32017: भिक्षासेनादायेषु च¶
Padacheda: भिक्षा-सेना-आदायेषु | S | 7 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ट is used after the verb चर् ‘to go’ when the words in composition with it भिक्षा ‘alms’, सेना ‘army’ and आदाय ‘having taken’.
Vasu English Translation¶
The affix ट is used after the verb चर् ‘to go’ when the words in composition with it भिक्षा ‘alms’, सेना ‘army’ and आदाय ‘having taken’. The anuvritti of the words ‘in the locative case’ does not extend to this aphorism, and hence the necessity of making a distinct and separate sutra.
Thus भिक्षाचरः ‘a beggar’ (who goes for alms); सेनाचरः ‘one who goes with an army’; आदायचरः ‘one who goes after having taken’.
Bhashya¶
भिक्षासेनादायेषु च (784) (आक्षेपभाष्यम्) इह कस्मान्न भवति - कुरूंश्चरति पञ्ञ्चालांश्चरतीति?। (समाधानभाष्यम्) अधिकरण इति वर्तते॥ ननु च कर्मणीत्यपि वर्तते। तत्र कुत एतद् अधिकरणे भविष्यति न पुनः कर्मणीति॥ (2024 समाधानवार्तिकम्॥ 1 ॥) - चरेर्भिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य- (भाष्यम्) यदयं भिक्षासेनादायेषु चेति चरेर्भिक्षाग्रहणं करोति तज्ज्ञापयत्याचार्यो न भवति कर्मणीति चरेष्टः॥ 16 ॥
Kashika¶
अनधिकरणार्थ आरम्भः। भिक्षा सेना आदाय इत्येतेषूपपदेषु चरेर्धातोष्टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः॥
Siddhanta Kaumudi¶
भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥
Laghu Siddhanta Kaumudi¶
भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥
Balamanorama¶
भिक्षासेनाऽऽदायेषु च - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि ‘भिक्षाचर’ इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः ।
Tattvabodhini¶
भिक्षासेनाऽऽदायेषु च - भिक्षासेना । अनधिकरणार्थ आरम्भः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनाचर इति । सेनां चरति = प्रविशतीत्यर्थः । पचादिष्विति । टविधानं तुउपपदमति॑ ङिति नित्यसमासार्थम् । सहचरः । सहचरीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः ।
Padamanjari¶
भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥
Nyaas¶
अनधिकरणार्थ आरम्भः इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति भिक्षाचरः सेनाञ्चरतीति सेनाचरः। आदाय इति ल्यबन्तमेतत्। आदाय चरतीति आदायचरः अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते? एवमपि न दोषः; वचनसामर्थ्यादसामर्थ्येऽपि प्रत्ययो भवति॥
Prakriyasarvasvam¶
भिक्षां चरणेनार्जयन् भिक्षाचरः । सेनायां चरन् सेनाचरः । गृहीत्वा गच्छन् भक्षयन् वा आदायचरः । चकारादनुचरी सहचरीत्यादौ टः ।
Sutra Prayogas¶
सौमित्रि-सीताऽनुचरस्य (भट्टिकाव्यम्): भिक्षा सेनादायेषु च इति चकारस्यानुक्तसमुच्चयार्थत्वात् टः ।
सह-चरीम् (भट्टिकाव्यम्): भिक्षासेनादायेषु च इति टप्रत्ययः।
आदाय-चरो (भट्टिकाव्यम्): भिक्षा-सेना इत्यादिना।