus आत्मानं बिभर्ति = आत्मम्भरिः 'selfish' (one who feeds his own self). The word 'and' indicates that there are other such irregularly-formed words. As कुक्षिम्भरिः 'gluttonous, selfish' (caring to feed his own belly). उदम्भरिः 'gluttonous, selfish'. Bhashya ------- फलेग्रहिरात्मंभरिश्च (793) (481 इन्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.13) (आक्षेपभाष्यम्) आत्मंभरिरिति किं निपात्यते। (समाधानभाष्यम्) आत्मनो मुम् भृञ्ञश्चेन्प्रत्ययः॥ (न्यूनताप्रदर्शकभाष्यम्) अत्यल्पमिदमुच्यते आत्मनः इति। (2027 न्यूनतापूरकवार्तिकम्॥ 1 ॥) - भृञ्ञः कुक्ष्यात्मनोर्मुम् च- (भाष्यम्) भृञ्ञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्यम्। कुक्षिंभरिः। आत्मंभरिश्चरति यूथमसेवमानः॥ फलेग्रहिरात्मं॥ 26 ॥ Kashika ------- फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते । फलशब्दस्य उपपदस्यैकारान्तत्वमिन्प्रत्ययश्च ग्रहेर्निपात्यते । फलानि गृह्णातीति फलेग्रहिर्वक्षः। आत्मशब्दस्योपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्त समुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः॥ Siddhanta Kaumudi ----------------- फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥ Balamanorama ------------ **फलेग्रहिरात्मम्भरिश्च** - फलेघिः । ग्रहेरिन्निति । नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह — चात्कुक्षम्भरिरिति । भाष्ये तुभृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य॑मिति स्थितम् ।स्यादवन्ध्यः फलेग्रहिः॑ इति वृक्षपर्याये अमरः ।उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॑ इति विशेष्यनिघ्नवर्गे । उदरम्भरिशब्दं समर्थयितुमाह — चान्द्रास्त्विति । Tattvabodhini ------------- **फलेग्रहिरात्मम्भरिश्च** - कुक्षिम्भरिरिति । एवं चगिरिस्तु कनकाचलः, कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः,कति न सन्ति भूदारकाः । मरुत्तु मलयानिलः, कति न सन्ति झञ्झानिलाः,प्रभुस्तु विबुधाश्रयः, कति न सन्ति कुक्षिम्भराः॑इति केषांचित्प्रयोगः प्रामादिक एव । Padamanjari ----------- फलेग्रहिरात्मम्भरिश्च॥ उपपदस्यैकारान्तमिति। च्छन्दस्यकारान्तत्वमपि द्दश्यते - या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः॥ Prakriyasarvasvam ----------------- द्वाविमन्तौ । फलवान् फलेग्रहिस्तरुः । तरूणां फलेग्रहिर्मुनिमिति फलादातोऽपि । आत्मम्भरिः । चकारान्मलग्रहिः पटः । रजोग्रहिर्देहः । कुक्षिम्भरिः, उदरम्भरिः । Sutra Prayogas -------------- * **आत्मंभरिस्त्वं** (भट्टिकाव्यम्): `फलेग्रहिरात्मम्भरिश्च` इति निपातितौ।