32017: भिक्षासेनादायेषु च ========================= **Padacheda:** भिक्षा-सेना-आदायेषु | S | 7 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ट is used after the verb चर् 'to go' when the words in composition with it भिक्षा 'alms', सेना 'army' and आदाय 'having taken'. Vasu English Translation ------------------------ The affix ट is used after the verb चर् 'to go' when the words in composition with it भिक्षा 'alms', सेना 'army' and आदाय 'having taken'. The *anuvritti* of the words 'in the locative case' does not extend to this aphorism, and hence the necessity of making a distinct and separate *sutra*. Thus भिक्षाचरः 'a beggar' (who goes for alms); सेनाचरः 'one who goes with an army'; आदायचरः 'one who goes after having taken'. Bhashya ------- भिक्षासेनादायेषु च (784) (आक्षेपभाष्यम्) इह कस्मान्न भवति - कुरूंश्चरति पञ्ञ्चालांश्चरतीति?। (समाधानभाष्यम्) अधिकरण इति वर्तते॥ ननु च कर्मणीत्यपि वर्तते। तत्र कुत एतद् अधिकरणे भविष्यति न पुनः कर्मणीति॥ (2024 समाधानवार्तिकम्॥ 1 ॥) - चरेर्भिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य- (भाष्यम्) यदयं भिक्षासेनादायेषु चेति चरेर्भिक्षाग्रहणं करोति तज्ज्ञापयत्याचार्यो न भवति कर्मणीति चरेष्टः॥ 16 ॥ Kashika ------- अनधिकरणार्थ आरम्भः। भिक्षा सेना आदाय इत्येतेषूपपदेषु चरेर्धातोष्टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः॥ Siddhanta Kaumudi ----------------- भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥ Laghu Siddhanta Kaumudi ----------------------- भिक्षाचरः। सेनाचरः। आदायेति ल्यबन्तम्। आदायचरः॥ Balamanorama ------------ **भिक्षासेनाऽऽदायेषु च** - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि 'भिक्षाचर' इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः । Tattvabodhini ------------- **भिक्षासेनाऽऽदायेषु च** - भिक्षासेना । अनधिकरणार्थ आरम्भः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनाचर इति । सेनां चरति = प्रविशतीत्यर्थः । पचादिष्विति । टविधानं तुउपपदमति॑ ङिति नित्यसमासार्थम् । सहचरः । सहचरीत्यत्र तु सुप्सुपेति वैकल्पिकः समासः । Padamanjari ----------- भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥ Nyaas ----- `अनधिकरणार्थ आरम्भः` इति। अधिकरणे पूर्वेणैव सिद्धम्। भिक्षाञ्चरतीति `भिक्षाचरः` सेनाञ्चरतीति `सेनाचरः`। `आदाय` इति ल्यबन्तमेतत्। आदाय चरतीति `आदायचरः` अत्रादातव्यकर्मणोऽविवक्षितत्त्वात् पूर्वाकालमात्रे विवक्षिते प्रत्ययः। आदानं कृत्वा चरतीति यावत्। तेन सापेक्षत्वादसामर्थ्ये सति प्रत्ययो न सिध्यतीत्येतदचोद्यम्। अथापि कर्मापेक्षते? एवमपि न दोषः; वचनसामर्थ्यादसामर्थ्येऽपि प्रत्ययो भवति॥ Prakriyasarvasvam ----------------- भिक्षां चरणेनार्जयन् भिक्षाचरः । सेनायां चरन् सेनाचरः । गृहीत्वा गच्छन् भक्षयन् वा आदायचरः । चकारादनुचरी सहचरीत्यादौ टः । Sutra Prayogas -------------- * **सौमित्रि-सीताऽनुचरस्य** (भट्टिकाव्यम्): `भिक्षा सेनादायेषु च` इति चकारस्यानुक्तसमुच्चयार्थत्वात् टः । * **सह-चरीम्** (भट्टिकाव्यम्): `भिक्षासेनादायेषु च` इति टप्रत्ययः। * **आदाय-चरो** (भट्टिकाव्यम्): `भिक्षा-सेना` इत्यादिना।