31130: क्रतौ कुण्डपाय्यसंचाय्यौ =============================== **Padacheda:** क्रतौ | S | 7 | 1 | कुण्डपाय्य-संचाय्यौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The words कुण्डपाय्यः and संचाय्यः are irregularly formed meaning 'a sacrifice'. Vasu English Translation ------------------------ The words कुण्डपाय्यः and संचाय्यः are irregularly formed meaning 'a sacrifice'. These words are thus formed: कुण्ड + पा (to drink) + यत् = कुण्ड + पा + य + य (7.3.33) = कुण्डपाय्यः 'the sacrifice in which *Soma* is drunk with a bowl'. The accent falls on the first syllable by (6.1.213). सम् + चि (to collect) + ण्यत् = सञ्चाय्यः 'the sacrifice in which *Soma* is collected'. If not applied to sacrifices, the forms will be कुण्डपानम् and सञ्चेयः. Bhashya ------- क्रतौ कुण्डपाय्यसंचाय्यौ (747) (458 ण्यत्प्रत्ययादिनिपातनसूत्रम् ॥ 3 । 1 । 6 आ.21) (1978 वार्तिकम् ॥ 1 ॥) - कुण्डपाय्ये यद्विधिः- (भाष्यम्) कुण्डपाय्ये यद्विधेयः ॥ कुण्डपाय्यः क्रतुः ॥ क्रतौ कुदृ ॥ 130 ॥ Kashika ------- कुण्डपाय्य संचाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत् प्रत्ययो निपात्यते युक् च। कुण्डेन पीयतेऽस्मिन् सोम इति कुण्ड॒पाय्यः॑ (ऋ० ८.१७.१३) क्रतुः। **यतोऽनावः** (६.१.२१३) इति स्वरः। संपूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। संचीयतेऽस्मिन् सोम इति संचाय्यः क्रतुः। क्रताविति किम्? कुण्डपानम्। संचयः॥ Siddhanta Kaumudi ----------------- कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥ Balamanorama ------------ **क्रतौ कुण्डपाय्यसंचाय्यौ** - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः । Tattvabodhini ------------- **क्रतौ कुण्डपाय्यसंचाय्यौ** - कुण्डपाय्य । कुण्डशब्दे तृतीयान्ते उपपदे पिबतेरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । नन्वत्र ण्यदेव निपात्यतां प्रकृत्वात्, एवं चआतो युक् चिण्कृतो॑रितिसिद्धत्वद्युक् न निपातनीय इतिलाघवमस्तीति चेत् । मैवम् । तित्स्वरप्रसङ्गात् । इष्यते तुयतोऽनावः॑ इत्याद्युदात्तः कृदुत्तरपदप्रकृतिस्वरः ।तथा च प्रयुज्यतेप्रणाय्यात् कुण्डपाय्य॑ इति । संपूर्वाच्चिनोतेस्तु ण्यदायौ निपात्येते । क्रतौ किम् । कुण्डपानम् । संचेयम् । Padamanjari ----------- क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह - यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥ Nyaas ----- `पिबतेः` इति। `पा पाने` (धातुपाठः-925)। `अधिकरमे यत्प्रत्ययः` इति। ल्युटि प्राप्ते। किं पुनः कारणं ण्यतं त्यक्त्वा यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्यते? अत आह - `यतोऽनाव इति स्वरः` इति। यत्प्रत्ययान्तत्वे ह्रुत्तरपदाद्युदात्तत्वं भवति। ण्यत्प्रत्ययान्तत्वेऽन्तस्वरितत्वं स्यात्। `कुण्डपानम्` इति। क्रतोरन्यत्र ल्युडेव भवति॥ Prakriyasarvasvam ----------------- आद्यो यदन्तः । Sutra Prayogas -------------- * **कुण्ड-पाय्य-वतां** (भट्टिकाव्यम्): `क्रतौ कुण्डपाय्यसंचाय्यौ` इति निपातितम्।