32016: चरेष्टः¶
Padacheda: चरेः | S | 5 | 1 |
टः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ट comes after the verb चर् ‘to go’ when a case-inflected word in composition with it denotes a location.
Vasu English Translation¶
The affix ट comes after the verb चर् ‘to go’ when a case-inflected word in composition with it denotes a location. The word adhikarana of the last sutra is understood in this. As कुरुषु चरति = कुरुचरः ‘who goes among the Kurus’. मद्रचरः ‘who goes among the Madras’.
Of the affix ट the real affix is अ, the letter ट being indicatory, showing that the feminine of these words is formed by the affix ङीप्. (See. (4.1.14)), as कुरुचरी, मद्रचरी ।
Kashika¶
अधिकरण इति वर्तते। चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरतीति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्॥
Siddhanta Kaumudi¶
अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥
Laghu Siddhanta Kaumudi¶
अधिकरणे उपपदे। कुरुचरः॥
Balamanorama¶
चरेष्टः - चरेष्टः । ट इति च्छेदः । ‘अधिकरणे उपपदे’ इति शेषः । ‘अधिकरणे शेते’ रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।
Tattvabodhini¶
चरेष्टः - कुरुचर इति । कुरुषु देशेषु चरति । अटतीत्यर्थः ।
Nyaas¶
प्रत्ययान्तरकरणं ङीबर्थम् इति। टित्त्वान्ङीब्भवति॥
Prakriyasarvasvam¶
चरेरधिकरणपूर्वाट्टः स्यात् । व्रजे चरन् व्रजचरः । टित्त्वाद् व्रजचरी ।
Sutra Prayogas¶
वनेचराणां (कुमारसम्भवम्): चरेष्टः इति टप्रत्ययः।
वनेचरः (किरातार्जुनीयम्): चरेष्टः इति टप्रत्ययः।
सानुचरः (शिशुपालवधम्): चरेष्टः इति टप्रत्ययः।
खचरैः (शिशुपालवधम्): चरेष्टः इति टप्रत्ययः।
क्षणदाचराणां (भट्टिकाव्यम्): चरेष्टः इति टः।
रात्रिं-चराऽऽलयम् (भट्टिकाव्यम्): रात्रौ चरतीति चरेष्टः इति टः।
ख-चरोत्तमं (भट्टिकाव्यम्): अधिकरणे चरेष्टः इति खे चरन्तीति टप्रत्ययः।
रावणाऽनुचरान् (भट्टिकाव्यम्): चरेष्टः इति रावणस्यार्थेषु कार्येषु ये चरन्तीति टप्रत्ययः।
क्षणदा-चर्यो (भट्टिकाव्यम्): चरेष्टः इति टप्रत्ययः।