31117: विपूयविनीयजित्या मुञ्जकल्कहलिषु¶
Padacheda: विपूय-विनीय-जित्याः | S | 1 | 3 |
मुञ्ज-कल्क-हलिषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
When the words विपूय , विनीय and जित्या are irregularly formed they mean ‘the मुञ्ज grass’, ‘the sediment’ and ‘the plough’, respectively.
Vasu English Translation¶
When the words विपूय , विनीय and जित्या are irregularly formed they mean ‘the मुञ्ज grass’, ‘the sediment’ and ‘the plough’, respectively. Thus वि + पू + क्यप् = विपूयः etymologically ‘that which has to be purified to make rope’; वि + नी + क्यप् =विनीय ‘a sediment or sin’; जि + क्यप् = जित्य ‘a plough that which is to be conquered by strength’.
The regular derivatives are विपाव्यम्, विनेयम् and जेयम्.
Kashika¶
वपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मुञ्ज कल्क हलि इत्येतेष्वर्थेषु बोध्येषु। विपूर्वात् पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब् निपात्यते। विपूयो मुञ्जः। विपव्यमन्यत्। विनीयःकल्कः। विनेयमन्यत्। जित्यो हलिः। जेयमन्यत्॥
Siddhanta Kaumudi¶
पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कृष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्तु विपव्यम् । विनेयम् । जेयम् ॥
Balamanorama¶
विपूयविनीयजित्या मुञ्जकल्कहलिषु - विपूय । विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह — पूङित्यादिना । न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः । हलिशब्दस्य विवरणं - कृष्टेति ।
Tattvabodhini¶
विपूयविनीयजित्या मुञ्जकल्कहलिषु - पापमिति वेति ।तपो न कल्कोऽध्ययनं न कल्कः॑ इत्युपक्रम्यतान्येव बावोपहतानि कल्कः॑ इति भारते दर्शनात् ।कल्कः पापाशये पापे दम्बे विट्किट्टयोरपि॑ इति कोशाच्चेति भावः ।
Padamanjari¶
लिपूयविनीयजित्या मुञ्जकल्कहलिषु॥ विपूयो मुञ्ज इति। रज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्क इति। कल्कशब्दोऽयमस्ति पिष्ट औषधे -‘पथ्या सुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयाय’ इति, तैले घते वा औषधे प्रक्षिप्ते यदजीषं तत्रापि वर्तते, तापे च प्रसिद्धः -‘तपो न कल्को’ ध्ययनं न कल्कःऽ इत्यादौ; इह तु प्रथमस्य ग्रहणमिति केचित्। विशेषेणेति वयम्, तथा च माघः प्रायुङ्क्त - ठविनीय संभ्रमविकासिभक्तिभिःऽ इति। जित्य इति। बलेनाक्रष्टव्यः। कृष्टसमीकरणार्थं स्थूलं काष्ठ्ंअ हलिरिच्युत्यते॥
Nyaas¶
विपूर्वात् पवतेः इति। पङ पवने (धातुपाठः-966)। नयतेश्च इति। विपूर्वादित्यपेक्षते। यति प्राप्ते इति। त्रयाणामप्यजन्तत्वात्। विपूयते विपूयः। विनीयते = सिद्धत्वं प्राप्यते विनीयः। तैलेन घृतेन वा त्रिफलादिद्रव्यसमवेतेन साध्यः कश्चिदौषधविशेषः कल्क इत्युच्यते। जेतव्यो जित्यः। बृहद्धलम् = हलिः॥
Prakriyasarvasvam¶
विपूयो मुञ्जाख्यः । विनीयं पापं पिष्टं वा । महद्धलं हलिः तेनात्र कृष्टसमीकरणार्थं दारु जित्य इति हरः ।